________________
निशीथपूर्णिविंशतितमोद्देशके
गुणकार त्ति दशकादिभिरेककान्तरधोवर्तिभिःभागहारे लब्धस्य उपरितनैरेककादिभिर्दशकान्तैगुणनात् गुणकारा एते उच्यते, तथा ह्य परितनपंक्तो व्यवस्थितेन दशकेनापरस्य रूपस्य सकलस्य गुणने जाता १० । एककेन भागे हृते भागलब्धा १० । एकक संयोगा इत्यर्थः । तत्र दशकेन रूपस्य गुणनाशको गुणकारो जातः, एककश्चाधोवर्तिभागहारकः, तथायं दशको नवकेन गुणनाद् गुण्यनवकश्च गुणकारनवकाधोवर्ती द्विको भागहारकः, इत्येवमन्यत्रापि गुण्यगुणकारभागहार कल्पना कार्या, तथापि शिष्यहितार्थ सप्रपंचं दश्यते तत्र दशकस्प गुण्यं रूपं जातं ५०1 भाग एकेन १ लब्ध १०, नवकस्य गुण्यं १० । जाताऽस्य ६०, भागो द्वाभ्यां २ लब्धं ४५। अष्टकगुण्यं ४५, जातं ३६०, भाग ३ लब्धं १२०, सप्तकस्य गुण्यं १२० गुणिते जातं ८४०, भाग ४ लब्धं २१०, षट्कस्थ गुण्यं २१०, गुणिते जातं १२६०, भाग ५ लब्धं २५२, पंचकस्य गुण्यं २५२ गुणिते १२६०, भाग ६ लब्धं २१०, चतुष्कस्य गुण्य २५०, गुणिते ८४०, भाग ७ लब्धं १२०, त्रिकस्य गुण्यं १२० गुणिते ३६०, भाग ८ लब्धं ४५, द्विकस्य गुण्य ४५, गुणिते ६० भाग : लब्धं १०, एककस्य गुण्यं १० दशेव च, ते दशानां दशभिर्भागे हृते लब्व एकक दशयोग एक एव, अत्र चोभयमुखराशिद्वयापेक्षया पंक्तिरपरा प्रागतफलानामुत्तिष्ठते यथा १०४५॥१२००२५२।२१०।१२०।४५।१०। तथा च पडिराशिये त्ति द्वितीयस्थाने धृत्वा गुणिय त्ति यदागतफलं तस्य पाश्चात्यांकन तथा च नवकाद्दशकः पाश्चात्यो भवति, तस्माच्च सप्तक इत्यादि, येन गुणितस्तदधस्तनेन भागे हृते यद् लब्धं तत् फलं, आगतफलानां मीलने २०३३, प्रतिसेवनाशब्देन हि नवममापत्तिसूत्रं सूच्यते, आदिग्रहणालोचनारोपणासूत्रस्यापि नवमस्य भेदा ज्ञातव्याः, एए चेवोग्घायेत्यादि तत्रोद्धातिमानुद्धातिमाभ्यां मिश्रयोगे यावन्त उद्घातिमानां दशभिरेककयोगः पंचचत्वारिंशदादिद्विकादियोगैश्चानुद्धातिमानां दशापि दश पंचचत्वारिंशदाधराशयो गुणिता यत्संख्यां प्रपद्यन्ते तदुत्तरत्र चूर्णिकृत् दर्शयिष्यति, अत्रतावदन्यदपि करणं पाश्चात्यभंगकानयनविषयं व्याख्यायते -
उभयमुहं रासिद्गं, हेडिल्लाणंतरेण भय पढमं ।
लद्ध हरासि विभत्ते तस्सुवरि गुणंतु संयोगा। प्राद्यपादः प्रतीतः अधस्तनादन्त्याद् योऽनंतरस्तेन प्रथममधस्तनादुपरिवतिनं भज, नाम तस्य हारः, अधोराशिना अनंतरेण विभक्ते सति उपरितनराशौ यल्लब्धं तेन लब्धेन तस्य भागहारकानन्तरराशेरुपरि योऽधस्तद्गुणनं कार्य, गुणिकोऽनन्तरस्तेन भागे हृते प्रथमस्य पंचचत्वारिंशद्रूपस्य लब्धा १५, तेनाष्टकस्य त्रिकस्योपरिवर्तिनो गुणने जातं १२०, एवमन्यत्रापि द्रष्टव्यं, द्वितीयं च करणं यथा -
उभयमुहं रासिदुर्ग, उवरिल्लं आइलेण गुणिऊण ।
हेद्विल्लभायलद्धे उवरि ठिए हुंति संजोगा ॥ व्याख्या - प्राद्यपादः प्रतीतः, उपरितनमादिमेन गुणयित्वा हिट्ठिल त्ति आदिमात् गुणकाररूपादधोवतिकोऽधस्तनस्तेन भागे हृते यलब्धं तस्मिन् भागहारकादुपरिस्थिते संयोगमानं भवति ।::, अत्र ह्यकानां वामगत्या नयनांऽशकस्यादावपरांगो नास्तीत्यादित्वं, तदपेक्षया नवकस्य कल्पते, तदपेक्षया चाष्टकस्यादित्वमिति एवं तावद् यावदेककस्यादिमत्वं द्विकापेक्षति, ब्रिा परितनो दशकस्य गुण्यते, आदिमे नवके जातं ६०, नवकादधोवर्ती द्विकस्तेन भागे हृते नवत्याः वन्ध ४५, नवकादुत्सार्य द्विकायुपरिन्यस्ता सा एतावन्ते द्विकयोगाः उपरितना पंचचत्वारिंशत्तमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org