________________
१२२९]
प्रथमोऽध्यायः इतरथा हि तदप्रसिद्धिरत्यन्ताव्यतिरेकात् ।३। यद्येकान्तेन एकत्वमवधायेंत तस्य कर्तृकर्मव्यपदेशाप्रसिद्धिः स्यात् । कुतः ? अत्यन्ताव्यतिरेकात् । न हि तदेव निविशेषमेकं शक्त्यन्तरापेक्षया विना कर्तृ कर्म च भवितुमर्हति। अथ कः पर्यायः ? .
तस्य मिथोभवनं प्रति विरोध्यविरोधिनां धर्माणामुपात्तानुपात्तहेतुकानां शब्दान्तरामलाभनिमित्तत्वाद् अपितव्यवहारविषयोऽवस्थाविशेषः पर्यायः ।४। मिथोभवनं प्रति केचिद्ध- ५ र्मा विरोधिनः, केचिदविरोधिनः । तत्र जीवस्य तावदनादिपारिणामिकचैतन्यजीवद्रव्यभव्याभव्योर्ध्वगतिस्वभावास्तित्वादिभिरौदयिकादयो भावा यथासंभवं युगपद्भावाद् अविरोधिनः । विरोधिनश्च नारकतैर्यग्योनदेवमनुष्य-स्त्रीपुनपुंसकैकद्वित्रिचतुःपञ्चेन्द्रिय-बाल्यकौमार-कोपप्रसादादयः सहानवस्थानात् । तथा पौद्गलिका अनादिपारिणामिकाः रूपरसगन्धस्पर्शशब्दसामान्यास्तित्वादयः शुक्लादिपञ्चकतिक्तादिपञ्चकगन्धद्वयस्पर्शाष्टकशब्दषट्कपर्यायः १० प्रत्येकमेकद्वित्रिचतुःपञ्चादिसंख्येयासंख्येयानन्तगुणपरिणामिभिर्यथासंभवं युगपद्भावाद् अविरोधिनः । विरोधिनश्च शुक्लकृष्णनीलतिक्तकटुकसुरभीतरगन्धादयः प्रायोगिका वैश्रसिकाश्च परमाणुषु स्कन्धेषु च, सहानवस्थानात् । एवं धर्मास्तिकायादिष्वपि अमूर्तत्वाऽचेतनत्वाऽसंख्येयप्रदेशत्वगतिकारणस्वभावाऽस्तित्वादयोऽनन्तभेदागुरुलघुगुणहानिवृद्धिविकारैः स्वप्रत्ययैः परप्रत्ययश्च गतिकारणत्वविशेषादिभिः अविरोधिनः परस्परविरोधिनश्च विज्ञेयाः । तेषु केचि- १५ दुपात्तहेतुका द्रव्यक्षेत्रकालभावनिमित्ता औदयिकादयः । अनुपात्तहेतुकाश्च त्रिषु कालेष्वविकारिणः पारिणामिकाश्चैतन्यादयः । तेषां विरोध्यविरोधिनां धर्माणामुपात्तानुपात्तहेतुकानां शब्दान्तरात्मलाभस्य निमित्तत्वात् 'चेतनो नारको 'बाल:' इति अर्पितव्यवहारविषयः इति 'व्यवहार-ऋजुसूत्र त्रिविधशब्दनयात्मकः, द्रव्याथिकानर्पणात् पर्यायाथिकेनापितः तस्य विषयः, तस्य द्रव्यस्य अवस्थाविशेषः पर्याय इत्युच्यते ।।
तयोरितरतरयोगलक्षणो द्वन्द्वः ५। तयोरितरेतरयोगलक्षणो द्वन्द्वो वेदितव्यः । द्रव्याणि च पर्यायाश्च द्रव्यपर्याया इति ।
द्वन्द्वेऽन्यत्वं प्लक्षन्यग्रोधवदिति चेत्, न; तस्य कथञ्चिद्भेदेऽपि दर्शनाद् गोत्वगोपिण्डवत् ।। स्यान्मतम्-यदि द्वन्द्वः प्लक्षन्यग्रोधवदन्यत्वं द्रव्यपर्यायाणां प्राप्नोतीति; तन्न; कारणम् ? तस्य कथञ्चिद्भेदेऽपि दर्शनात् गोत्वगोपिण्डवत् । यया 'गोत्वं च गोपिण्डश्च गोत्वगोपिण्डौ' २५ इत्यनन्यत्वेऽपि द्वन्द्वो भवति तथा द्रव्यपर्यायेष्विति । ननु सामान्यविशेषयोरन्यत्वात् साध्यसममेतदिति; नैष दोषः; उक्तमेतत्--अनन्यत्वं सामान्यविशेषयोः ।
द्रव्यग्रहणं पर्यायविशेषणं चेत; न, आनर्थक्यात् ।७। स्यादेतत्-'द्रव्याणां पर्याया द्रव्यपर्यायाः' इति द्रव्यग्रहणं पर्यायविशेषणमिति; तन्न; किं कारणम् ? आनर्थक्यात्। एवं सति द्रव्यग्रहणमनर्थकं स्यात् । न हयद्रव्यस्य पर्यायाः सन्तीति ।
द्रव्याज्ञानप्रसङगाच्च ।८। केवलेन पर्याया एव ज्ञायन्ते न द्रव्याणीति द्रव्याज्ञानं प्राप्नोति, उत्तरपदार्थप्रधानत्वात् । अथ मतमेतत्-सर्वेषु पर्यायषु ज्ञातेषु न किञ्चदज्ञातमस्ति ततो व्यतिरिक्तस्य द्रव्यस्याभावात्, यद्येवं 'द्रव्यग्रहणमनर्थकम्' इत्युक्तं पुरस्तात् । तस्मात्
३०
१-प्रसिद्धर-प्रा०, ब०, ८०, मु० । २ स्वाभाविकाः । ३ ऊध्वधिस्तिर्यगादि। ४ -३च ज्ञेयाः प्रा०, 40,40, ता०, मु०। ५ बालक इति प्रा०, ब०, २०, मु०, ता०। ६ कोऽयः व्यवहरणं ! ७ शवसममिवम्भूतशब्दनयस्वरूपः। ८ व्यवहारस्य ।
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org