________________
६३
२१३२
प्रथमोऽध्यायः भेदाभावप्रसङ्गश्च । न चासौ दृष्ट इष्टो वा । अथ रूपादय एव न द्रव्यम्; एवमपि निराधारत्वादभावप्रसङ्गः।
___ किञ्च, परस्परविलक्षणानां रूपादीनां समुदयेऽपि सति एकानान्तरभावात् समुदयस्य सर्वाभावः परस्परतोऽर्था (तोऽनर्था)न्तरभूतत्वात् । अथ हयन्यद् द्रव्यं अन्ये रूपादयः; एवमपि तेषां लक्ष्यलक्षणभावाभावः परस्परतोऽर्थान्तरभूतत्वात् । दण्डिदण्डवत् लक्ष्यलक्षणभाव ५ इति चेत्; न; वैषम्यात् । पृथक्सतोर्लक्ष्यलक्षणभावो युक्तो नासतोरिति ।।
किञ्च, रूपादिषु गुणेष्वमूर्तेषु द्रव्यादर्थान्तरभूतेषु नेन्द्रियसन्निकर्षों युक्तः, ततश्च ज्ञानाभावः। न चार्थान्तरभूतं द्रव्यं कारणं भवितुमर्हति । किञ्च,
___ मूलकारणविप्रतिपत्तेः ।४। एषां घटरूपादीनां मूलकारणे प्रवादिनां विप्रतिपत्तिः । तद्यथा, 'केचिदाहुः- अव्यक्तान्महदहङ्कार तन्मात्रेन्द्रियमहाभूतमृत्पिण्डादि विवृत्तिक्रमण घटादे- १० विश्वरूपस्य जगत उत्पादः' इति; तदयुक्तम्; न हि प्रधानस्य अमूर्तत्वनिरवयवत्वनिष्क्रियत्वाप्रतीन्द्रियत्वानन्त्यनित्यत्वापरप्रयोज्यत्वादिविशेषोपेतस्य तद्विलक्षणो घटादिः कार्यो भवितुमर्हति, अदृष्टत्वात् । न वा अपरप्रयोज्यस्य प्रधानस्य स्वयमभिप्राय रहितस्य अभिप्रायपूर्वकप्रसवक्रमो युक्तः । पुरुषस्तावन्निष्क्रियत्वान्न महदादिसर्गार्थ प्रधानं प्रयुङक्तेः स्वयं निष्क्रियत्वात् प्रधान नात्मानं महदादिसर्गार्थ प्रयोक्तुमर्हति । न हि स्वयं गतिविकल: पङगुरात्मानमेवावष्टभ्यो- १५ त्थाय गच्छन् दृष्टः । किञ्च, अप्रयोजनस्य प्रधानस्य महदादिसर्गो न युक्तिमान् । पुरुषभोगः प्रयोजनमिति चेत्; न; स्वार्थाभावात्, नित्यस्य विभोरात्मनः भोगपरिणामाभावाच्च । किञ्च, अचेतनत्वात् । इह लोके चेतनश्चैत्र ओदनार्थी क्रियाफलसाधनज्ञः तदर्थेष्वग्निसन्धुक्षणादिषु प्रवर्तमानो दृष्टः, न च तथा प्रधानं चेतनम्, अतोऽस्य महदादिक्रियाप्रसवक्रमाभावः । न च पुरुषस्तस्य क्रमस्य प्रयोजकः; निष्क्रियत्वात् ।
__ अपर' आहुः-'परमाणुभ्यः प्रतिनियतपार्थिवादिजातिविशिष्टेभ्योऽदृष्टादि हेतुसन्निधाने सति संहतेभ्योऽर्थान्तरभूतघटादिकार्यात्मलाभः' इति; तदप्ययुक्तम् नित्यत्वादणूनां कार्यारम्भशक्त्यभावात्। सति चारम्भे नित्यत्वहानेः । नचार्थान्तरभूतस्य कार्यस्यारम्भोर युक्तः; व्यतिरेकानुपलब्धेः, उपलब्धौ चाणुमहत्त्वाभावः२३ । न च "जातिप्रतिनियमोऽस्ति; भिन्न-१५ जातीयानामप्यारम्भदर्शनात् । भिन्नजातीयेषु समुदायमात्रमिति चेत्, तुल्यजातीयेष्वपि २५ "तत्प्रसङगः । न चात्मनो घटाद्यारम्भे कर्तृत्वमुपपन्नम् निष्क्रियत्वान्नित्यत्वाच्च । नाप्यात्मगुणस्यादृष्टादेः निष्क्रियत्वादेव। न च निष्क्रियोऽर्थान्तरे "क्रियाहेतुर्दृष्टः ।
____ अन्ये मन्यन्ते-'वर्णादिपरमाणुसमुदयात्मका रूपपरमाणवोऽतीन्द्रियाः समुदिताः सन्तः इन्द्रियग्राह्यत्वमनुभूय घटादिकार्यात्मलाभहेतुत्वं प्रतिपद्यन्ते' इति; "तदप्ययुक्तम् प्रत्येक रूपपरमाणूनामतीन्द्रियत्वात्ततोऽनन्यस्य कार्यस्याप्यतीन्द्रियत्वप्रसङगात्, ततश्च दृश्यविषय- ३०
१-थान्तरत्वात् प्रा०, ब०, द०, मु०, ता० । २ द्रव्यं गुणोत्पादकमिति चेत् । ३ सांख्याः । ४प्रधानात् । ५ गन्धरसस्पर्शरूपशब्दाः पञ्च तन्मात्राः । ६-निवृत्तिक्र-प्रा०, ब०, २०, मु०। विवर्तन। ७ अचेतनत्वात् । ८ स्वस्य प्रयोजनाभावात्। यौगाः। १० -दिस- प्रा०, ब०, २०, म०, ता०। ११ -हानिः प्रा०, ५०, मु०। १२ उत्पाद । १३ तत्वे अणुप्रमाणोऽयं महत्प्रमाणोऽयमिति ज्ञातुन पार्यते । १४ मृत्पिण्डादेरेव घटादिरुत्पद्यते इति । १५ चन्द्रकान्तसूर्यकान्तशिलादेवत्पद्यमानजलाग्न्यादिदर्शनात् । १६ भिन्नानां तुल्यजातीयानां समुदयप्रसङ्गः। १७ वृक्षाविचलने वायवत प्रेरकहेतुः। १८ बौद्धाः। १६ जलाहरणादि। २० तदयु-प्रा०, ब०, ८०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org