________________
तत्त्वार्थवार्तिके
[१॥३२ सरजसकटुकालाबूगतदुग्धवत् स्वगुणविनाशः।२। यथा सरजसकटुकालाबूभाजने निहितं दुग्धं स्वगुणं परित्यजति तथा मत्यादीन्यपि मिथ्यादृष्टिभाजनगतानि दुष्यन्तीति । आधारस्य दोषाद्धि 'आधेयस्य दोषो जायते।
___ ननु च नायमेकान्तः, उक्तमेतत्-'मणिकनकादयो वर्चागृहगता अपि स्वभावं न त्यजन्ति' ५ इति; तत्र कथमेतदध्यवसीयते-अलाबूदुग्धवद् दुष्यन्ति मत्यादीनि न पुनर्मण्यादिवन्न दुष्यन्तीति ?
परिणामकशक्तिविशेषात् ।३। परिणामकस्य हि वस्तुनः शक्तिविशेषादन्यथाभावो भवति । यथा अलाबूद्रव्यं दुग्ध विपरिणामयितुं शक्नोति तथा मिथ्यादर्शनमपि मत्यादीनामन्य
थात्वं कर्तु मलं तदुदये अन्यथानिरूपणदर्शनात् । व!गृहं तु मण्यादीनां विकारं नोत्पादयितु१० मलम्, विपरिणामकद्रव्यसन्निधाने तेषामपि भवत्येवान्यथात्वम्, यदा तु सम्यग्दर्शनं प्रादुर्भूतं
तदा मिथ्यापरिणामदर्शनाभावात् (मिथ्यादर्शनपरिणामाभावात्) तेषां मत्यादीनां सम्यक्त्वम्, अतः सम्यग्दर्शन मिथ्यादर्शनोदयविशेषात्तेषां त्रयाणां द्विधा क्लप्तिर्भवति-मतिज्ञानं मत्यज्ञानं श्रुतज्ञानं श्रुताऽज्ञानम् अवधिज्ञानं विभङ्गज्ञानमिति ।।
अत्राह-रूपादिविषयोपलब्धिव्यभिचाराभावाद्विपर्ययाभावः । यथैव मतिज्ञानेन सम्य१५ ग्दृष्टयो रूपादीनुपलभन्ते तथा मिथ्यादृष्टयोऽपि मत्यज्ञानेन । यथैव घटादिषु रूपादीन् श्रुतेन -निश्चन्वन्त्युपदिशन्ति च परेभ्यः तथा श्रुताज्ञानेनापि । यथैवावधिना रूपिणोऽर्थानवयन्ति तथा विभङ्गेनापीति। तस्मान्नास्ति विपर्यय इति । अत आह
सदसतोरविशेषाद्यदृच्छोपलब्धरुन्मत्तवत् ॥३२॥
सच्छब्दस्यानेकार्थसंभवे विवक्षातः प्रशंसार्थग्रहणम् ।। 'अयं सच्छदोऽनेकार्थः' इति २० व्याख्यातः । तस्येह विवक्षातः प्रशंसार्थस्य ग्रहणं वेदितव्यम्-प्रशस्तं तत्त्वज्ञानमित्यर्थः ।।
असदज्ञानम् । तयोः सदसतोः । अविशेषेण यदृच्छयोपलब्धेविपर्ययो भवति । कथम् ? उन्मत्तवत् । यथा उन्मत्तो दोषोदयादुपहतेन्द्रियमतिः विपरीतग्राही भवति, सः अश्वं 'गौः' इत्यध्यवस्यति, गां वा 'अश्वः' इति, लोष्टं "सुवर्णम्' इति, सुवर्ण च लोष्टमिति, लोष्टं लोष्टमिति, सुवर्ण सुवर्णमिति, तस्यैवमविशेषेणाध्यवस्यतोऽज्ञानमेव भवति, तद्वत् मिथ्यादर्शनोपहतेन्द्रियमतेमतिश्रुतावधयोऽप्यज्ञानमेव भवन्तीति ।
भवत्यर्थग्रहणं वा ।२। अथवा, सच्छब्दोऽयं भवत्यर्थे वेदितव्यः । सद्विद्यमानमित्यर्थः, असदविद्यमानम्, तयोरविशेषेण यदृच्छोपलब्धेः विपर्ययो भवति-कदाचिद्रूपादि सदप्यसदिति प्रतिपद्यते असदपि सदिति। कदाचित्तु सत्सदेव असदप्यसदेवेति । कुतः ?
प्रवादिपरिकल्पनाभेदाद्विपर्ययग्रहः ।३। प्रवादिनां कल्पनाभेदात् विपर्ययग्रहो भवति । तद्यथा 'केचित्तावदाहुः-'द्रव्यमेव.न रूपादयः' इति । "अपर आहुः-'रूपादय एव न द्रव्यम्' इति । 'अपरेषां दर्शनम्-'अन्यद् द्रव्यमन्ये च रूपादयः' इति । कथमेषां विपर्ययग्रहः ? उच्यतेयदि द्रव्यमेव न रूपादयः; लक्षणाभावाल्लक्ष्यानवधारणप्रसङ्गः । किञ्च, इन्द्रियेण सन्निकृष्यमाणं द्रव्यं रूपाद्यभावे सर्वात्मना सन्निकृष्येत,° ततः सर्वात्मना ग्रहणप्रसङ्गः, करण
१ प्राधेये भा० । २ -दवसीयते, प्रा०, ब०, ८०, मु० । ३ पारिणामिक-प्रा०, ब०, मु० । ४ परिणामं करोतीति परिणामकः। ५ सवर्ण सवर्ण लोष्टमिति प्रा०, ब०, २०, मु०। ६ सांख्यावयः। ७बौदाः-सम्पा० । वैशेषिकाणाम-सम्पा० । हरसाद्यात्मना स्वरूपेण । १० सक्षाक्रियेत ।
२५
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org