________________
१।३१]
प्रथमोऽध्यायः अवयवेन विग्रहः समुदायो वृत्त्यर्थः ।६। अवयवेन विग्रहः क्रियते, वृत्त्यर्थः समुदायो भवति । तेनैका'दीन्यभ्यन्तरीकृत्य भाज्यानि अर्पयितव्यानीत्यर्थः । किं सर्वाणि ? न, इत्याह 'आ चतुर्व्यः' । कुत एतत् ?
केवलस्याऽसहायत्वादितरेषां च क्षयोपशमनिमित्तत्वाद्योगपद्याभावः।७। यतः केवलज्ञानं क्षायिकं तदसहायम्, इतराणि च ज्ञानानि क्षयोपशमनिमित्तानि, अतो विरोधायुगपदसंभवः, तस्मादुच्यते 'आ चतुर्व्यः' इति ।
नाभावोऽभिभूतत्वादहनि नक्षत्रवदिति चेत् न; क्षायिकत्वात् ।८। स्यादेतत्-नाभावः क्षायोपशमिकानां ज्ञानानां केवलिनि, किन्तु केवलज्ञानेन महताऽभिभूतानि स्वप्रयोजने न व्याप्रियन्ते भास्कर'प्रभाभिभूतनक्षत्रवदिति; तन्न; किं कारणम् ? क्षायिकत्वात् । संक्षीणसकलज्ञानावरणे भगवत्यर्हति कथं क्षायोपशमिकानां ज्ञानानां संभवः । न हि परिप्राप्तसर्व- १० शुद्धौ पदे प्रदेशाऽशुद्धिरस्ति।
इन्द्रियवत्त्वादिति चेत्, न; आर्थािनवबोधात् ।। स्यादेतत्-एवमागमः' प्रवृत्तः "पञ्चेन्द्रिया असंज्ञिपञ्चेन्द्रियादारभ्य आ अयोगिकेवलिनः" [षट्खं०] इति । अत इन्द्रियवत्त्वात्तत्कार्येणापि ज्ञानेन भवितव्यमिति; तन्न; किं कारणम् ? आर्थािनवबोधात् । आर्षे हि सयोग्ययोगिकेवलिनोः पञ्चेन्द्रियत्वं द्रव्येन्द्रियं प्रति उक्तं न भावेन्द्रियं प्रति । यदि हि १५ भावेन्द्रियमभविष्यत्, 'अपि तु तहि असंक्षीणसकलावरणत्वात् सर्वज्ञतैवास्य न्यतिष्यत । तस्मादेतदुक्तं भवति-एकस्मिन्नात्मनि द्वे मतिश्रुते, क्वचित् त्रीणि मतिश्रुतावधिज्ञानानि, मतिश्रुतमनःपर्ययज्ञानानि वा, क्वचिच्चत्वारि मतिश्रुतावधिमनःपर्य यज्ञानानि, न पञ्चैकस्मिन् युगपत् संभवन्ति।
___ संख्यावचनो वैकशब्दः ।१०। अथवा, संख्यावचनोऽयमेकशब्दः । एकमादिर्येषां तानी- २० मान्येकादीनि । कथम् ? मतिज्ञानमेकस्मिन्नात्मनि एकम्, यदक्षरश्रुतं द्वयनेकद्वादशभेदमुपदेशपूर्वकं तद्भजनीयम्-स्याद्वा न वेति । इतरत् पूर्ववत् ।।
___ अपर आह–संख्याऽसहायप्राधान्यवचने एकशब्दे सति एकादीनि केवलादीनीत्यर्थः। एकस्मिन्नात्मन्येकं केवलज्ञानं क्षायिकत्वात् । द्वे मतिश्रुते इत्यादि पूर्ववत् ।
अथोक्तानि मत्यादीनि ज्ञानव्यपदेशमेव लभन्त उताऽन्यथापीति ? अत आह
२५
मतिश्रुतावधयो विपर्ययश्च ॥३१॥ विपर्ययो मिथ्येत्यर्थः । कुतः ? सम्यगधिकारात् । चशब्द: समुच्चयार्थः । विपर्ययश्च सम्यक् चेति । कुतः पुनरेषां विपर्ययः ?
मिथ्यादर्शनपरिग्रहान्मत्यादिविपर्ययः ॥१॥ योऽसौ दर्शनमोहनीयोदये सति मिथ्यादर्शन- १० परिणामः तेन सहकार्थसमवायात् मत्यादीनां विपर्ययो भवति । ननु च मणिकनकादीनां व!गृहगतानामपि स्वभावविनाशो न भवति तद्वन्मत्यादीनामपि स्यात्; नैष दोषः;
१ मतिज्ञानम् । २ केवलेन सहेतरेषां युगपदसंभवः । ३ -प्रकाशाभिभू-१०, मू० । ४ इन्द्रियत्वाभा०, ब०, मु०। ५ "पचिदिया असण्णिपंचिदियप्पहुडि जाव अजोगिकेवलि ति" -पट्खं० सं० सू० ३७ । ६ मपिरत्र संभावनायाम्। ७ -ह असंख्या- प्रा०, ब०, २०, मु०। ८ -योज्ययाकृतः मा०, ०, मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org