________________
कर्णाटवृत्ति जीवतत्त्वप्रदीपिका श्रीवर्द्धमानस्वामीत्यर्थः। नयत्यनश्वरपदं विनेयनिवहम् इति नेमिः । विश्वतत्त्वप्रकाशकत्वाच्चन्द्रवच्चन्द्रः । जिनश्चासाविन्द्रवरश्चासौ नेमिश्चासौ चन्द्रश्च जिनेन्द्रवरनेमिचन्द्रस्तम् । पूर्ववदन्यत् ॥ अथवा। प्रणम्य । कम्। सिद्धं सिद्धो निष्ठितो निष्पन्नः कृतकृत्यः सिद्धसाध्य इति यावत् । तं सिद्धं सिद्धपरमेष्ठिनम् । जात्यपेक्षयाऽत्रैकवचनं तेन सर्वत्र सर्वदा सर्वप्रकारेण सिद्धानामविशेषेण ग्रहणम्। कथंभूतम् । शुद्धं ज्ञानावरणाद्यष्टविधद्रव्यभावात्मककर्मरहितम् । भूयः कथं- ५ भूतम् । जिनेन्द्रवरनेमिचन्द्र, अनेकभवगहनविषमव्यसनप्रापणहेतून् कर्मारातीन् जयेतीति जिनः। इन्दनात् परमैश्वर्ययोगाद्राजते शोभत इतीन्द्रः। यथावस्थितमर्थ नयति परिच्छिनत्तीति नेमिर्बोधः। वरः परमानन्तरूपो नेमिर्यस्यासौ वरनेमिश्चन्दयते आह्लादते परमसुखमनुभवतीति चन्द्रः। सर्वत्र जात्यपेक्षयेकवचनम् । जिनश्चासाविन्द्रश्चासौ वरनेमिश्चासौ चन्द्रश्च जिनेन्द्रवरनेमिचन्द्रस्तम् । पुनरपि कथंभूतम् । अकलङ्कम् । न विद्यन्ते कलङ्काः परवादिपरिकल्पितदोषा यस्यासावकलङ्क- १० स्तम् । पुनरपि कोदृशम् । गुणरत्नभूषणोदयम् । गुणाः परमावगाढसम्यक्त्वादयोऽष्टसंख्याविशिष्टास्त एव रत्नभूषणानि तेषामुदयोऽनुभवनं प्रकृष्टा वा प्राप्तिर्यस्यासौ गुणरत्नभूषणोक्यस्तम् । श्रीवर्धमानस्वामीत्यर्थः । नयति अनश्वरपदं विनेयनिवहमिति नेमिः । विश्वतत्त्वप्रकाशकत्वाच्चन्द्रवच्चन्द्रः, जिनश्चासाविन्द्रवरश्चासो नेमिश्चासी चन्द्रश्चासौ जिनेन्द्रवरनेमिचन्द्रः, तं पूर्ववदन्यत् । अथवा
प्रणम्य, कं ? सिद्ध-सिद्धः निष्ठितः निष्पन्नः कृत्यकृत्यः सिद्धसाध्य इति यावत्, तं सिद्ध-सिद्धपरमेष्ठिनं जात्यपेक्षयात्रैकवचनं तेन सर्वत्र सर्वदा सर्वप्रकारेण सिद्धानां अविशेषेण ग्रहणं । कथंभूतं ? शुद्ध-ज्ञानावरणाद्यष्टविघद्रव्यभावात्मककर्मरहितं । भूयः कथंभूतं ? जिनेन्द्रवरनेमिचन्द्र-अनेकभवगहनविषमव्यसनप्रापणहेतून कर्मारातीन् जयतीति जिनः, इन्दनातु-परमैश्वर्ययोगाद, राजते-शोभत इति इन्द्रः, यथावस्थितमथं नयतिपरिच्छिनत्ति इति नेमिः-बोधः, वर:-परमोऽनन्तरूपो नेमिर्यस्यासो वरनेमिः, चन्द्रयति-आह्लादते परमसुखमनुभवतीति चन्द्रः, सर्वत्र जात्यपेक्षयकवचनं । जिनश्चासौ इन्द्रश्चासौ वरनेमिश्चासौ चन्द्रश्च जिनेन्द्रवरनेमिचन्द्रः,
अर्थात् श्रीवर्धमान स्वामी। शिष्यसमूहको अविनाशी पदपर ले जानेसे वे नेमि हैं तथा चन्द्रको तरह विश्वके तत्त्वोंका प्रकाश करनेसे चन्द्र हैं;अतः जिन ही हुए इन्द्रवर, वही हुए नेमि और वही हुए चन्द्र। ऐसे जिनेन्द्रवर नेमिचन्द्र अर्थात् वर्धमान स्वामीको, इत्यादि पूर्ववत् लगाना।
अथवा सिद्धोंको नमस्कार करके। सिद्ध अर्थात् निष्ठित, सम्पन्न, कृतकृत्य, जिसने २५ साध्यको सिद्ध कर लिया। उस सिद्ध अर्थात् सिद्धपरमेष्ठीको । यहाँ जातिकी अपेक्षा एकवचनका प्रयोग किया है। उससे सर्वत्र सर्वदा सर्वप्रकारसे सिद्धोंका सामान्यरूपसे ग्रहण करना। वे सिद्ध शुद्ध हैं अर्थात् ज्ञानावरण आदि आठ प्रकारके द्रव्यभावरूप कर्मोंसे रहित हैं । तथा जिनेन्द्रवर नेमिचन्द्र' हैं। अनेक भवरूपी वनमें विषम संकटोंको प्राप्त करानेके कारण कर्मरूपी शत्रुओंको जो जीतता है,वह जिन है। इन्दन अर्थात् परम ऐश्वर्यके योगसे ३० जो शोभित हो, वह इन्द्र है। जो पदार्थ जैसा है, उसको उसी रूपसे जो जानता है,वह नेमि अथात् ज्ञान है। वर अर्थात् उत्कृष्ट अनन्तरूप नेमि जिसके है,वह वरनेमि है। जो आह्लादयुक्त है अर्थात् परमसुखका अनुभव करता है, वह चन्द्र है। सर्वत्र जातिकी अपेक्षा, एकवचनका प्रयोग किया है। जिन ही हुआ इन्द्र, वही हुआ 'वर नेमि' और वही हुआ चन्द्र १. क सर्वत्र प्रकारेण सिद्धा सर्वदा। २. म जयन्तीति जिनाः । ३. क शोभवत। ४. क आल्हादयते।। ५. म °दयस्थं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |