________________
७९
१२२१]
प्रथमोऽध्यायः देशावधिः परमावधिः सर्वावधिश्चेति; नैष दोषः; सर्वशब्दस्य निरवशेषवाचित्वात्, सर्वावधिमपेक्ष्य परमावधेर्देशावधित्वमेवेति वक्ष्यामः । तत्र योऽसौ भवप्रत्ययस्तत्प्रतिपादनार्थमाह---
भवप्रत्ययोऽवधिदेवनारकाणाम् ॥२१॥ भव इत्युच्यते । को भवो नाम ?
आयुर्नामकर्मोदयविशेषापादितपर्यायो भवः ॥१॥ आत्मनो यः पर्याय आयुषो नाम्नश्चोदयविशेषाच्छेषकारणापेक्षादाविर्भवति साधारणलक्षणो भव इत्युच्यते।
प्रत्ययशब्दस्यानेकार्थसंभवे विवक्षातो निमित्तार्थगतिः ।२। अयं प्रत्ययशब्दोऽनेकार्थः । क्वचिज्ज्ञाने वर्तते, यथा 'अर्थाभिधानप्रत्ययाः' इति । क्वचिच्छपथे वर्तते, यथा परद्रव्यहरणादिषु सत्यपालम्भे "प्रत्ययोऽनेन कृतः' इति । क्वचिद्धतौ वर्तते, यथा अविद्याप्रत्ययाः संस्काराः इति । १० तत्रेह विवक्षातो निमित्तार्थो वेदितव्यः । भवप्रत्ययो भवनिमित्त इति ।
क्षयोपशमाभाव इति चेत्न; तस्मिन् सति सद्भावात् खे पतत्त्रिगतिवत् ।३। स्यादेतत्यदि तत्र भवनिमित्तोऽवधिः कर्मणः क्षयोपशमोऽनर्थकः इति; तन्न; किं कारणम् ? तस्मिन् सति सद्भावात् खे पतत्त्रिगतिवत् । यथा आकाशे सति पक्षिणो गतिर्भवति तथा अवधिज्ञानावरणक्षयोपशमे अन्तरङगे हेतौ सत्यवधेर्भावः, भवस्तु बाहयो हेतुः ।
इतरया हयविशेषप्रसङगः ।४। यदि हि भव एव हेतुः स्यात् सर्वेषां देवनारकाणां तुल्य इत्यवधेरविशेषप्रसङगः स्यात् ? इष्यते च प्रकर्षाप्रकर्षभावेन वृत्तिः । कथं पुनर्भवो हेतुः इति चेत् ?
व्रतनियमाद्यभावात् ।५। यया तिरश्चां मनुष्याणां चाऽहिंसादिवतनियमहेतुकोऽवधिः न तथा देवानां नारकाणां चाहिंसादिवतनियमाभिसन्धिरस्ति । कुतः ? भवं प्रतीत्य कर्मोदयस्य २० तथाभावात्, तस्मात्तत्र भव एव बाह्यसाधनं प्रधानमित्युच्यते ।
अविशेषात् सर्वप्रसङग इति चेत्, न; सम्यगधिकारात् ।६। स्यादेतत्-देवनारकाणामित्यविशेषवचनात् मिथ्यादृष्टीनामप्यवधिप्रसङग इति; 'तन्न; किं कारणम् ? सम्यगधिकारात् । 'सम्यग्दर्शनं सम्यग्ज्ञानम्। 'इत्यनुवर्तते, तत्संबन्धात् सम्यग्दृष्टीनामवधिः मिथ्यादृष्टीनां विभङगो वेदितव्यः । अथवा, वक्ष्यमाणाभिसंबन्धान सर्वप्रसङगः । वक्ष्यते हि एतत्-*"मतिश्रुतावधयो २५ विपर्ययश्च ।" [त० सू ०१॥३५] इति । अथवा, व्याख्यानाद्विशेषप्रतिपत्तिः ।
आगमे प्रसिद्धर्नारकशब्दस्य पूर्वनिपात इति चेत् न; उभयलक्षणप्राप्तत्वात् देवशब्दस्य।७। स्यादेतत्-नारकशब्दस्य पूर्वनिपातेन भवितव्यम् । कुतः ? आगमे प्रसिद्धः । आगमे हि जीवस्थानादौ सदादिष्वनुयोगद्वारेण आदेशवचने नारकाणामेवादौ सदादिप्ररूपणा कृता, ततो नारक
१ अत्र देशावधेर्जघन्यमिति ज्ञातव्यम् । स गृहस्थतीर्थकराणामपि भवप्रत्ययो भवति । तदुक्तं नेमिचन्द्रसिद्धान्तिभिः -भवपच्चइगो ओही देसोही होइ परमसव्वोही। गुणपच्चइगो णियमा देसोही वि य गुणो होदि । देसोहिस्स य अवरं णरतिरिये होदि संजदम्हि वरं। परमोही सम्वोही चरमसरीरस्स विरदस्स ॥ इति। -श्र० टि। २ को नाम भवः प्रा०, ब०, ८०, ता०, मु०। ३ प्रत्ययो येन भ०। ४ तद्भावात् प्रा०, २०, २०, मु०। ५ उत्पत्तिः। ६ यदि भव-प्रा०, ब०, मु०। ७-साधनमित्यु-मा०, ब, मु० । ८ चेन्न श्र०।६ -इति वर्तते प्रा०, ब०, द०, मु०, ता० । १० षट्वं सं०, पृ. २०१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org