________________
७८ तत्त्वार्थवार्तिके
[१२२० तक्रियाविशालम् । 'यत्राष्टौ व्यवहाराश्चत्वारि बीजानि परिकर्म राशिक्रियाविभागश्च 'सर्वश्रुतसंपदुपदिष्टा तत्खलु लोकबिन्दुसारम् ।
___ आरातीयाचार्यकृताङगार्थप्रत्यासन्नरूपमडगबाहयम् ॥१३॥ यद् गणधरशिष्यप्रशिष्यरारातीयैरधिगतश्रुतार्थतत्त्वैः कालदोषादल्पमेधायुर्बलानां प्राणिनामनुग्रहार्थमुपनिबद्धं संक्षि। प्ताङगार्थवचनविन्यासं तदङगबाहयम् ।।
तदनेकविध कालिकोत्कालिकादिविकल्पात् ।१४। तदङगबाहयमनेकविधम्-कालिकमुत्कालिकमित्येवमादिविकल्पात् । स्वाध्यायकाले नियतकालं कालिकम् । अनियतकालमुत्कालिकम् । तद्भेदा 'उत्तराध्ययनादयोऽनेकविधाः ।
अत्राह-अनुमानादीनां पृथगनुपदेशः किमर्थः ?
अनुमानादीनां पृथगनुपदेशः श्रुतावरोधात् ।१५। यस्मादेतान्यनुमानादीनि श्रुते अन्तर्भवन्ति तस्मात्तेषां पृथगुपदेशो न क्रियते । तद्यथा-"प्रत्यक्षपूर्वकं त्रिविधमनुमानं पूर्ववत् शेषवत सामान्यतोदष्टं च" न्यायस० ११५] इति । तत्र येनाग्नेनिःसरन पूर्वधमो दष्ट: स प्रसिद्धाग्निवूमसंबन्धाहितसंस्कारः पश्चाद्धमदर्शनाद् 'अस्त्यत्राग्निः' इति पूर्ववदग्निं गृह्णातीति
पूर्ववदनुमानम् । तथा येन पूर्व विषागविषाणिनोः संबन्ध उपलब्धः तस्य विषाणरूपदर्शनाद्विषा१५ णिन्यनुमानं शेषवत् । तथा देवदत्तस्य देशान्तरप्राप्ति गतिपूर्विकां दृष्ट्वा संबन्ध्यतरे सवितरि
देशान्तरप्राप्तिदर्शनाद् गतेरत्यन्तपरोक्षाया अनुमान सामान्यतोदृष्टम् । तदेतत्रितयमपि स्वप्रतिपत्तिकाले अनक्षरश्रुतं 'परप्रतिपादनकाले अक्षरश्रुतम् । 'यथा गौस्तथा गवयः केवलं सास्नारहितः' इत्युपमानमपि स्वपरप्रतिपत्तिविषयत्वादक्षरानक्षरश्रुते अन्तर्भवति । तथा शाब्द
मपि प्रमाणं श्रतमेव । ऐतिहयस्य च 'इत्याह स भगवान ऋषभः' इति परंपरीणपुरुषागमाद २० गहयते इति श्रुतेऽन्तर्भावः । प्रकृतिपुष्टो दिवा न भङक्ते अथ च जीवतीत्यर्थादापन्नं रात्रौ . भुङक्ते इत्यर्थापत्तिः । चत्वारः प्रस्था आढकम्' इति सति ज्ञाने आढकं दृष्ट्वा संभवत्यढिकं
रकुडवो वेति प्रतिपत्तिः संभवः । तृणगुल्मादीनां स्नेहपर्णफलाद्यभावं दृष्ट्वा अनुमीयते नूनमत्र न वृष्ट: पर्जन्य इत्यभावः । एतेषामप्यर्थापत्त्यादीनाम् अनुक्तानामनुमानसमानमिति पूर्ववत्
श्रुतान्तर्भावः । २५. व्याख्यातं परोक्षम्, प्रत्यक्षमिदानीं वक्तव्यम् । तद् द्वेधा-देशप्रत्यक्षं सर्वप्रत्यक्षं च । देश
प्रत्यक्षम्-अवधिमनःपर्ययज्ञाने । सर्वप्रत्यक्षं केवलम् । यद्येवमिदमेव तावदवधिज्ञानं त्रिप्रकारप्रत्यक्षस्याऽऽयं व्याक्रियतामिति । अत्रोच्यते--व्याख्यातमस्य लक्षणम्-आत्मप्रसादविशेष सत्यन्वर्थसंज्ञाकरणादवधीयते तदित्यवधिज्ञानमिति । यद्येवं तस्येदानीं भेदो वक्तव्यः ? उच्यते-द्विविधोऽवधिः, भव-गुणप्रत्ययभेदात्, देशसर्वावधिभेदाद्वा । यद्येवं वैविध्यं नोपपद्यते
१ द्वादशकोटिपञ्चाशल्लक्ष (१२५०००००) पदैः। २ त्रिलोकावयवस्वरूपं मोक्षसुखञ्च । ३-व्यः प्रशि-पा०, ब०, मु०। ४ उत्तराणि प्रवीयन्तेऽस्मिन्निति उत्तराध्ययनम्, अत्र चतुर्विषोपसर्गाणां द्वाविंशतिपरोषसहनविधानम्, अस्य प्रश्नस्य अयमुत्तर इति विधानञ्च कम्यते। ५ सामायिक चविंशतिस्तवः वन्दना प्रतिक्रमणमित्यादयः। ६ पुरुषेण । ७ पूर्व दृष्टधूमवन्तम् । ८ परप्रतिपत्तिका-मा०, ब०, २०, मु०।६चेतीह-मु०, म०, ब०, द०, प्रा०, १०, ता०।१० स्वभावेन प्रकृत्या, रात्रिभोजी इत्यर्थ:- सम्पा० । प्रकृतिपुरुषो मु०, ता०, १०, २०, २०, ज० । ११ कड़वो ता०, श्र०, प्रा०,०।१२ इति तस्वार्थवात्तिकालडकारे प्रथमाध्याय सप्तममाहिकम्-१०। १३ -सादाविशेष- मू०, श्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org