________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते द्वीपवनशैलादिषु गत्वा समागतवतीषु तास्वेकदा पशुचारणादिगृहकर्मकरो दामलाह्वः किङ्करः शीतेन पराभूतस्तस्य काष्ठस्य विवरे प्रविष्टः । अथ ता अपि मन्त्राऽधिवासिते तस्मिन्नेव काष्ठेऽधिरुह्य सुवर्णद्वीपं गताः तत्र क्रीडन्तीषु तासु काष्ठतो निर्गतः स दामलोऽपि सुवर्णद्वीपं विलोक्य तुष्टः सुवर्णस्यैकामिष्टिकामादाय तथैव तत्र सुप्तः, ता अपि काष्ठाधिरूढाः समेत्य सुप्ता: । अथ प्रभाते तस्य कनकस्य लाभेन मत्तं पशुचारणादिकर्म तमकुर्वाणं सागरः स्माऽऽह, हे पुत्र ! कथं न करोषि स्वं कर्म ? अथ स्वस्वरूपमकथयता तेन भव्यभोजनादिलो - भितेन स्नुषावृत्तान्ते कथिते शरीरान्तः प्रसृततृष्णाकृष्णाहिगरः स सागरस्तस्मिन् काष्ठे सुप्तः अथ तत्रैव काष्ठेऽधिरूढास्ता रत्नद्वीपं गत्वा गृहमागताः, सागरोऽपि बहूनि रत्नान्यादाय काष्ठान्तः प्रविष्टः क्षेमेण गृहमागतः। अन्येद्युरन्तः प्रविष्टसागरे तस्मिन् काष्ठेऽधिरूढास्ताः सुवर्णद्वीपं गताः, लोभसागरः सागरोऽपि प्रभूतसुवर्णेन काष्ठं भृतवान् । सङ्कीर्णतया दुःखेन स्वयमपि तत्र प्रविष्टवान् । अथ ताः काष्ठाधिरूढाः स्वपुरमागच्छन्त्यः सागरोपरि समेताः, तदा धनश्रीरन्याः प्रत्युवाच, हे सख्यः ! कथमद्य काष्ठं द्रुतं न चलति ? ताः स्माहुः हे भगिनि ! बहुभिर्वासरैरेतत्काष्ठं जीर्णं जातमस्ति, तेनैतत्सागरान्तर्मुच्यतामन्यच्चादीयतामिति, तयापि तथेत्यङ्गीकृते सागरः स्माह हे स्नुषा ! अहमत्रास्मि, तत् श्रुत्वौषधैर्विनाऽयं व्याधिर्गच्छतीति मत्वा ताः ससागरं तत्काष्ठं सागरान्तः प्रक्षिप्यान्यस्मिन् काष्ठे चाधिरूढाः स्वाऽऽवासे समेताः, सागरान्तः पतितः सागरोऽपि द्विधापि नीचैर्ययौ ॥ इति लोभविषये सागरश्रेष्ठिकथा ॥ ४७ ॥
६६
॥ ४८ ॥ धनवतां माने घेघा - मेघाकथा ॥ विशिष्टकुलजातानामपि पुंसां धनैरेव महत्त्वं यतः - धनैरेव कुलीनाना-मपि मानसमागमः न हेमपुष्पपुष्पेषु, प्रीतिः पर्युषितेषु यत् ॥ १ ॥ किंबहुना ? श्रियं विना पुमांसो न शोभन्ते, यतः -
||
सरोवरमिवाऽवारि, निष्पत्र इव पादपः । निर्देवमिव देवौको, नरो नाऽऽभाति निर्धनः ॥ २ ॥ तेन सम्बन्धेऽपि धनादेर्गौरवं, यतः
-.
समानेऽपि हि सम्बन्धे, मानं धनवतां पुनः । घेघा-मेघाख्ययोः स्वस्रा, भेदोऽकारि हविः क्षणे ॥ ३ ॥
तथाहि—अचलग्रामे घेघामेघानामानौ द्वौ सहोदरौ, ज्यायान् घेघाख्यः पूर्वकृतसुकृतैर्वैश्रमण इव श्रीमान्, लघीयान् मेघाह्वस्तु पूर्वकृतदुष्कृतैः श्रमण इवाकिञ्चनः । अन्यदा मेघाईसंज्ञया तयोः स्वस्रा स्वदारकस्य दारकर्मण्याकारितौ स्वौ सोदरौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org