________________
.४२६
निशीथचूर्णिविंशतितमोद्देशके
एगदुतिमाइयाहिं इत्यादि अनेन व्याख्यानेनारोपणांनां कृत्स्नानां मध्ये एकस्या प्रारोपणायाः प्रतिनियतं संख्यानमाह अहवा - जत्थ संखित्तितरमित्यादि, ते चेव त्ति आलोचकमुखश्रुताः यथाअष्टादशमासाः श्रुताः तेरशीत्यधिकशताद् भागे हृते लब्धा १० सर्वविशुद्धिसद्भावात् कृत्स्नं चैतत् , अत्रैकैकस्मान्मासाहिनदशंकं गृहीतं, अष्टादशमासैदशकस्य गुणनेऽशीत्यधिकशतभवनात्, किंचि तत्थ विकलं भवइ ति किंचिदुद्धरति, परिपूर्णतया यदि स राशिन शुद्धयतीत्यर्थः । तदा तद्भागलब्धं भागहारकस्य यका संख्या तत्प्रमाणः स्थानस्तावत्यो वारा न्यसनीयमित्यर्थः।' जावइय ति विकलयुक्तभागाच्छेषा ये अन्ये भागास्ते यावत् स्थानसंख्याकास्तावन्मात्रो राशिर्भागहारगुणो त्ति भागहारेण यो लब्धो राशिः स भागहार उक्तस्तेन गुण्यते यः स वा गुणो गुणकारो यस्य स तथा यद्वा साध्याहारं योज्यते, यथा विकलयुक्तभागाद् येऽन्ये भागास्ते यावन्तः यावत्स्थानसंख्याकाः स गुणकारो दृश्यस्तेन भागहारलब्धो राशि गहारस्तस्य गुणनं गुण्यते वाऽसौ तेनेति विग्रहः । यथा - संचया मासा १३ श्रुताः, अशीत्यधिकशताद् भागे हुते लब्धा १३, उद्धरिता ५१, लब्धं त्रयोदशभिः स्थानैय॑स्यते, एकश्च भागो विकलयुक्तः कार्यः, जातं २४ । अपरे च द्वादशत्रयोदशभागास्ततो द्वादशसंख्यया त्रयोदशको गुणितः जातं ५५६, चतुर्विशते: प्रक्षेपे जातं १८०, तथा संचया मासा २५, श्रुताः । असीयसयाप्रो भागे हिए लद्ध ७, उद्धरिता ५, ससकः पंचविंशतिस्थानेषु न्यस्यते, एको विकलयुक्तः १२, अपरे चतुर्विंशतिस्ततः सप्तकेन चतुर्विशतिगुणिता १६८, द्वादशप्रक्षेपे १८० । एवमन्यत्रापि अधुना यदा स्थापनारोपणप्रकारेणाशीत्यधिकशतमुत्पद्यते तदा अकसिणारोपणायां सत्यां झोषप्रक्षेपे कृते भागो हर्तव्य इत्युक्तं प्राक् इति विकलप्रस्तावादेव यस्यां यावत्प्रमाणो झोषो भवति तत्परिज्ञानार्थमाह - "नायव्व तहेव झोसो य" ति, तथा यस्य मासस्य यद्दिनप्रमाणं गृह्यते इत्येतत् ज्ञातं तथा "झोषो अपि यस्यां यावत्प्रमाणो झोष इत्येतदपि ज्ञातव्यमित्यर्थः ।।
कथं ? इत्याह - आरोवणा इत्यादि चूर्णिवाक्यं, यथा वीसियठवणा पणुवीसारोवणा तयोरशीत्यधिकशतादुत्सारणे कृते जातं १३५, प्रारोपणया भागे हृते लब्धा ५, उद्धरिता १०, एवं कृते चूणिवाक्यस्यावसरः असुज्झमाणो त्ति सर्वथा निर्लोपमध्याल्लघुराशी यच्छेदांशविशेषः । छेदोऽत्र पंचविंशतिरूपः उद्धरितदशकस्त्वंशस्तयोविशेषो यस्मात् पतति स तस्मात् पात्यते इत्येवं न्यायेन बृहद्राशिमध्याल्लघुराशेरुत्सारणे कृते उद्धरितरूपः । अत्र हि दशकपंचविंशत्योर्मध्ये पंचविंशतिर बृहद्राशिः, दशकस्तु लघुः,तस्य लघोरुत्सारणे कृते पंचविंशतेमध्यादुद्धरिताः पंचदश, एतावत्प्रमाणो झोषोऽत्रारोपणायां भवति, तथा ठ० २०, ग्रारो० २५, अशीत्यधिकशतादुत्सारणे १४५, अत्रारोपणया भागे हृते लब्धा ६, उद्धरिता दश, पंचदशभ्यो मध्यादृशानामुत्सारणे उद्धरिताः पंचकपंचकरूपो झोषोऽत्रेत्येवमन्यास्वपि छेदांशयोविशेषो झोसो विज्ञेयः । ततो झोषमित्थं प्रथमत एव विज्ञाय ठवणारोवणदिवसरहितराशिमध्ये प्रक्षिप्यारोपणाया भागो हर्तव्यस्ततो यल्लभ्यते तदारोपणामासैगुण्यत इत्यादि प्रागदर्शितप्रकारस्तदूर्ध्वं कार्यः। कसिणा० २० गा० ६४१६ ।
तेसु भागत्थेसुत्ति यथा ठव०६०, आरो० १५, असीयसयानो अवणीए १३५, पंचदशभिर्भागे हृते मास ६, ठवणामास ४, आरो० १ ठवणारोवणमाससहिया संचया मासा १४, ठवणामासे फेडिए जाया १०, आरोपणाया एकत्वात् एकभागस्थो दशकः पंचदशकेन गुणितः १५०, अत्र दशस्वपि मासेषु पक्खो पक्खो गहिनो, ठवणादिणजुया १८० }
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org