________________
१।२२]
মখমীচাষ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥२२॥ अवधिज्ञानावरणस्य देशघातिस्पर्धकानामुदये सति सर्वघातिस्पर्धकानामुदयाभावः क्षयः, तेषामेवाऽनुदयप्राप्तानां सदवस्थोपशमः, तौ निमित्तमस्येति क्षयोपशमनिमित्तः । स शेषाणां वेदितव्यः । के पुनः शेषाः ? मनुष्यास्तिर्यञ्चश्च ।
शेषग्रहणादविशेषप्रसङग इति चेत्, न; तत्सामर्थ्यविरहात् ।। स्यादेतत्-देवनारकेभ्योऽन्ये शेषाः, ततस्तेषामविशेषात् सर्वेषां तिरश्चां मनुष्याणां वाऽवधिप्रसङग इति; तन्न; किं कारणम् ? तत्सामर्थ्य विरहात् । न हरसंज्ञिनामपर्याप्तकानां च तत्सामर्थ्यमस्ति, संज्ञिनां पर्याप्तकानां च न सर्वेषाम् । केषां तहि ? ।
___यथोक्तनिमित्तसन्निधाने सति शान्तक्षीणकर्मणां तदुपलब्धः ।२। यथोक्तसम्यग्दर्शनादि- १० निमित्तसग्निधाने सति शान्तक्षीणकर्मणां तस्योपलव्धिर्भवति। ननु सर्वः क्षयोपशमनिमित्तः तत्र किमुच्यते-'क्षयोपशमनिमित्तः शेषाणाम्' इति ? ।
सर्वस्य क्षयोपशमनिमित्तत्वे तद्वचनं नियमार्थम् अब्भक्षवत् ।३। यथा न कश्चिदपो न भक्षयति इत्यग्रहणं नियमार्थ क्रियते अप एवं भक्षयति इति, तथा सर्वस्य क्षयोपशमनिमित्तत्वे क्षयोपशमग्रहणं नियमार्थम् 'क्षयोपशमनिमित्त एव न भवनिमित्तः' इति ।
स एषोऽवधिः षड्विकल्पः । कुतः ?
अनुगाम्यननुगामिवर्धमानहीयमानाऽवस्थिताऽनवस्थितभेदात् षड्विधः ।४। कश्चिदवधिः भास्करप्रकाशवद् गच्छन्तमनुगच्छति । कश्चिन्नानुगच्छति तत्रैवातिपतति "उन्मुखप्रश्नादेशिकपुरुषवचनवत् । अपरोऽवधिः अरणिनिर्मथनोत्पन्नशुष्कपत्रोपचीयमानेन्धननिचयसमिद्धपावकवत् सम्यग्दर्शनादिगुणविशुद्धिपरिणामसन्निधानाद् यत्परिमाण उत्पन्नस्ततो वर्धते आ- २० असंख्येयलोकेभ्यः । अपरोऽवधिः 'परिच्छिन्नोपादानसन्तत्यग्निशिखावत् सम्यग्दर्शनादिगुणहानिसंक्लेशपरिणामविवृद्धियोगात् यत्प्रमाण उत्पन्नस्ततो हीयते आ अङगुलस्याऽसंख्येयभागात् इति । अपरोऽवधिः सम्यग्दर्शनादिगुणावस्थानात् यत्परिमाण उत्पन्नस्तत्परिमाण एवावतिष्ठते न हीयते नापि वर्धते लिङगवत', आभवक्षयादाकेवलज्ञानोत्पत्तेर्वा । अन्योऽवधिः सम्यग्दर्शनादि-गणवद्धिदानियोगात यत्परिमाण उत्पन्नस्ततो वर्वते यावदनेन वधितव्यं हीयते और च यावदनेन हातव्यं वायुवेगप्रेरितजलोमिवत् । एवं षड्विकल्पोऽवधिः भवति ।
___ पुनरपरेऽववेस्त्रयो भेदाः-देशावधिः परमावधिः सर्वावधिश्चेति । तत्र देशावधिस्त्रेधाजघन्य उत्कृष्ट: अजघन्योत्कृष्टश्चेति । तथा परमावधिरपि त्रिधा। सर्वावधिरविकल्पत्वादेक एव । 'उत्सेधाङगुलासंख्येयभागक्षेत्रो देशावधिर्जघन्यः । उत्कृष्ट: कृत्स्नलोकः । तयोरन्तराले असंख्येयविकल्पः अजघन्योत्कृष्टः । परमावधिर्जघन्यः एकप्रदेशाधिकलोकक्षेत्रः । उत्कृष्टोऽसंख्येयलोकक्षेत्रः । अजघन्योत्कृष्टो मध्यमक्षेत्रः। उत्कृष्टपरमावधिक्षेत्राद् बहिरसंख्यातक्षेत्रः सर्वावधिः ।
१क्षयोपशम । २ सर्वस्य प्रा०, ब० द०, म०। ३ सर्वक्षयो- प्रा०, ब०, द०, मु० । ४ अभिमुख। ५ उद्धृत । ६ काष्ठ। ७ स्वस्तिकादिवत्। श्रीवृक्षशबखपद्मवजस्वस्तिकसषकलशादिशुभचिह्नानि यया न हीयन्ते नापि वर्धन्ते तथा प्रकृतमपि । ८ व्यवहाराअगुलमत्र ग्राह्यम् । सुहुमणिगोदप्रपज्जत्तयस्स जावस्स तदियसमयम्हि । अवरोगाहणमाणं जहएणयं प्रोहिखेत्तं तु। इत्युक्तस्वात-१० टि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org