________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते व्यापारश्च परप्रियापरिचयः ख्यातिश्च वित्तव्ययो । येषां द्यूतकृतां कथामपि कथं कुर्यात्समं तैः सुधीः ॥ ३ ॥ तेन निर्मोकं भुजङ्गम इव मुञ्चेदं दूरोदरम् इत्यादिवचनैस्तया राज्ञ्या मन्त्रिप्रमुखैश्च लोकैर्वारितोऽपि पुरन्दरः शशाङ्कः कलङ्कमिव द्यूतं न जहौ । अन्यदा जितराज्येन तेनाऽनुजेन पुरान्निष्कासितस्तया सारिण्या देव्या गुणचन्द्रेण पुत्रेण च युतः स राजा पथि व्रजन् क्वाऽप्यरण्ये [ स्वप्रियायुतमेकं भिल्लं ददर्श ।
तेन सार्धं ] स्वं शिरस्तस्य च प्रियां पणीकृत्य द्यूते जितां कज्जलैर्जनितामिव श्यामलां, दौर्भाग्यैर्निर्मितामिव कुरूपां, शुनीमिव परुषभाषिणीं, कठोरपादपाणिं, कुपाणिनामभिल्लभामिनीं मूर्त्तिमतीं विपदमिवादाय पुरः प्रस्थितः, अथ क्वासौ सपत्नी वैरिणीति विचिन्त्य जलग्रहणमिषेण तां सारिणीं कूपान्तः प्रक्षिप्य केनाप्यन्येन सह सा गतेति सा कुपाणिः पुरन्दराय जगौ । सोऽपीतस्ततस्तां विलोक्य साक्षादलक्ष्म्येव तया भिल्ल्या सुतेन च सहितोऽध्वनि गच्छन्नेकां महतीं निम्नगां प्राप्य तां भिल्लीं सुतं च युगपत्तारयितुमशक्तः स राजा इति आदौ भिल्लीमादाय नदीं प्रविष्टो मकरेण गलितो, भिल्ली च जलान्त: पतनेन मृता । पुरुषभारेण प्लवितुमसमर्थः स मकरस्तटे लग्नः धीवरैश्च विदारिते तस्योदरे निर्गतः शीतवातैश्च लब्धसंज्ञः स राजा धीवरैर्दासीकृत्य गृहे रक्षितो धीवरकर्माणि चक्रे । अन्यदा मीनग्रहणधिया नदीं प्रविष्टः स पुरन्दरो नदीपूरेण प्लावितो मृत्वा नरकं गतः ।
इतश्च जलग्रहणार्थमागतैः सार्थेशनरैर्निष्कासिता ललितशीलजलसारिणी सा सारिणी राज्ञी सार्थेशेन पृष्टा सती यथाजातस्वचरित्रवादिनी भगिनीव समीपे रक्षिता । इतश्च स्मरस्येव तस्य सौभाग्येन मोहितया व्योम्नि व्रजन्त्यैकया विद्याधरप्रियया स गुणचन्द्रो वैताढ्ये नीतः, बहुविद्यादानपुरस्सरं सुरसुन्दरीनामस्वसुतां च दत्त्वा क्रमेण सुन्दरं तस्य पितृव्यं निष्कास्य राज्ये न्यधायि । अन्यदा तत्राऽऽगतेन गृहीतप्रभूतप्राभृतेन राज्ञो मिलनाय व्रजता तेन सार्थेशेन सह स्वपुरं विज्ञाय पुरुषवेषधारिणी सा सारिणी भूपसभां प्रविष्टा सती राजानं स्वसुतमुपलक्षयामास। भूरिषु सभ्येषु सत्स्वपि जननीरागेण तन्मुखं पश्यता भूपेन कोऽयमिति पृष्टेन सार्थेशेन रहसि सत्ये कथिते सति सत्यमियं मम मातेति मुदितो राजा पश्यतामपि पार्षद्यानां पुरः समुत्थाय तत्पादौ प्रणम्य प्रोचिवान्, हे मातः ! प्रकटय स्वरूपं सुखय च मामर्भकमित्यभिहितया नेत्राम्बुभिर्निर्जितसारिण्या तया सारिण्या स्वरूपमाविष्कृत्य सुतमूर्धानमुच्चुम्ब्य अशेषे स्ववृत्तान्ते कथिते सति राजाऽप्यात्मनः पितुश्च यथाजातं सर्वव्यतिकरं निवेद्य सुतं च राज्ये निवेश्य आदत्ततपस्यो मुक्तिमगात् ॥ इति द्यूते पुरन्दरपार्थिवकथा ॥ ४६ ॥
६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org