SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ८७ १।२६] प्रथमोऽध्यायः विशिष्टसंयमग्रहणं वाक्येर कृतम् । अवधिः पुनः चातुर्गतिकेष्विति स्वामिभेदादप्यनयोविशेषः। इदानीं केवलज्ञानलक्षणाभिधानं प्राप्तकालं तदुल्लङघ्य ज्ञानानां विषयनिबन्धः परीक्ष्यते। कुतः ? तस्य *"मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम्" [त० सू० १०।१] इत्यत्र वक्ष्यमाणत्वात् । यद्येवमाद्ययोरेव तावन्मतिश्रुतयोविषयनिबन्ध उच्यता- ५ मिति ? आह-- मतिश्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु ॥२६॥ निबन्धनं निबन्धः । कस्य ? मतिश्रुतविषयस्य । तहि विषयग्रहणं कर्तव्यम् ? न कर्तव्यम् । प्रत्यासत्तेः प्रकृतविषयग्रहणाभिसंबन्धः ।१। प्रकृतं विषयग्रहणमस्ति। क्व प्रकृतम् ? १० 'विशुद्धिक्षेत्रस्वामिविषयेभ्यः' इति। तत्र प्रत्यासत्तेविषयग्रहणमिहाभिसंबध्यते । ननु च स विभक्त्यन्तरनिर्दिष्टो न शक्यते इह संबद्धम् ? अर्थवशाद्विभक्तिपरिणामः ॥२॥ यथा 'उच्चानि देवदत्तस्य गृहाणि आमन्त्रयस्वैनम्' 'देवदत्तम्' इति गम्यते, 'देवदतस्य गावोऽश्वा हिरण्यम्, आढयो वैधवेयः' 'देवदत्तः' इति गम्यते, एवमिहापि । निबन्धः कस्य ? विषयस्य'इत्यभिसंबध्यते। अथ द्रव्येष्विति ब हुत्वनिर्देशः किमर्थः? १५ द्रव्येष्विति बहुत्वनिर्देशः 'सर्वद्रव्यसंग्रहार्थः ॥३। जीवधर्माऽधर्माकाशकालपुद्गलाभिधानानि षडत्र द्रव्याणि, तेषां सर्वेषां संग्रहार्थः द्रव्येष्विति बहुत्वनिर्देशः क्रियते । तद्विशेषणार्थमसर्वपर्यायग्रहणम् ।४। तेषां द्रव्याणामविशेषेण मतिश्रुतयोविषयभावप्रसङ्गे तद्विशेषणार्थम् असर्वपर्यायग्रहणं कियो । तानि द्रव्याणि मतिश्रुतयोविषयभावमापद्यमानानि कतिपयैरेव पर्यायविषयभावमास्कन्दन्ति न सर्वपर्यायैरनन्तैरपीपि । तत्कथम् ? २० इह मतिः चक्षुरादिकरण निमित्ता रूपाद्यालम्बना, सा यस्मिन् द्रव्ये रूपादयो वर्तन्ते न तत्र सर्वान् 'पर्यायानेव (सर्वानेव पर्यायान् ) गृह्णाति, चक्षुरादिविषयानेवाऽऽलम्बते । श्रुतमपि शब्दलिङ्गम्,' शब्दाश्च सर्वे संख्येया एव, द्रव्यपर्याया: "पुनः संख्येयाऽसंख्येयानन्तभेदाः, न ते सर्वे विशेषाकारेण' तेविषयीक्रियन्ते । उक्तञ्च-- "पण्णवणिज्जा भावा अणंतभागो दु अणभिलप्पाणं । पण्णवणिज्जाणं पुण अणंतभागो सुदणिबद्धो॥" [सन्मति० गा० २।१६] इति । अतीन्द्रियेषु मतेरभावात् सर्वद्रव्यासंप्रत्यय इति चेत्, न; नोइन्द्रियविषयत्वात् ५। स्यान्मतम्-धर्मास्तिकायादिषु मतेरभावोऽतीन्द्रियत्वात्, ततो 'मतिः सर्वद्रव्यविषयनिबन्धा' इति लक्षणमयुक्तमिति; तन्न; किं कारणम् ? नोइन्द्रियविषयत्वात् । नोइन्द्रियावरणक्षयोपशमलब्ध्य २५ १ वातिके । २ --द्रव्यपर्यायसं- प्रा०, ब०, मु० । ३ पर्यायानयगृ- प्रा०, ब०, ८०, मु, ता० । ४ साधनम् । ५ पुनः संख्ययानन्त-मू०, द०। पुनरसंख्ययानन्त-प्रा०, ब०, मु०। ६ सर्वपर्यायाः शब्देन विषयोक्रियन्त इत्यक्ते कथं हि अनन्तभेदा इत्युच्यते स्ववचनविरोधात इत्याशडकायां विशेषाकारेणेति विशेषणमाइ । शब्दः सामान्येन विषयीक्रियन्त इति भावः । ७ प्रज्ञापनीया भावा अनन्तभागस्तु अनभिलाप्यानाम् । प्रज्ञापनीयानां पुनः अनन्तभागः श्रतनिवद्धः॥ सर्वजन प्रज्ञापनीया भावाः । ८ अनभिलाप्यानाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy