________________
तत्त्वार्थवार्तिके
[१२२३ अनिर्वतितवाक्कायमनस्कृतार्थस्य परकीयमनोगतस्य विज्ञानात् । विपुला मतिरस्य स विपुलमतिः । ऋजमतिश्च विपुलमतिश्च ऋजुविपुलमती। एकस्य मतिशब्दस्य 'गतार्थत्वादप्रयोगः। अथवा, ऋजुश्च विपुला च ऋजुविपुले, ऋजुविपुले मती ययोस्तौ ऋजुविपुलमती इति" । स एष मनःपर्ययो द्विधा ऋजुमतिविपुलमतिरिति । अत्रोक्तो भेदः ।
लक्षणमस्येदानीं वक्तव्यमिति ? अत्रोच्यते--
मनःसंबन्धेन लब्धवृत्तिर्मनःपर्ययः ।। वीर्यान्तरायमनःपर्ययज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामलाभोपष्टम्भाद् आत्मीयपरकीयमनःसंबन्धेन लब्धवृत्तिरुपयोगो मनःपर्ययः ।
मतिज्ञानप्रसङग इति चेत्, न; अन्यदीयमनोऽपेक्षामात्रत्वाद् अभ चन्द्रव्यपदेशवत् ।२। स्यान्मतम्-यथा मनश्चक्षुरादिसंबन्धाच्चक्षुरादिज्ञानमाविर्भवति तन्मतिज्ञानम् तथा मनःपर्य१० योऽपि मनःसंबन्धाल्लब्धवृत्तिरिति मतिज्ञानं प्राप्नोतीति; तन्न; किं कारणम् ? अन्यदीय
मनोऽपेक्षामात्रत्वात् । कथम् ? अभ चन्द्रव्यपदेशवत् । यथा 'अभ चन्द्रमसं पश्य'इति अभमपेक्षाकारणमात्रं भवति, न च चक्षुरादिवनिर्वर्तकं चन्द्रज्ञानस्य, तथा अन्यदीयमनोऽपि अपेक्षाकारणमात्रं भवति 'परकीयमनसि व्यवस्थितमर्थ जानाति मनःपर्ययः' इति । ततो नास्य तदायत्तः 'प्रभव इति न मतिज्ञानप्रसङ्गः।
स्वमनोदेशे वा तदावरणकर्मक्षयोपशमव्यपदेशात् चक्षुष्यवधिज्ञाननिर्देशवत् ।३। अथवा, चक्षुर्देशस्थानामात्मप्रदेशानाम् अवध्यावरणक्षयोपशमात् यथा चक्षुष्यवधिज्ञानव्यपदेश इष्टः, नचाऽवधिः मतिर्भवति, तथा मनःपर्ययज्ञानावरणक्षयोपशमात् स्वमनोदेशस्थानामात्मप्रदेशानां मनःपर्ययव्यपदेशः, न चास्य मतित्वम् ।
"मनःप्रतिबन्धज्ञानादनुमानप्रसङग इति चेत्, न; प्रत्यक्षलक्षणाऽविरोधात् ।४। स्यान्मतम्-यथा धूमप्रतिबन्धाद्भूमसंपृक्तेऽग्नावनुमानं तथा अन्यदीयमनःप्रतिबन्धात् 'तन्मनःसंपृक्तानर्थान् जानन् मनःपर्ययोऽनुमानमितिः तन्नः किं कारणम् ? प्रत्यक्षलक्षणाऽविरोधात् । यत्प्रत्यक्षलक्षणमुक्तम् 'इन्द्रियानिन्द्रियनिरपेक्षमतीतव्यभिचारं साकारग्रहणं प्रत्यक्षम्' इति, तेनाऽविरोधः (धात्), न मनःपर्ययोऽनुमानम् । अनुमानं हि तेन विरुध्यते ।
उपदेशपूर्वकत्वाच्चक्षुरादिकरणनिमित्तत्वाद्वाऽनुमानस्य ।५। उपदेशाद्धि 'अयमग्निरयं २५ धूमः' इत्युपलभ्य पश्चाद्धूमदर्शनादग्नावनुमानं करोति, चक्षुरादिकरणसंबन्धाच्च, ततोऽस्योक्तं प्रत्यक्षलक्षणं विरुध्यते । न च तथा मनःपर्यय उपदेशं चक्षुरादिकरणसंबन्धं चापेक्षते ।
स द्वेधा सूत्रोक्तविकल्पात् ।६। स मनःपर्ययो द्वेधा । कुतः ? सूत्रोक्तविकल्पात् । ऋजुमतिविपुलमतिरिति ।
आद्यस्त्रेधा ऋजुमनोवाक्कायविषयभेदात् ७। आद्य ऋजुमतिमनःपर्ययस्त्रेधा । कुतः ? ऋजुमनोवाक्कायविषयभेदात्-ऋजुमनस्कृतार्थज्ञः ऋजुवाक्कृतार्थज्ञः ऋजुकायकृतार्थज्ञश्चेति । तद्यथा, मनसाऽर्थ व्यक्तं सञ्चित्य वाचं वा धर्मादियुक्तामसंकीर्णामुच्चार्य कायप्रयोगं चोभयलोकफलनिष्पादनार्थमङ्गोपाङ्गप्रत्यङ्गनिपातनाकुञ्चनप्रसारणादिलक्षणं कृत्वा पुनरनन्तरे समये कालान्तरे वा तमेवार्थ चिन्तित मुक्तं कृतं वा विस्मृतत्वान्न शक्नोति चिन्तयितुम्,
१ज्ञातार्थत्वात्। २ द्वन्द्वान्ते श्रयमाणशब्दः प्रत्येक परिसमाप्यत इति न्यायात् । ३ मनःपर्पय भेदयोः। ४ विग्रहः कार्यः, अनेन भेदकथनं कृतम्। ५ उत्पत्तिः। ६ मनसः। प्रतिनियतो बन्धः सम्बन्धः प्रतिबन्धः। ८ तस्य परस्य। ६ च धर्मा-श्र०। १० असंकराम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org