________________
कर्णाटवृत्ति जीवतत्त्वप्रदीपिका अथवा प्रणम्य । कम्। सिद्धं सिद्धपरमेष्ठिसमूहम् । कथंभूतम् । शुद्धं दग्धाष्टकममलं'न केवलं सिद्धसमूहम् । जिनेन्द्रवरनेमिचन्द्रम् । जिनेन्द्रोऽर्हत्समूहो वरा गणघरचक्रधरेन्द्रप्रभृतयो भव्यपुण्डरीको एव नेमयो नक्षत्राणि तेषां चन्द्र इव चन्द्रः वरनेमिचन्द्रः। जिनेन्द्रश्चासौ वरनेमिचन्द्रश्च जिनेन्द्रवरनेमिचन्द्रस्तम्। अहंत्परमेश्वरनिवहमित्यर्थः । कथंभूतम् । अकलङ्कं दूरीकृत. त्रिषष्टिकर्ममलकलङ्कम् । न केवलं तम्। गुणरत्नभूषणोदयं च गुणरूपाणि रत्नानि गुणरत्नानि सम्यग्दर्शनज्ञान चारित्राणि, तान्येव भूषणान्याभरणानि तेषामुदयः समुदयो यस्यासौ गुणरत्नभूषणोदयस्तम्। आचार्योपाध्यायसाधुवर्गमित्यर्थः।
___अथवा प्रणम्य । कम् जीवस्य प्ररूपणम् । किविशिष्टम् । सिद्धं सम्यग्गुरूपदेशपूर्वकत्वेनाखण्डप्रवाहरूपेणायातम् । पुनरपि कथंभूतम् । शुद्धं प्रमाणाविरुद्धार्थप्रतिपादकत्वेन पूर्वापरप्रत्यक्षानुमानागमलोकस्ववचनादिविरोधैरबाधितम् । भूयः कथंभूतम् । जिनेन्द्रवरनेमिचन्द्रं जिनेन्द्रः १० सर्वज्ञो वरः कर्ता यस्यासौ जिनेन्द्रवरः सर्वज्ञप्रणीत इति यावत् । एतेन वक्तुः प्रामाण्याद्वचनस्य प्रामाण्यमुपदर्शितम् ।
'यथा च पितृशुद्धयापत्यशुद्धिरिह दृश्यते।
तथाप्तस्य विशुद्धत्वे भवेदागमशुद्धता ॥ इति प्रणम्य, कं ? सिद्ध-सिद्धपरमेष्ठिसमूह, कथंभूतं ? शुद्धं-दग्धाष्टकर्ममलं, पुनः कथंभूतं जिनेन्द्रवरनेमिचन्द्रं-जिनेन्द्रः-अर्हत्समूहः, वरा:-गणघरचक्रधरेन्द्रप्रभृतयो भव्यपुण्डरीकाः, त एव नेमयः-नक्षत्राणि तेषां चन्द्र इव चन्द्रः वरनेमिचन्द्रः । जिनेन्द्रश्चासौ वरनेमिचन्द्रश्च जिनेन्द्रवरनेमिचन्द्रस्तं-अर्हत्परमेश्वरनिवहमित्यर्थः । कथंभूतं ? अकलङ्क-दूरीकृतत्रिषष्टिकर्ममलकलङ्क । न केवलं तं, गुणरत्नभूषणोदयं च गुणरूपाणि रत्नानि सम्यग्दर्शनज्ञानचारित्राणि तान्येव भूषणानि-आभरणानि, तेषां उदयः-समुदयः, यस्यासौ गुणरत्नभूषणोदयः, तं, आचार्योपाध्यायसाधुवर्गमित्यर्थः । अथवा
प्रणम्य, कं? जीवस्य प्ररूपणं, किंविशिष्टं ? सिद्ध-सम्यग्गुरूपदेशपूर्वकत्वेन अखण्डप्रवाहरूपेण आयातं । पुनरपि कथंभूतं ? शुद्धं-प्रमाणाविरुद्धार्थप्रतिपादकत्वेन पूर्वापरप्रत्यक्षानुमानागमलोकस्ववचनादिविरोधः अबाधितं । भूयः कथंभूतं ? जिनेन्द्रवरनेमिचन्द्र-जिनेन्द्रः-सर्वज्ञः, वरः-कर्ता यस्यासौ जिनेन्द्रवर:नमस्कार करके इत्यादि । अथवा सिद्ध अर्थात् सिद्ध परमेष्ठी समूहको नमस्कार करके । जो शुद्ध अर्थात् अष्टकमरूपी मलसे रहित हैं। तथा जिनेन्द्र वर-नेमिचन्द्रको नमस्कार करके
२५ जनेन्द्र अथोत् अहत्समूह । वर अथात् गणधर,चक्रधर, इन्द्र आदि भव्यजीव, वही हए नेमि अर्थात नक्षत्र उनमें चन्द्रमाके समान जिनेन्द्रवर-नेमिचन्द्र अर्थात अहत्परमेश्वरोंका समह । जो अकलंक है-अर्थात् जिसने वेसठ कर्मप्रकृतिरूप मलकलंकको दूर किया है। उसको नमस्कार करके। तथा गुणरत्न भूषणोदयको नमस्कार करके अर्थात् गुणरूपी रत्न सम्यगदर्शन, सम्यग्ज्ञान, सम्यकचारित्र, वे ही हुए भूषण उनका जिनके उदय अर्थात् समुदाय है ऐसे आचार्य, उपाध्याय, साधु । इस तरह सिद्ध, अरहन्त, आचार्य, उपाध्याय, साधुरूप पंचपरमेष्ठीको नमस्कार करके जीवके प्ररूपणको कहूँगा।
अथवा, जीवके प्ररूपणको नमस्कार करके। जो सिद्ध है अर्थात् सम्यक् गुरुओंके उपदेशपूर्वकपनेसे अखण्ड प्रवाहरूपसे चला आया है। शुद्ध है अर्थात् प्रमाणसे अविरुद्ध अर्थका प्रतिपादक होनेसे पूर्वापरविरोध, प्रत्यक्ष विरोध, अनुमान विरोध, आगम विरोध, १. कमलं केवलं । २. क कस्तु एव । ३. म कर्मकलंक ।
२०
वन अखण्डप्रबार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org