________________
१॥२३]
प्रथमोऽध्यायः
८३ अथ मनुष्याणामुत्कृष्टो देशावधिरुच्यते-क्षेत्रमसंख्येया द्वीपसमुद्राः । कालोऽप्यसंख्येयाः संवत्सराः । द्रव्यं कार्मणद्रव्यम् । कियच्च तत्? असंख्येयद्वीपसमुद्राकाशप्रदेशपरिच्छिन्ना असंख्येया ज्ञानावरणादिकार्मणद्रव्यवर्गणाः । भावः पूर्ववत् । एष देशावधिरुत्कृष्टो मनुष्याणां संयतानां भवति ।
परमावधिरुच्यते-जचन्यस्य परमावधेः क्षेत्र प्रदेशाधिको लोकः । काल: प्रदेशाधिक- ५ लोकाकाशप्रदेशावधृतप्रमाणा अविभागिनः समयाः, ते चाऽसंख्याताः संवत्सराः । द्रव्यं प्रदेशाधिकलोकाकाशप्रदेशावधृतप्रमाणम् । भावः पूर्ववत् । अतः परं क्षेत्रवृद्धि:-नानाजीवैकजीवानामविशेषेण विशुद्धिवशादसंख्येया लोकाः, एवं तावदसंख्येया लोका वृद्धिर्यावदुत्कृष्टपरमावधिक्षेत्रम् । कियन्तश्च ते असंख्येयाः ? आवलिकाया असंख्ययभागप्रमाणाः । कालद्रव्यभावाः पूर्ववत् । उत्कृष्टपरमावधेः क्षेत्रं सलोकालोकप्रमाणा' असंख्येया लोकाः । कियन्तस्ते? १० अग्निजीवतुल्याः । कालद्रव्यभावाः पूर्ववत् । स एषः त्रिविधोऽपि परमावधिः उत्कृष्टचारित्रयुक्तस्यैव भवति नान्यस्य । वर्षमानो भवति न हीयमानः । अप्रतिपाती न प्रतिपाती। यस्य यावतिः च लोके लोकप्रमाणासंख्येयलोकक्षेत्रे जातस्तस्य तावत्यवस्थानादवस्थितो भवति, अनवस्थितश्च वृद्धि प्रति न हानिम् । ऐहलौकिकदेशान्तरगमनादनुगामी पारलौकिकदेशान्तरानुगमनाभावादननुगामी।
सर्वावधिरुच्यते-असंख्येयानामसंख्येयभेदत्वाद् उत्कृष्टपरमावधिक्षेत्रमसंख्येयलोकगुणितमस्य क्षेत्रम्, कालद्रव्यभावाः पूर्ववत् । स एष न वर्धमानो न हीयमानो नानवस्थितो न प्रतिपाती, प्राक्सयतभवक्षयात् अवस्थितोऽप्रतिपाती, भवान्तरं प्रत्यननुगामी देशान्तरं प्रत्यनुगामी। सर्वशब्दस्य साकल्यवाचित्वात् द्रव्यक्षेत्रकालभावैः सर्वावधेरन्तःपाती परमावधिः, अतः परमा- . वधिरपि देशावधिरेवेति द्विविध एवावधिः-सर्वावधिर्देशावधिश्च ।
उक्तायां वृद्धौ यदा कालवृद्धिस्तदा चतुर्णामपि वृद्धिनियता । क्षेत्रवृद्धौ कालवृद्धिर्भाज्यास्यात्कालवृद्धिः स्यान्नेति, द्रव्यभावयोस्तु वृद्धिनियता। द्रव्यवृद्धौ भाववृद्धिनियता, क्षेत्रकालवृद्धिः पुनर्भाज्या-स्याद्वा न वेति । भाववृद्धावपि द्रव्यवृद्धिनियता, क्षेत्रकालवृद्धिर्भाज्या-स्याद्वा न वेति ।
स एषोऽवधिज्ञानोपयोगो द्विधा भवति एकक्षेत्रोऽनेकक्षेत्रश्च । 'श्रीवृक्षस्वस्तिकनन्द्या- २५ वर्ताद्यन्यतमोपयोगोपकरण एकक्षेत्रः। तदनेकोपकरणोपयोगोऽनेकक्षेत्रः । यद्येवं परायत्तत्वात् परोक्षत्वप्रसङगः ? न; इन्द्रियेषु परत्वरूढः ।
*"इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्बुद्धेः परतरो हि सः ॥" [भग० गी० ३।४२] इति ।
एवं बहुधा व्याख्यातमवधिज्ञानम्, मनःपर्ययस्येदानीमवसरः प्राप्तः, तस्य भेदपुरस्सरं ३० लक्षणं व्याचिख्यासुरिदमाह
ऋजुविपुलमती मनःपर्ययः ॥२३॥ 'ऋज्वी निर्वतिता प्रगुणा च । कस्म.त् ? निर्वतितवाक्कायमनस्कृतार्थस्य परकीयमनोगतस्य विज्ञानात् । ऋज्वी मतिर्यस्य सोऽयमृजुमतिः। 'अनिर्वतिता कुटिला च "विपुला। कस्मात्?
१ लोकप्रदेशप्रमाण । २ -त् एष मु०।३-ति स लोके प्रा०, ब०, द०, मु०,१०, ता०, ज०, भा० १, भा० २। ४ श्रीवृषभस्व-प्रा०, ब०, २०, म०। ५ अन्य । ६ प्रात्मा । ७-बसरप्राप्तस्य प्रा०, ब०, मु०। -सरप्राप्तस्तस्य ब०,०,०, ता० । प्रस्तुतः कालः। ८ सा ऋज्वी इत्युच्यते । ९ असम्पूर्णा। १० या सा।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org