SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ३० गो० जीवकाण्डे अथवा प्रणम्य । कम् । तं आत्मानम् । तथा चाहुः 'कः प्रजापतिरुद्दिष्टः को वायुरिति चोच्यते। कशब्दः स्वर्गमाख्याति क आत्मा च निगद्यते' ॥ इति । कथंभूतमात्मानम् । अकलं न विद्यते कला शेरीरं यस्यासौ अकलस्तम् । पुनरपि कथंभूतम् । ५ सिद्धं नित्यमनाद्यनिधनम् । भूयः कथंभूतम् । शुद्धं शुद्धनिश्चयनयविषयम् । पुनरपि कीदृशम् । जिनेन्द्रवरनेमिचन्द्रम् । जिनानामसंयतसम्यग्दष्टिप्रमुखानां इन्द्रः स्वामी परमाराध्यो जिनेन्द्रः। वरः सर्ववस्तुषु सारोभूतः। 'सारं यः सर्ववस्तूनां नमस्तस्मै चिदात्मने ।' इति वचनात् । नेमिचन्द्रो ज्ञानसुखस्वभावः रविबिम्बस्य प्रकाशोष्णस्वभाववत्तस्य तत्स्वभाववत्त्वात् । जिनेन्द्रश्चासौ वरश्चासौ नेमिचन्द्रश्च जिनेन्द्रवरनेमिचन्द्रस्तम्। पुनरपि कथंभूतम् । गुणरत्न१. भूषणोदयं गुणानां रत्नभूषणस्य रत्नवत्पूज्यस्थ सम्यक्त्वस्योदय-उत्पत्तिर्यस्मादसौ गुणरत्नभूषणोदयस्तम् । तथा चोक्तं'शमबोधवृत्ततपसां पाषाणस्येव गौरवं पुंसः। पूज्यं महामणिरिव तदेव सम्यक्त्वसंयुक्तम् ॥ इति । न ह्यात्मतत्त्वोपलब्धिमन्तरेण सम्यक्त्वसिद्धिः॥ ना तं । पुनरपि कथंभूतं ? अकलङ्क-न विद्यन्ते कलङ्काः-परवादिपरिकल्पितदोषा यस्यासावकलङ्कः, तं । पुनरपि कोदृशं ? गुणरत्नभूषणोदयं-गुणाः-परमावगाढसम्यक्त्वादयोऽष्टसंख्याविशिष्टाः, त एव रत्नभूषणानि, तेषां उदयः अनुभवनं प्रकृष्टा वा प्राप्तिर्यस्यासो गुणरत्नभूषणोदयः, तं । अथवा प्रणम्य, कं-आत्मानं, कथंभूतं ? अकलं न विद्यते कला-शरीरं यस्यासौ अकलः, तं । पुनरपि कथंभूतं ? २० सिद्ध-नित्यमनादिनिधनं । भूयः कथंभूतं ? शुद्ध-शुद्धनिश्चयनयविषयं । पुनरपि कीदृशं ? जिनेन्द्रवरनेमिचन्द्र जिनानां-असंयतसम्यग्दृष्टिप्रमुखानां, इन्द्रः-स्वामी परमाराध्यो जिनेन्द्रः, वर:-सर्ववस्तुषु सारीभूतः, नेमिचन्द्रो ज्ञानसुखस्वभावः, जिनेन्द्रश्चासी वरश्वासी नेमिचन्द्रश्च जिनेन्द्रवरनेमिचन्द्रः, तं । पुनरपि कथंभूतं ? गुणरत्नभूषणोदयं-गुणानां रत्लभूषणस्य-रत्नवत्पूज्यस्य सम्यक्त्वस्य उदयः-उत्पत्तिः, यस्मादसो गुणरलभूषणोदयः, तं । अथवा२५ अर्थात् जिनेन्द्रवर-नेमिचन्द्र । परवादियोंके द्वारा कल्पित दोष नहीं हैं,अतः अकलंक है । तथा परमावगाढ सम्यक्त्व आदि आठ गुणरूपी रत्नभूषणोंका उदय अर्थात् अनुभवन या प्राप्ति होनेसे गुणरत्नभूषणोदय है। ऐसे सिद्धोंको इत्यादि लगा लेना। अथवा आत्माको नमस्कार करके। जो अकल अर्थात् शरीरसे रहित है। सिद्ध अर्थात् नित्य अनादि निधन है। शुद्ध अर्थात् शुद्ध निश्चयनयका विषय है। जिनेन्द्रवर नेमिचन्द्र है-जिन अर्थात् असंयत सम्यग्दृष्टी प्रमुखोंका इन्द्र अर्थात् स्वामी परमाराध्य जिनेन्द्र है । वर अर्थात् सब वस्तुओंमें सारभूत है, नेमिचन्द्र अर्थात् ज्ञान और सुख स्वभाव है । जिनेन्द्र ही हुआ वर, वही हुआ नेमिचन्द्र। तथा गुणरत्न भूषणोदय है-गुणोंका रत्नभूषण अर्थात् रत्नकी तरह पूज्य जो सम्यक्त्व उसकी जिससे उत्पत्ति होती है उस आत्माको १. क कं आत्मा। २. म शरीरं यस्यासो न कलस्तं। ३. म रत्नभूषणो यस्य रत्नवत्पूज्यस्य उदयं । ३५ ४. आत्मानु० १५ श्लो. । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001816
Book TitleGommatasara Jiva kanda Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages564
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy