________________
तत्त्वार्थवार्तिके
[११३० साधूक्तम्-'द्वन्द्वोऽयम्' इति । ननु च द्वन्द्वेऽपि द्रव्यग्रहणमनर्थकं पर्यायव्यतिरेकेणाऽनुपलब्धेरिति; नैष दोषः; संज्ञास्वालक्षण्यादिभेदाढ़ेदोपपत्तेः ।
अथ सर्वग्रहणं किमर्थ ननु बहुवचननिर्देशादेव बहुत्वसंप्रत्ययसिद्धेः ?
सर्वग्रहणं निरवशेषप्रतिपत्त्यर्थम् ।९। ये लोकालोकभेदभिन्नास्त्रिकालविषया द्रव्यपर्याया । अनन्ताः, तेषु निरवशेषेषु केवलज्ञानस्य' विषयनिबन्ध इति प्रतिपत्त्यर्थ सर्वग्रहणम् । यावा
ल्लोकालोकस्वभावोऽनन्तः तावन्तोऽनन्तानन्ता' यद्यपि स्युः, तानपि ज्ञातुमस्य सामर्थ्यमस्तीत्यपरिमितमाहात्म्यं तत् केवलज्ञानं वेदितव्यम् ।
आह-विषयनिबन्धोऽवधृतो मत्यादीनाम्, इदं तु न नितिमेकस्मिन्नात्मनि स्वनिमित्तसन्निधानोपजनितवृत्तीनि ज्ञानानि यौगपद्येन कति भवन्तीति ? अत' उच्यते
एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः ॥३०॥ एक इति कोऽयं शब्दः ?
अनेकार्थसंभवे विवक्षातः प्राथम्यवचन एकशब्दः ।१। अयमेकशब्दोऽनेक स्मिन्नर्थे दृष्टप्रयोगः । क्वचित्संख्यायां वर्तते, ‘एको द्वौ बहवः' इति । क्वचिदन्यत्वे, 'एके आचार्या:-अन्ये
आचार्याः' इति । क्वचिदसहाये, “एकाकिनस्ते विचरन्ति वीराः' इति । क्वचित्प्राथम्ये, १५ 'एकमागमनम्-प्रथममागमनम्' इति । क्वचित्प्राधान्ये, ‘एकहतां सेनां करोमि-प्रधानहतां सेनां करोमि' इत्यर्थः । तत्रेह विवक्षातः प्राथम्यवचन एकशब्दो वेदितव्यः ।
आदिशब्दश्चावयववचनः ।२। आदिशब्दश्च । किम् ? अनेकार्थसंभवे विवक्षात इहावयववचना वदितव्यः । क्वचिद्वयवस्थायां वर्तते, 'ब्राह्मणादयश्चत्वारो वर्णा:-ब्राह्मणव्यवस्थाः ब्राह्मणक्षत्रियविटशद्राः' इत्यर्थः । क्वचित्प्रकारे. 'भजङ्गादयः परिहर्तव्या:-भजङप्रकारा: विषवन्तः' इत्यर्थः । क्वचित्सामीप्ये, 'नद्यादीनि क्षेत्राणि-नदीसमीपानि' इत्यर्थः । क्वचिदवयवे. "ऋगादिमधीते-ऋगवयवमधीते' इत्यर्थः । तेनैतदुक्तं भवति-एकस्यादिरेकादिः प्रथमावयव इति । कस्य ? प्रथमस्य परोक्षस्य । कः पुनरवयवः ? मतिज्ञानम् ।।
सामीप्यवचनो वा ।३। अथवा, अयमादिशब्दः सामीप्यवचनो द्रष्टव्यः । तेन प्रथमस्य मतिज्ञानस्य श्रुतं समीपमित्युक्तं भवति ।
मतेर्बहिर्भावप्रसङग इति चेत्, न; अनयोः सदाऽव्यभिचारात् ।४। स्यादेतत्-एवं सति * मतेर्बहिर्भावः प्राप्नोतीति; तन्नः किं कारणम् ? अनयोः सदाऽव्यभिचारात् । एते हि मतिश्रुते
सर्वकालमव्यभिचारिणी नारदपर्वतवत् । तस्मादनयोरन्यतरग्रहणे इतरस्य ग्रहणं सन्निहितं भवति ।
ततोऽन्यपदार्थे वृत्तावेकस्यादिशब्दस्य निवृत्तिरुष्टमुखवत् ।५। यथा, 'उष्ट्रस्य मुखमुष्टमुखम्, उष्ट्रमुखवन्मुखमस्य' इति 'वृत्तौ एकस्य मुखशब्दस्य निवृत्तिः, एवमिहापि 'एकादिरादिर्येषां तानीमान्येकादीनि' इत्येकस्यादिशब्दस्य निवृत्तिः ।।
१-ज्ञानविषय-प्रा०, ब०, द०, मु०, ता० । २-तोऽनन्ता य-०, ता०, मू०, ज०। ३ -तम्यं के- प्रा०, ब०, मु०। ४ प्रत प्राह मु०। ५-३चायमनका- प्रा०, ब०, २०, म०। ६ वर्णाः स्युः ब्राह्मणादय इत्यमरः। ७ऋच् प्रादिरवयवः ऋगादिः। ८ अन्यपदार्थप्रधानसमासे -बहुव्रीहिसमासे इत्यर्थः। ६ समासे -सम्पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org