SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ६२ श्री कथारत्नाकरे श्री हेमविजयरचिते ___ तेनाऽऽत्मनोऽनुचितं व्यापारं कुर्वतो जन्तोरनाऽऽगम: स्यात् । यतः अव्यापारेषु व्यापारं, यः पुमान् कर्तुमिच्छति । स एव निधनं याति, कीलोत्पाटीव वानरः ॥ २ ॥ तथाहि-घोरावासेऽरण्ये पञ्चशतवानरीपतिः पवनपुत्रो नामा वानरः । अन्यदा तस्मिन्नरण्ये जितशत्रुणा राज्ञा प्रेषितैः सूत्रधारैर्महतस्तरोरेकस्य महती शाखा कृत्ता । द्विधा विधातुमारब्धायास्तस्या विवरे महान्तमेकं कोलकं निधाय ते सूत्रधारा भोजनार्थमगुः । तद्विवरं च कीलके निहिते व्यात्तमेव तस्थौ । इतश्च ताराभिरिव तारापतिर्वानरीभिः समं स्वैरं रममाणः स पवनपुत्रनामा वानरस्तत्र स्थाने समागतः, द्विधाकरणाय कल्पितायां भूमौ पतितायां तस्यां शाखायामुपविष्टश्च। तदा चापल्यवशतस्तेन कपिना तस्मिन् कीलके कर्षिते तद्विवरे तदुपरिस्थितस्य तस्य वृषणद्वयं पुच्छं च प्रविष्टं, मिलितं च सम्पुटं, वृषणद्वयपुच्छकर्षणाय तेन कपिना बले विहिते सर्वं त्रुटितं, तया व्यथया कदर्थितः स कपिः परासुरजनि । तस्य परिवारोऽपि तं मृतमवलोक्याऽन्यत्र ययौ ॥ इत्यनुचितकर्मारम्भकरणे पवनपुत्रनामकपिकथा ॥४४॥ ॥४५ ॥सत्त्वे चतुर्भित्रकथा ॥ सत्त्वशेवधीनां पुण्यवतामवधीनां पुंसां सर्वं स्यात्, यतः अस्थिष्वाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु ।। स्वरेष्वाज्ञा गतौ यानं, सर्वं सत्त्वे प्रतिष्ठितम् ॥ १ ॥ तेन सम्पदि सत्यामपि सत्त्ववतां पदे पदे सम्पदः स्युः, यतः सम्पत्त्युपरि सम्पत्तिः, सत्त्वत: पुण्यशालिनाम्। जायते गुणपूर्णानां, चतुर्णां सुहृदामिव ॥ २ ॥ तथाहि-घनारामे ग्रामे ऋषभदत्त-ऋषभदास-जिनदत्त-जिनदासनामानः श्रावका महेभ्यसूनवश्चत्वारः सहजाताः सहवर्द्धिताः सहपांसुक्रीडिताः पुरुषार्था इव नृपोपाया इव परस्परं प्रीतिभाजः सुहृदः पितृभिः परिणायिताः स्वार्थसाधनतत्परा एकदा संभूय रहसीति मन्त्रयामासुः, यदाऽऽत्मभिर्जनकोपार्जितं वित्तं भुज्यते तदस्माकं नोचितं, यतः _ पिउणो लच्छी भइणी, परलच्छी तह य होइ परदारा । तेणं सप्पुरिसाणं, न हु जुज्जइ ताण संभोगो ॥ ३ ॥ तेनाऽन्येषु विषयेषु गत्वा यदि धनमानीय भुज्यते तदा युक्तमिति मन्त्रयित्वा ते चत्वारोऽपि स्वां स्वां पत्नीमनुज्ञाप्य स्वैः स्वैः पितृमुख्यपरिवारैरज्ञाता एव सुकृतमेव शम्बलमिति शरीरपरिहितवसनशेषाश्चरणचारिणः कौबेरीदिशमुद्दिश्य स्वस्वगृहान्निर्ययुः । यामद्वयेन भूयसीं भुवं १. तुला-कथासरित्सागरे तरङ्ग ६०/ोक २८ तः, पञ्चाख्यानबालावबोधे घटक २/१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy