________________
१०
११२४]
प्रथमोऽध्यायः तमेवंविधमर्थ ऋजुमतिमनःपर्ययः पृष्टोऽपृष्टो वा जानाति 'अयमसावथों ऽनेन विधिना त्वया चिन्तित उक्तः कृतो वा' इति । कथमयमर्थों लभ्यते ? आगमाविरोधात् । 'आगमे हयुक्तम्-*"मनसा मनः 'परिच्छिद्य परेषां संज्ञादीन जानाति" [महाबन्ध पृ० २४] इति । मनसाआत्मनेत्यर्थः । परमनः समन्ताद्विदित्वा परिच्छिद्य मनसा चिन्तितस्य सचेतनेतरस्याऽर्थस्य मनस्यवस्थात् मनोव्यपदेशः मञ्चस्थानां पुरुषाणां मञ्चव्यपदेशवत् । 'तमात्मना आत्माऽवबुध्य आत्मनः परेषां च चिन्ताजीवितमरणसुखदुःखलाभालाभादीन् विजानाति । *""व्यक्तमनसां जीवानामर्थ जानाति नाऽव्यक्लमनसाम् ।" [महाबन्ध ] 'व्यक्तः स्फुटीकृतोऽर्थश्चिन्तया सुनिर्वतितो यैस्ते जीवा व्यक्तमनसस्तैरर्थ चिन्तितं ऋजुमतिर्जानाति नेतरैः । कालतो जघन्येन जीवानामात्मनश्च द्वित्राणि, उत्कर्षेण सप्ताष्टानि भवग्रहणानि गत्यागत्यादिभिः प्ररूपयति । क्षेत्रतो जघन्येन 'गव्यूतिपृथक्त्वस्याभ्यन्तरं न बहिः ।
द्वितीयः षोढा ऋजुवक्रमनोवाक्कायविषयभेदात् ।। द्वितीयो विपुलमतिः षोठा भिद्यते । कुतः ? ऋजुवक्रमनोवाक्कायविषयभेदात् । ऋजुविकल्पाः पूर्वोक्ताः, वऋविकल्पाश्च तद्विपरीता योज्याः । तथा आत्मनः परेषां च चिन्ताजीवितमरणसुखदुःखलाभालाभादीन् अव्यक्तमनोभिर्व्यक्तमनोभिश्च चिन्तितान् अचिन्तितान् जानाति विपुलमतिः, कालतो जघन्येन सप्ताष्टानि भवग्रहणानि, उत्कर्षेणाऽसंख्येयानि गत्यागतिभिः प्ररूपयति । क्षेत्रतो १५ जघन्येन योजनपृथक्त्वम्, उत्कर्षेण 'मानुषोत्तरशैलाभ्यन्तरं न बहिः । एवं द्विभेदो मनःपर्ययो वर्णितः । तस्य कि परस्परतो विशेषोऽस्त्युत नास्ति? अत आह
विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥२४॥ तदावरण कर्मक्षयोपशमे सति आत्मनः प्रसादो विशुद्धिः । प्रतिपतनं प्रतिपातः । उपशान्तकषायस्य चारित्रमोहोद्रेकात् प्रच्युतसंयमशिखरस्य प्रतिपातो भवति । क्षीणकषायस्य २० प्रतिपातकारणाभावादप्रतिपातः । विशुद्धिश्चाप्रतिपातश्च विशुद्धयप्रतिपातौ ताभ्यां विशुद्धयप्रतिपाताभ्यां तयोविशेषस्तद्विशेषः ।
पूर्वसूत्र एव तयोविशेषो नितिः किमर्थं पुनरिदमुच्यते ?
१ "मणेण माणसं पडिविवइत्ता परेसि सण्णा सदिमदि चितादि विजाणवि, जीविदमरण लाभालाभं सहदुक्खं जगरविणासं वेसविणासं जणपदविणासं अदिठि, प्रणाठि सुवटि दुवटाठि दुम्भिक्खं खेमाखेम भयरोगं उम्भमं इम्भमं संभमं वत्तमणाणं जीवाणं णो प्रवत्तमणाणं जीवाणं जाणदि।" -महाबंध०१० २४-२५१ २ परिवद्य श्र०, ता०, मू०। ३ प्रथास्य वाक्यस्यावयवार्थ कथयति । ४ समुदायार्थमाह। ५ प्रागमे वाक्यान्तरमाह । ६ प्रस्यार्थ विवृणोति । ७ गाउयपुधत्तमवरं उक्कस्सं होवि जोयणप्रधत्तं । विउलमविस्स य प्रवरं तस्स पुधत्तं वरं खु णरलोयं ॥ दुगतिगभवा हु प्रवरं सत्तटुभवा हवंति उक्कस्स। प्रडणवभवाह अवरमसंखेज्जं विउलउक्कस्सं ॥ प्रवरं दस्वमरालियसरीरणिज्जिणसमयबद्धं । चक्विंदियणिज्जिण्णं उक्कस्सं उजुमदिस्स हवे ॥ मणवव्यवग्गणाणमणंतिमभागेण उजगउक्सस्सं। खंडिदमेत्तं होदि हु विउलमदिस्सावरं रव्वं ।। अहं कम्माणं समयपबद्ध विविस्ससोवचयं। धुवहारेणिगिवारं भजिदे विदियं हवे दव्वं ॥ तग्विदियं कप्पाणमसंखज्जाणं च समयसंखसमं । धुवहारेणवहरिदे होदि तु उक्कस्सयं दव्वं ॥ (गो० जीव०) -५० टि० । ८प्राश्निकपुरुषो यदा मानषोत्तराभ्यन्तरे स्थित्वा प्रश्न करोति तदा जानातीति भावः, न तावति क्षेत्र स्थितानर्थान् । ६ प्रच्यवनमित्यर्थः। १० ऋजविपुलमत्योः। तथा चोक्तम्- पडिवादी पुण पढमा अप्पडिवादी हु होवि विविमा ह। सद्धो पढमो बोहो सद्धतरो विदियबोहो दु॥ इति -श्र० टि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org