________________
तत्त्वार्थवार्तिके
[११२० यत्रात्मनोऽस्तित्वनास्तित्वनित्यत्वानित्यत्वकर्तृत्वभोक्तृत्वादयो धर्माः षड्जीवनिकायभेदाश्च युक्तितो निर्दिष्टाः तदात्मप्रवादम्। बन्धोदयोपशमनिर्जरापर्याया अनुभवप्रदेशाधिकरणानि स्थितिश्च जघन्यमध्यमोत्कृष्टा यत्र निर्दिश्यते तत्कर्मप्रवादम् ।
व्रत-नियम-प्रतिक्रमण-प्रतिलेखन-तपः-कल्पोपसर्गाचार-प्रतिमा - विरा नाराधनाविशुद्धयुपक्रमाः ५ श्रामण्यकारणं च परिमितापरिमितद्रव्यभावप्रत्याख्यानं च यत्राख्यातं तत्प्रत्याख्याननामधेयम् ।
समस्ता विद्या अष्टौ महातिमित्तानि तद्विषयो रज्जुराशिविधिः क्षेत्रं श्रेणी लोकप्रतिष्ठा संस्थानं समुद्घातश्च यत्र 'कथ्यते तद्विद्यानुवादम् । तत्राङगुष्ठप्रसेनादीनामल्पविद्यानां सप्तशतानि' महारोहिण्यादीनां महाविद्यानां पञ्चशतानि। अन्तरिक्ष-भौमाङग-स्वर
स्वप्न-लक्षण-व्यञ्जन-छिन्नानि अष्टौ महानिमित्तानि । तेषां विषयो लोकः । क्षेत्रमाकाशं १० पटसूत्रवच्चर्मावयववहा आनुपूर्येण ऊर्ध्वाधस्तिर्यग्व्यवस्थिता असंख्याता आकाशप्रदेशपङक्तयः श्रेणय उक्ताः ।
अलोकाकाशस्यानन्तस्य बहुमध्ये सुप्रतिष्ठकसंस्थानो लोकः, ऊर्ध्वमधस्तिर्यङमृदङगवेत्रासनझल्लर्याकृतिः, तनुवातवलयपरिक्षिप्त ऊर्ध्वाधस्तिर्यक्षु प्रतरवृत्तश्चतुर्दशरज्ज्वायामः । मेरु
प्रतिष्ठवज्रवैडूर्यपटलान्तर रुचकर संस्थिता अष्टावाकाशप्रदेशा लोकमध्यम् । लोकमध्याद् याव:५ देशानान्तः तावत् एका रज्जुरर्ध च। माहेन्द्रान्ते तिस्रः । ब्रह्मलोकान्तेऽर्धचतुर्थाः । कापिष्ठान्ते
चतस्रः। महाशुक्रान्तेऽर्धपञ्चमाः । सहस्रारान्ते पञ्च । प्राणतान्तेऽर्धषष्ठाः । अच्युतान्ते षट् । आलोकान्तात् सप्त। तथा लोकमध्यादधो यावच्छर्करापृथिव्यन्तस्तावदेका रज्जुः । ततोऽधः पृथिवीनां पञ्चानां प्रत्येकमन्तेऽन्ते रज्जुरेकैका वृद्धा। ततोऽधस्तमस्तमःप्रभाया आलोकान्तादेका रज्जुः । एवं सप्ताधो रज्जवः।।
धनोदधि-घनानिल-तनुवातवलयानि त्रीणि, यैरयं परिक्षिप्तः सर्वः समन्ताल्लोकः । त्रयाणामप्यवोलोकदिग्विदिक्पार्श्वभाविनां प्रत्येकं विस्तारो विंशतियोजनसहस्राणि । तत उपरि क्रमतो हानिवशात्तिर्यग्लोकभाविदिग्विदिक्पार्वेष्वष्टासु प्रत्येकं त्रीण्यपि वलयानि पञ्च चत्वारि त्रीणि योजनविस्तीर्णानि । पुनरुपरि वृद्धिवशाद् ब्रह्मलोके दिग्विदिक्पार्वेष्वष्टासु प्रत्येकं त्रीण्यपि वलयानि सप्तपञ्चचतुर्योजनविस्तीर्णानि । पुनर्हानिवशाल्लोकाग्रे अष्टास्वपि दिग्विदिक्पार्वेषु प्रत्येकं त्रीण्यपि वलयानि पञ्चचतुस्त्रियोजनविस्तीर्णानि । दण्डवलयानि पुनरुपरि अधश्च त्रीण्यपि । उपरि लोकाग्रे घनोदद्विगव्यती धनानिलस्य क्रोशः तनुवातस्य देशोनःक्रोशो विस्तारः । अधः कलङकलपृथिवीपयन्ते घनोदधेः सप्त धनानिलस्य पञ्च तनुवातस्य चत्वारि योजनानि विस्तारः ।।
अधः लोकमूले दिग्विदिक्षु विष्कम्भः सप्त रज्जवः । तिर्यग्लोके रज्जुरेका। ब्रह्मलोके ३० पञ्च । पुनर्लोकाने रज्जुरेका। लोकमध्यादधो रज्जुमवगाय शर्करान्ते अष्टास्वपि दिग्विदिक्षु
१मात्मप्रवादप षड़विशतिकोटि (२६००००००) पदैः। जीवो कत्ता य वत्ता य पाणी भोत्ता य पोग्गलो। वेदो विण्हू सयंभू सरीरो तह माणयो। सत्तो जंतू य माणी यमाई जोगी य संकुडो (अंग ५० गा० ८६-८७) इत्याद्यात्मनः-श्र० टि । २ कर्मप्रवादपूर्वे एककोटचशीतिलक्ष (१८००००००) पदः । ३ चतुरशीतिलक्ष (८४०००००) पर्वः । ४ समस्तवि- थ० । ५ लोकाधारसंस्थानम् । ६ एककोटि दशलक्ष (११०००००) पदैः। ७-नि रोहि- प्रा०, ब०, ८०, म०।८-शभमयः प्रा०. ब०, २०, मु०, ता०। ६वृत्त। १०.चतुरस्त्र। ११ पञ्चचतुस्त्रियो- ग्रा०, ब०, २०, मु०। भूलोयतले पासे हेट्ठादो जाव रज्जुत्ति। जोयणवीससहस्सं बहलं बलयत्तयाण पत्तेयं ॥ सत्तमखिविपणषिम्मि य सगपणचत्तारि पणचदुक्कतिय। तिरिए बम्हे उड्ढे सत्तमतिरिए च उत्तकमं ॥ कोसाणं दुगमेक्क देसणं तच्च लोयसिहरम्मि। ऊणधणणपमाणं पणवीसंज्झहिय चारि सयं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org