________________
तत्त्वार्थवार्तिके
[११२१ शब्दस्य पूर्वनिपातेन भवितव्यमिति; तन्नः किं कारणम् ? उभयलक्षणप्राप्तत्वाद देवशब्दस्य । देवशब्दो हि अल्पाजभ्यहितश्चेति वृत्तौ पूर्वप्रयोगार्हः । आगमे वाक्यविषयो निर्देश इति नास्ति नियमः ।
आह-उक्तं भवता 'इष्यते प्रकर्षाप्रकर्षभावेन वृत्तिः' इति; तत्कथमिति चेत् ? उच्यते५ देवेषु तावद् भवनवासिनां दशप्रकाराणामपि जघन्योऽवधिः पञ्चविंशतियोजनानि । उत्कृष्ट:
असुराणां तिर्यगसंख्याता योजनकोटिकोटयोऽधः, ऊर्ध्वमृतुविमानस्योपरिपर्यन्तः । नागादिकुमाराणां नवविधानामप्युत्कृष्टोऽवधिः अधोऽसंख्यातानि योजनसहस्राणि, ऊर्ध्व मन्दिर चूलिकाया उपरिपर्यन्तः, तिर्यगसंख्यातानि योजनसहस्राणि । व्यन्तराणामष्टविधानां जघन्योऽवधिः पञ्च
विंशतियोजनानि । उत्कृष्टोऽप्यसंख्यातानि योजनसहस्राणि अधः, ऊर्ध्व स्वविमानस्योपरिपर्यन्तः, १० तिर्यगसंख्याता योजनकोटिकोटयः । ज्योतिषां जघन्योऽवधिरधः संख्येयानि योजनानि, उत्कृ
ष्टश्चाऽसंख्ययानि योजनसहस्राणि, ऊर्ध्वमात्मीयविमानस्योपरिपर्यन्तः, तिर्यगसंख्याता योजनकोटिकोट्यः ।
वैमानिकेषु सौधर्मेशानीयानां जघन्योऽवधिज्योतिषामुत्कृष्टः, रत्नप्रभाया अधश्चरम उत्कृष्ट: । सानत्कुमारमाहेन्द्राणां जघन्योऽवधिः रत्नप्रभाया अधश्चरमः, उत्कृष्ट: शर्करा१५ प्रभाया अधश्चरमः । ब्रह्मब्रह्मोत्तरलान्तवकापिष्ठानां जघन्योऽवधिः शर्कराप्रभाया
अधश्चरमः, उत्कृष्टो वालुकाप्रभाया अधश्चरमः । शुक्रमहाशुक्रसतारसहस्राराणां जघन्योऽवधिः वालकाप्रभाया अधश्चरमः, उत्कृष्टः पङकप्रभाया अधश्चरमः । आनतप्राणताऽऽरणाऽच्युतानां जघन्योऽवधिः पङकप्रभाया अधश्चरमः, उत्कृष्टो धूमप्रभाया अधश्चरमः । नवानां ग्रैवेयिकानां जघन्योऽवधिः धूमप्रभाया अधश्चरमः, उत्कृष्ट: तमःप्रभाया अधश्चरमः । नवानामनुदिशानां पञ्चानुतरविमानवासिनाञ्च लोकनालिपर्यन्तोऽवधिः। सौधर्मादीनामनुत्तरान्तानामूर्ध्व स्वविमानस्योपरिपर्यन्तः, तिर्यगसंख्याता योजनकोटिकोटयः ।
अथैषां कालद्रव्यभावेषु कोऽवधिरिति ? अत्रोच्यते-यस्य यावत्क्षेत्रावधिस्तस्य तावदाकाशप्रदेशपरिच्छिन्ने कालद्रव्ये 'भवतः । तावत्सु समयेष्वतीतेष्वनागतेषु च ज्ञानं वर्तते, तावदसंख्यातभेदेषु 'अनन्तप्रदेशेषु पुद्गलस्कन्धेषु जीवेषु च सकर्मकेषु । भावतः स्वविषयपुद्गलस्कन्धानां रूपादिविकल्पेषु जीवपरिणामेषु चौदयिकौपशमिकक्षायोपशमिकेषु वर्तते । कुतः ? पौद्गलिकत्वादेषाम् ।
नारकेषु च 'योजनमर्धगव्यूतहीनमागव्यूतात् । तद्यथा-रत्नप्रभायां योजनमवधिः अधः । द्वितीयायामधः अर्धचतुर्थानि गव्यूतानि । तृतीयायामधः त्रीणि गव्यूतानि । चतुर्थ्यामधोऽर्धतृतीयानि गव्यूतानि । पञ्चम्यां द्वे गव्यूते। षष्ठ्यामधोऽर्धाधिकं गव्यूतम् । सप्तम्यामधो गव्यतम् । सर्वासु पृथिवीषु नारकाणामवधिरुपरि आत्मीयनरकावासान्तः, तिर्यगसंख्याता योजनकोटीकोट्यः । कालद्रव्यभावपरिमाणं पूर्ववद्वेदितव्यम् ।
यदि भवप्रत्ययोऽवधिदेवनारकाणाम्, अथ क्षयोपशमहेतुकः केषामिति ? अत आह
२०
२५
१ समासे -सम्पा०। २ मेरुपर्वतचलिकायाः -सम्पा० । ३ देवस्य । ४ कालश्च द्रव्यञ्च ते । ५ प्राकाशपरिच्छिन्नप्रदेशरूपेषु । ६ द्रव्यावधि व्याचष्टे । ७ तेषु प्रत्येक देशेषु । ८ सत्तमखिदिम्भि कोसं कोसस्सद्धं पवड्ढदे ताव । जावय पढमे णिरए जोयणमेक्कं हवे पुण्णं ॥ (गो० जीव० गा०२४३) -१० टि०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org