________________
CG
तत्त्वार्थवार्तिके
[१।२५ विशेषान्तरप्रतिपत्त्यर्थं पुनर्वचनम् ।१॥ यः पूर्वसूत्रे विशेष उक्तः तावतास्य' न परितोषस्ततो विशेषान्तरप्रतिपत्त्यर्थ पुनरिदमुच्यते ।
चशब्दप्रसङग इति चेत्, न; प्राथमकल्पिकभेदाभावात् ।२। यथा मनःपर्ययस्य ऋजुविपुलमती भेदौ तथा विशुद्धयप्रतिपातावपि तस्यैव यदि भेदौ स्यातां युक्तश्चशब्दः स्यात् । ५ यतस्तु विशुद्धयप्रतिपातौ ऋजुविपुलमत्योविशेषौ न भेदी, अतश्चशब्दाप्रसङ्गः। तत्र विशुद्धया
तावदृजुमतेविपुलमतिर्द्रव्यक्षेत्रकालभावविशुद्धतरः । कथम् ? इह यः' कार्मणद्रव्यानन्तभागो'ऽन्त्यः सर्वावधिना ज्ञातस्तस्य पुनरनन्तभागीकृतस्य "मनःपर्ययज्ञेयोऽनन्तभागः, अनन्तस्याऽनन्तभेदत्वात् । ऋजुमतिकार्मणद्रव्याऽनन्तभागाद् दूरविप्रकृष्टोऽल्पीयाननन्तभागः विपुलमतेद्रव्यम् । क्षेत्रकालविशुद्धिरुक्ता। भावतो विशुद्धिः सूक्ष्मतरद्रव्यविषयत्वादेव वेदिव्या । प्रकृष्टक्षयोपशमविशुद्धिभावयोगादप्रतिपातेनापि विपुलमतिविशिष्टा, स्वामिनां प्रवर्धमानचारित्रोदयत्वात् । ऋजुमतिः पुनः प्रतिपाती स्वामिनां कषायोद्रेकाद्धीयमानचारित्रोदयत्वात् ।
यद्यस्य मनःपर्ययस्य प्रत्यात्ममयं विशेषः अथाऽनयोरवधिमनःपर्यययोः कुतो विशेष इति ? अत आह
विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः ॥२५॥ विशुद्धिः प्रसादः । क्षेत्रं यत्रस्थान् भावान् प्रतिपद्यते । स्वामी प्रयोक्ता । विषयो ज्ञेयः ।
अवधिज्ञानान्मनःपर्ययस्य विशुद्धयभावोऽल्पद्रव्यविषयत्वादिति चेत्, न; भूयःपर्यायज्ञानात् ।। स्यान्मतम्-अवधिज्ञानान्मनःपर्ययोऽविशुद्धतरः । कुतः ? अल्पद्रव्यविषयत्वात् । यतः सर्वावधिरूपिद्रव्यानन्तभागो मनःपर्ययद्रव्यमिति; तन्न; किं कारणम् ? भूयःपर्याय
ज्ञानात् । यथा कश्चिद् बहूनि शास्त्राणि व्याचष्टे एकदेशेन, न साकल्येन तद्गतमर्थ शक्नोति २. वक्तुम्, अपरस्त्वेकं शास्त्रं साकल्येन व्याचष्टे यावन्तस्तस्यास्तिान् सर्वान् शक्नोति
वक्तुम, अयं पूर्वस्माद्विशुद्धतरविज्ञानो भवति । तथा अवधिज्ञानविषयानन्तभागज्ञोऽपि मनःपर्ययो विशुद्धतरः, यतस्तमनन्तभागं रूपादिभिर्बहुभिः पर्यायैः प्ररूपयति । क्षेत्रमुक्तम् । विषयो वक्ष्यते । स्वामित्वं प्रत्युच्यते--
विशिष्टसंयमगुणकार्थ समवायी मनःपर्ययः ।२। विशिष्टः संयमगुणो यत्र विद्यते तत्रव २५ वर्तते मनःपर्ययः । तथा चोक्तम्--
"मनुष्येषु मनःपर्यय आविर्भवतिः न देवनारकतर्यग्योनेषु । मनुष्येषु चोत्पद्यमानः पर्याप्तकवृत्पद्यते न सम्मूर्छनजेषु । गर्भजेषु चोत्पद्यमानः कर्मभूमिजेषूत्पद्यते नाकर्मभूमिजेषु । कर्मभूमिजेषत्पद्यमानः पर्याप्तकेयूँत्पद्यते नापर्याप्तकेषु । पर्याप्तकेषूपजायमानः सम्यग्दृष्टिधू
पजायते न मिथ्यादृष्टिसासादनसम्यग्दृष्टिसम्यडमिथ्यादृष्टिषु । सम्यग्दृष्टिखूपजायमानः संयते३. खूपजायते नाऽसंयतसम्यग्दृष्टिसंयतासंयतेषु । संयतेषूपजायमानः प्रमत्ताविषु क्षीणकषायान्ते
खूपजायते नोत्तरेषु । तत्र चोपजायमानः प्रवर्धमानचारित्रेषजायते न हीयमानचारित्रेषु । प्रवर्धमानचारित्रेषूपजायमानः सप्तविधान्यतद्धिप्राप्तेषूपजायते१० नेतरेषु । ऋद्धिप्राप्तेषु च केषुचिन्न सर्वेषु' [ ] इति ।
१ मनःपर्ययस्य । २ द्रव्यतस्तावदाह । ३ अनन्तानन्तपरमावात्मकः पुद्गलस्कन्धः । ४ऋजमतिरूप। ५-योऽन्त्यभा-१० । ६ सोऽपि स्कन्धो न परमाणुः । ७ रूपिडववधेरित्यादिना। ८ समानाधिकरण। संप्रव-पा० ब०, द०, म०।१०-बु जायते मा०, ब०, २०, म०, ता०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org