________________
७७
२२०]
प्रथमोऽध्यायः विष्कम्भः रज्जुरेका रज्ज्वाश्च षट्सप्तभागाः। ततो रज्जुमवगाहय बालुकान्ते द्वे रज्जू रज्ज्वाश्च पञ्चसप्तभागाः । ततो रज्जुमवगाय पङकान्ते तिस्रो रज्जवः रज्ज्वाश्च चत्वारः सप्तभागाः । ततो रज्जुमवगाहय धूमान्त चतस्रो रज्जवः रज्ज्वाश्च त्रयः सप्तभागाः । ततो रज्जुमवगाहय तमःप्रभान्ते पञ्च रज्जवः रज्ज्वाश्च द्वौ सप्तभागौ। ततो रज्जुमवगाहय तमस्तमःप्रभान्त षड़ रज्जवः रज्ज्वाः सप्तभागश्चकः । ततो रज्जमवगाहय कलङकलान्ते विष्कम्भः सप्त रज्जवः। वज्रतलादुपरि रज्जुमुत्क्रम्य विष्कम्भो द्वे रज्जू रज्ज्वाश्चैकः सप्तभागः। ततो रज्जुमुत्क्रम्य तिस्रो रज्जवः रज्ज्वाश्च द्वौ सप्तभागौ। ततो रज्जुमुत्क्रम्य चतस्रो रज्जवः रज्ज्वाश्च त्रयः सप्तभागाः । ततोऽर्धरज्जुमुत्क्रम्य रज्जव: पञ्च । ततोऽर्धरज्जुमुत्क्रम्य चतस्रो रज्जवः रज्ज्वाश्च त्रयः सप्तभागाः । ततो रज्जुमुत्क्रम्य तिस्रो रज्जवः, रज्ज्वाश्च द्वौ सप्तभागौ । ततो रज्जुमुत्क्रम्य द्वे रज्जू रज्ज्वाश्चैकः सप्तभागः। १० ततो रज्जुमुत्क्रम्य लोकान्ते रज्जुरेका विष्कम्भः । एष रज्जुविधिः । ..
हन्तगमिक्रियात्वात् सभ्यात्मप्रदंशानां च बहिरुदहनन' समरातः । स सप्तविधःवेदनाकषायमारणान्तिकतेजोविक्रियाऽऽहारककेवलिविषयभेदात् । तत्र वातिकादिरोगविषादिद्रव्यसंबन्धसन्तापापादितवेदनाकृतो वेदनासमुद्घातः। द्वितय प्रत्ययप्रकर्षोत्पादितक्रोधादिकृतः कषायसमुद्घातः । औपक्रमिकानुपक्रमायुःक्षयाविर्भूतमरणान्तप्रयोजनो मार- १५ णान्तिकसमुद्घातः ! जीवानुग्रहोपघातप्रवणतेजःशरीरनिर्वर्तनार्थस्तेजस्समुद्घातः । एकत्वपृथक्त्वनानाविधविक्रियशरीरवाक्प्रचारप्रहरणादिविक्रियाप्रयोजनो वैक्रियिकसमुद्घातः । अथोक्तविधिना अल्पसावद्यसूक्ष्मार्थग्रहणप्रयोजनाहारकशरीरनिर्वृत्त्यर्थ आहारकसमुद्घातः । वेदनीयस्म बहुत्वाद् अल्पत्वाच्चायुषोऽनाभोग पूर्वकमायुःसमकरणार्थ द्रव्यस्वभावत्वात् सुराद्रव्यस्य फेनवेगबुबुदाविर्भावोपशमनवद् देहस्थात्मप्रदेशानां बहिःसमुद्घातनं केवलिसमुद्घातः। २० ___आहारकमारणान्तिकसमुद्घातावेकदिक्कौ । यत आहारकशरीरमात्मा निवर्तयन् श्रेणिगतित्वात् एकदिक्कानात्मदेशानसंख्यातान्निर्गमय्य आहारकशरीरमरत्निमात्र निर्वर्तयति । अन्यक्षेत्रसमुद्घातकारणाभावात् यत्रानेन नरकादावुत्पत्तव्यं तत्रैव मारणान्तिकसमुद्घातेन आत्मप्रदेशा एकदिक्काः समुद्धन्यन्ते नान्यक्षेत्रे, अतस्तावेकदिवको। शेषाः पञ्च समुद्घाताः षड्दिक्काः। यतो वेदनादिसमुद्घातवशाद् बहिनिःसृतानामात्मप्रदेशानां पूर्वापरदक्षिणोत्त- २५ रोधिोदिक्षु गमनमिष्टं श्रेणिगतित्वादात्मप्रदेशानाम् । वेदना-कषाय-मारणान्तिक-तेजोवैक्रियिकाऽऽहारकसमुद्घाताः षडसंख्येयसमयिकाः । केवलिसमुद्धातः अष्टसमयिक:-दण्डकवाटप्रतरलोकपूरणानि चतुषु समयेषु पुनः प्रतरकपाटदण्ड"स्वशरीरानुप्रवेशाश्चतुषु इति ।
रविशशिग्रहनक्षत्रतारागणानां चारोपपादगतिविपर्ययफलानि शकुनव्याहृतम् अर्हद्बलदेव-वासुदेव-चक्रधरादीनां गर्भावतरणादिमहाकल्याणानि च यत्रोक्तानि तत् कल्याण- ३० नामधेयम् । कायचिकित्साद्यष्टाङग आयुर्वेदः भूतिकर्म जाङगुलिकप्रक्रमः प्राणापानविभागोऽपि 'यत्र विस्तारेण वर्णितस्तत् प्राणावायम् । लेखादिकाः कला द्वासप्ततिः, गुणाश्चतुःषष्टि स्त्रणाः, शिल्पानि काव्यगुणदोषक्रियाछन्दोविचितिक्रिया-क्रियाफलोपभोक्तारश्च यत्र व्याख्याता:
१-द्गमन- प्रा०, ब०, द०, मु० । २ हेतु। ३ मनःपूर्वकरहितम्, चित्ताभोगो मनस्कारः इत्यमरः । ४ -शमवद् प० । ५ समुद्गम्यन्ते प्रा०, ब०, २०, मु० । ६ षट्संख्येय-प्रा०, ब०, २०, मु०, ता०। ७-दण्डकस्वश- मू०, ता०, श्र० । ८ कल्याणवादपूर्वे ट्विंशतिकोटि (२६०००००००) पर्वः। ६ त्रयोदशकोटि (१३००००००)पर्वः। १० भरतशास्त्रादि। ११ नवकोटि (६००००००) पर्वः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org