________________
८२
तत्स्वार्थवार्तिके
[ १२२ __ 'वर्धमानो हीयमानः अवस्थितः अनवस्थितः अनुगामी अननुगामी अप्रतिपाती प्रतिपाती' इत्येतेऽष्टौ भेदा देशावधेर्भवन्ति । हीयमानप्रतिपातिभेदवर्जा इतरे षड् भेदा भवन्ति परमावधेः। 'अवस्थितोऽनुगा'म्यननुगाम्यप्रतिपाती' इत्येते चत्वारो भेदाः सर्वावधेः । तत्र षडाद्या उक्तलक्षणाः । प्रतिपातीति विनाशी विद्युत्प्रकाशवत् । तद्विपरीतोऽप्रतिपाती।
तत्र देशावधेः सर्वजघन्यस्य क्षेत्रम् उत्सेवाङगुलस्याऽसंख्येयभागः, आवलिकाया असंख्येयभागः कालः, अडगुलस्याऽसंख्येयभागक्षेत्रप्रदेशप्रमाणं द्रव्यम्, तत्प्रमाणपरिच्छिन्नेष्वसंख्ययेषु स्कन्धेष्वनन्तप्रदेशेषु ज्ञानं वर्तते, स्वविषयस्कन्धगतानन्तवर्णादिविकल्पो भावः ।।
तस्य वृद्धिरुच्यते-प्रदेशोत्तरा क्षेत्रवृद्धिर्नास्त्येकजीवस्य, नानाजीवानां तु प्रदेशोत्तरक्षेत्रवृद्धिर्भवति आसर्वलोकात् । एकजीवस्य त्वङगुलासंख्येयभागादूर्ध्व विशुद्धिवशात् मण्डूकप्लुत्या अगुङलासंख्येयभागक्षेत्रवृद्धिर्भवति आसर्वलोकात् । नानाजीवा अपि प्रदेशोत्तरवृद्ध्या तावद्वर्धयन्ते यावदङगुलस्यासंख्येयभागः। कालवृद्धिरेकजीवस्य नानाजीवानां वा मौलादावलिका संख्येयभागात् क्वचिदेकसमयोत्तरा क्वचिद् द्विसमयोत्तरा क्वचित् संख्येयसमयोत्तरा क्वचिदसंख्येयसमयोत्तरा यावदावलिकाया असंख्येयभागः । सेयं क्षेत्रकालवृद्धिः । कया वृद्धया ?
चतुर्विधया संख्येयभागवृद्धया असंख्येयभागवृद्धया संख्येयगुणवृद्धया असंख्येयगुणवृद्धया वा। १५ एवं द्रव्यमपि वर्षमानं चतुर्विधया वृद्धया वर्धते । भाववृद्धिः षोढा-अनन्तभागवृद्धिः असंख्येय
भागवृद्धिः संख्येयभागवृद्धिः संख्येयगुणवृद्धिरसंख्येयगुणवृद्धिरनन्तगुणवृद्धिरिति । अनया क्षेत्रकालद्रव्यभाववृद्धयोक्तया आसर्वलोकात् वृद्धिरवसेया। हानिरपि तथैव । योऽङगुलसंख्येयभागक्षेत्रोऽवधिः तस्यावलिकायाः संख्येयभागः काल:, अङगुलसंख्येयभागक्षेत्राकाशप्रदेशप्रमाणं द्रव्यम्, भावः पूर्ववदनन्तो वा स्यादसंख्येयो वा स्यात्संख्येयो वा स्यात् । योऽङगुलमात्रक्षेत्रोऽवधिः तस्येषदूना आवलिका कालः, द्रव्यभावौ पूर्ववत् । योऽङगुल पृथक्त्वक्षेत्रोऽवधिः तस्य आवलिका काल: द्रव्यभावौ पूर्ववत् । यो हस्तप्रमाणक्षेत्रोऽवधिः तस्य आवलिकापृथक्त्वं काल:, द्रव्यभावौ पूर्ववत् । यो गव्यूतिमात्रक्षेत्रोऽवधिः तस्य साधिकोच्छ्वासः कालः, द्रव्यभावौ पूर्ववत् । यो योजनमात्रक्षेत्रोऽवधिः तस्य भिन्नमुहर्तः कालः, द्रव्यभावौ पूर्ववत् । यः पञ्चविंशतियोजनप्रमाणक्षेत्रोऽवधिः तस्येषदूनो दिवसः कालः, द्रव्यभावौ पूर्ववत् । यो भरतक्षेत्रमात्रोऽवधिः तस्य अर्धमासः कालः, द्रव्यभावौ पूर्ववत् । यो जम्बूद्वीपमात्रक्षेत्रोऽवधिः तस्य साधिको मास: कालः, द्रव्यभावौ पूर्ववत् । यो मनुष्यलोकमात्रक्षेत्रोऽवधिः तस्य संवत्सरः कालः, द्रव्यभावौ पूर्ववत् । यो रुचकान्तप्रमाणक्षेत्रोऽवधिः तस्य संवत्सरपृथक्त्वं कालः, द्रव्यभावौ पूर्ववत् । यः संख्येयद्वीपसमुद्रक्षेत्रोऽवधिः तस्य संख्येयाः संवत्सराः कालः, द्रव्यभावी पूर्ववत् । योऽसंख्येयद्वीपसमुद्रक्षेत्रोऽवधिः तस्याऽसंख्येयाः संवत्सराः कालः, द्रव्यभावौ पूर्ववत् । एवं ज(एवमज)घन्योत्कृष्टस्तिर्यङनराणां देशावधिरुक्तः । - अथ तिरश्चामुत्कृष्टदेशावधिरुच्यते--क्षेत्रमसंख्येया द्वीपसमुद्राः। कालोऽप्यसंख्येयाः संवत्सराः। तेजश्शरीरप्रमाणं द्रव्यम् । कियच्च तत् ? असंख्येयद्वीपसमुद्राकाशप्रदेशपरिच्छिन्नाभिः असंख्येयाभिस्तेजःशरीरद्रव्यवर्गणाभिनिर्वतितं तावदसंख्येय स्कन्धाननन्तप्रदेशान् जानातीत्यर्थः । भावः पूर्ववत् । तिरश्चां मनुष्याणां च जघन्यो देशावधिर्भवति । तिरश्चां तु देशाववधिरेव न परमावधिर्नापि सर्वावधिः ।
१-गामीवर्षमानाप्र- भा० २। २ सर्वजघन्यस्य। ३ -क्षेत्रे वृद्धि - प्रा०, ब०, द०, मु० । ४-कालासं-प्रा०, ब०, २०, म०। ५ -लि- श्र०, ता०। ६-स्कन्धानन्त- भ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org