________________
तरङ्ग २ / कथा ४३/४४
येनाऽऽगच्छन् समाख्यातो, येनाऽऽनीतश्च मे पतिः ।
प्रथमं सखि ! कः पूज्यः, काकः किं वा क्रमेलकः ? ॥ ३ ॥
तदा च भृशं तुष्टेन राज्ञा शततुरग करित्रय - लक्षत्रयकनकदानेन तोषितो भुवनाभरणो राजदत्तभवनमाभरणीचकार। एकदा पार्थिवपण्डितैः सह वादं चिकिर्षणा तेन पार्थिवोऽभ्यर्थितः, आत्मपण्डितेषु तेन सह वादं कर्त्तुं समर्थमपश्यन् राजा रहसि मन्त्रिणमित्यभाणीत् । हे मन्त्रिन् ! कोऽपि दैवानुकूल्यवान् पुरुषो गवेष्यतां योऽमुना वादे जयेदिति प्रेरितो मन्त्री पुरान्तभ्रमन् दूरादुच्छाल्य तैलं तैलपात्रे क्षिपन्तं काणं राणिकनामचाक्रिकमपश्यत् ।
नूनमसौ दैवानुकूल्यवानिति मत्वा मन्त्रिणा स राज्ञोऽभ्यर्णे नीतः कथितश्च तस्य वृत्तान्तः, अङ्गीकृतवादशक्तौ दिव्यदुकूलकनकाऽऽभरणाऽऽदिना विहितविप्रवेषे तस्मिन् पर्षदि तस्थुषि स भट्टोऽपि वादविधित्सया समेत्य राणिकाभिमुखं स्थित्वा स्वामेकामङ्गुलीमदर्शयत् । तेनाप्यङ्गुलिद्वये दर्शिते भट्टोऽपि चपेटाऽऽकारतया पञ्चाप्यङ्गुलीर्दर्शितवान् । ततस्तेनाऽपि मुष्टौ दर्शिते चाऽनेन जितं मया च हारितमसौ महान् पण्डितश्चेति भणन् भट्टस्तं प्रणम्य स्वाऽऽवासं ययौ । किमाभ्यामभिहितमिति संशीतिमता राज्ञा किं त्वया पृष्टं ? तेन च किमुत्तरमदायीति पृष्टो भट्टोऽभाषिष्ट, मयैकामङ्गुलिं दर्शयता एकैवात्मेति पृष्टम्, अङ्गुलिद्वयदर्शनेन तेन च द्वावात्मानौ, एक: सिद्धात्मा द्वितीयः सांसारिकश्चेति ज्ञापितम् । पञ्चाङ्गुलिदर्शनेन मया पञ्च भूतानि जगतीति ज्ञापितं, मुष्टिं दर्शयता तेन च तैरेकीभूतैरेव भूतैरर्थसिद्धिरिति निवेदितं तेन हे राजन् ! तव पण्डितो मम वचनतिरस्कारित्वेन मां जितवान् । मम मनोभाववेत्तृत्वेन अयं च महान् पण्डितो नमस्कारार्ह इति भणन् भट्टो भूपेनाभ्यर्चितो निजनगरमगमत् । अन्यदा राज्ञा स राणिकतैली पृष्टः, किं तेन पृष्टं किं च त्वयोत्तरितमिति । स स्माह हे देव! एकामङ्गुलिं दर्शयता तेन ज्ञापितं यत्तवैकं नयनमस्ति तदप्यहं स्फोटयिष्यामि, ततोऽङ्गुलिद्वयदर्शनेन मया ज्ञापितं यत्तवाऽहं नयनद्वयं स्फोटयिष्यामीति । ततस्तेन चपेटां दर्शयता ज्ञापितं यदहं त्वां चपेटया हनिष्यामि, ततो मुष्टिं दर्शयता मया ज्ञापितं यदहं त्वा मुष्टिना हनिष्यामीति निशम्य दैवानुकूल्यमेव सर्वत्र सिद्धिकरमिति मन्यमानेन राज्ञा राणिको बहुमानभाजनं चक्रे ॥ इति दैवानुकूल्यें राणिकतैलिककथा ॥ ४३ ॥
॥ ४४ ॥ अनुचितकर्मारम्भकरणे कपिकथा ॥ अनुचितकर्मनिर्माणं हि न श्रेयसे, यतः -
विश्वासश्चलचक्षुषां परिचयः पण्याङ्गनानां पुनश्चौर्याचारवतां सहाऽनुसरणं मैत्री च मूढात्मनाम् । स्नेहो द्यूतकृतां रतिर्दुरतीनां प्रीतिः सुरापायिनां, संवासः परिपन्थिनामनुचिताऽऽरम्भश्च न श्रेयसे ॥ १ ॥
Jain Education International
६१
For Private & Personal Use Only
www.jainelibrary.org