________________
८८
तत्त्वार्थवार्तिके
[१।२७-२६ पेक्षं नोइन्द्रियं तेषु व्याप्रियते । अथ हि तत्र न वर्तेत अवधिना सह निदिश्येत रूपिष्वेव वृत्तः । । अथ मतिश्रुतयोरनन्तरनिर्देशार्हस्यावधेः को विषयनिबन्ध इति ? अत आह
रूपिष्ववधेः ॥२७॥ रूपशब्दस्याऽनेकार्थत्वे सामर्थ्याच्छुक्लादिग्रहणम् ॥१॥ अयं रूपशब्दोऽनेकार्थः क्वचि५ च्चाक्षुषे वर्तते यथा-'रूपरसगन्धस्पर्शा:' इति । क्वचित्स्वभावे वर्तते यथा 'अनन्तरूपमनन्त
स्वभावम्' इति । तत्रेह सामर्थ्याच्चक्षुर्विषये शुक्लादौ वर्तमानो गृह्यते । यदि स्वभाववाचिनो ग्रहणं स्यात् अनर्थकं स्यात् । न हि कस्यचित् स्वभावो नास्तीति ।
__भूमाद्यनेकार्थसंभवे नित्ययोगोऽभिवानवशात् ।२। यद्यपि मत्वर्थीयस्य भूमादयोऽर्थाः बहवः संभवन्ति, इहाभिधानवशात् 'नित्ययोगो वेदितव्यः । नित्यं हि पुद्गला युक्ता रूपेणेति, १० यथा क्षीरिणो वृक्षा इति ।
यद्येवमवधिज्ञानस्य पुद्गला रूपमुखेनैव विषयभावं प्रतिपद्येरन् न रसादिमुखेन ? नैष दोषः;
तदुपलक्षणार्थत्वात् तदविनाभाविरसादिग्रहणम् ।३॥ तद्रूपं द्रव्यस्योपलक्षणत्वेनोपादीयते अतस्तदविनाभाविदो रसादयोऽपि गृह्यन्ते । १५ यद्येवं तद्गतेषु सर्वेष्वनन्तेषु पर्यायेषु अवधेविषयनिबन्धः प्राप्नोतीति ? अत आह
असर्वपर्यायग्रहणानुवृत्तेर्न सर्वगतिः ।४। 'असर्वपर्यायेषु' इत्येतद्ग्रहणमनुवर्तते। यथा 'देवदत्ताय गौर्दीयतां जिनदत्ताय कम्बलः' इति 'दीयताम्' इत्यभिसबध्यते, एवमिहापि 'असर्वपर्यायेषु' इत्यभिसंबन्धान्न सर्वगतिर्भवति । ततो रूपिषु पुद्गलेषु प्रागुक्तद्रव्यादि परिमाणेषु
जीवपर्यायेषु औदयिकौपशमिकक्षायोपशमिकेषुत्पद्यतेऽवधिज्ञानम् रूपिद्रव्यसंबन्धात्, न क्षायिक२० पारिणामिकेषु नापि धर्मास्तिकायादिषु तत्संबन्धाभावात् । अथ मनःपर्ययस्य° को विषयनिबन्ध इति ? अत आह
तदनन्तभागे मनःपर्ययस्य॥ ॥२८॥ यद्रूपिद्रव्यं सर्वावधिज्ञानस्य विषयत्वेन समर्थितं तस्यानन्तभागीकृतस्यैकस्मिन् भागे मनःपर्ययः प्रवर्तते । १३“अथान्ते यनिर्दिष्टं केवलज्ञानं तस्य को विषयनिबन्ध इति ? अत आह
__ सर्वद्रव्यपर्यायेषु केवलस्य ॥२६॥ अत्राह- किं द्रव्यम् ?
स्वपर्यायान् द्रवति द्रूयते वा तैरिति द्रव्यम् ॥१॥ आत्मनः पर्यायान् द्रवति गच्छतीति द्रव्यम् । बहुलापेक्षया कर्तरि साधुत्वम् । द्रूयते वा तैरिति द्रव्यम् । ३० कञ्चिद्भेदसिद्धौ तत्कत कर्मव्यपदेशसिद्धिः ।२। द्रव्यस्य पर्यायाणां च कयञ्चिद्भदे सति उक्तः कर्तृकर्मव्यपदेशः सिद्धयति ।
१ तहि । २ निर्देश्यत श्र०। ३ अवधेः । ४ चक्षुर्ग्रहणयोग्ये । ५ गम्यते । ६ प्रागमवचनात् । ७ -ध्वनन्त पर्यायेषु प्रा०, बा०, मु०,। ८-परिणामेषु मू० । अवान्तरविषयापेक्षया बहुवचननिर्देशः। १० मनःपर्यायस्य मू०, १०, ता० । ११ मनःपर्यायस्य मू०, ता० । १२ मनःपर्यायः ता० । १३ तथाऽन्ते श्र०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org