________________
९४ तत्त्वार्थवार्तिके
[११३३ प्रमाणप्रमाणाभासविकल्पाभावः । कार्याभावाच्च तल्लिङगस्य कारणस्याप्यभावः । किञ्च, क्षणिकत्वानिष्क्रियत्वाच्च' कार्यारम्भाभावः, विविक्तशक्तीनां परस्पराभिसंबन्धाभावश्च । न चान्योऽर्थश्चेतनस्तेषां संबन्धस्य कर्तास्ति, तदभावात्संबन्धाभावः । एवमन्येष्वपि प्रवादिषु
सत्यसदिति असत्यपि सदिति विपर्ययो मिथ्यादर्शनोदयवशाद्वेदितव्यः पित्तोदयाकुलितरसने५ न्द्रियविपर्ययवत् । ततो यदुक्तम्-'रूपादिविषयोपलब्धिव्यभिचाराभावान्न मिथ्यादृष्टानत्रयमज्ञानम्' इति तदसम्यक् ।
व्याख्यातं ज्ञानं लक्षणादिभिः । इदानीं चारित्रं निर्देष्टव्यं तदुल्लङभ्य नया उच्यन्ते । कस्मात् ? मोक्षविधाने तस्य वक्ष्यमाणत्वात् । कुतः पुनस्तन्मोक्षविधौ वक्ष्यते इति चेत् ? ' मोक्षं प्रति प्रधानकारणत्वात् । किंकृतं प्राधान्यम् ? कृत्स्नकर्मेन्धननिर्दहनकृतम् । यत आत्मा व्युपरतक्रियाध्यानाविर्भूतात्मबल: कृत्स्नकर्मेन्धननिर्दहनसमर्थो भवति, नतु क्षायिकसम्यक्त्वकेवलज्ञानोपेतोऽपि । यदि स्यात्; क्षायिकसम्यक्त्वकेवलज्ञानोत्पत्त्यनन्तरमेव कृत्स्नकर्मक्षयः स्यात्, व्युपरतक्रियाध्यानोत्पत्त्यनन्तरमेव भवति । तच्चोत्तमं चारित्रम्, *"कर्मादानहेतुक्रियाव्युपरतिश्चारित्रम्' [ ] इति वचनात् । यदीह तदुच्येत मोक्षविधानेऽपि तद्वक्तव्यमिति गौरवं स्यात् । एवमपि जीवादयो निर्देष्टव्या उच्यन्ते । प्रमाणं व्याख्यातम् । प्रमाणैकदेशा नयाः ."प्रमाणनयैरधिगमः" [त. सू० ११६ ] इति वचनात्, तदनन्तरवचनार्दा नयाः । यद्येवं के ते नया इति ? अत आह
नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूता नयाः ॥३३॥
शब्दापेक्षयकादिसंख्येयविकल्पा नयाः । तत्रातिसंक्षेपादप्रतिपत्तिः, अतिविस्तरे चाल्प- . प्रज्ञानामननुग्रह इति मध्ययया प्रतिपत्त्या सप्त नया अत्रोच्यन्ते । तेषां सामान्यविशेषलक्षणं २० वक्तव्यम् । तत्र सामान्यलक्षणमुच्यते
प्रमाणप्रकाशिताऽर्थविशेषप्ररूपको नयः।१प्रकर्षण मानं प्रमाणं सकलादेशि इत्यर्थः, तेन प्रकाशितानां न प्रमाणाभासपरिगृहीतानामित्यर्थः, तेषामर्थानाम् अस्तित्वनास्तित्व'नित्यत्वानित्यत्वाद्यनन्तात्मनां जीवादीनां ये विशेषाः पर्यायास्तेषां प्रकर्षेण रूपकः प्ररूपकः निरुद्धदोषानुषङ्गद्वारेणेत्यर्थः । एवंलक्षणो नयः ।।
तस्य द्वौ मूलभेदौ द्रव्यास्तिकः पर्यायास्तिक इति । द्रव्यमस्तीति मतिरस्य द्रव्यभवनमेव नातोऽन्ये भावविकाराः, नाप्यभावः तद्वयतिरेकेणानुपलब्धेरिति द्रव्यास्तिकः ।
तल्लिडका- प्रा०, १०, २०, म०। २ हि भवन्मते निष्क्रिय धर्मादि द्रव्यं जीवादीनां गत्यावे. कथं हेतुरिति चेत? तेषां धर्मादिनिमित्तहेतुरित्यनमननान्न दोषः। तथा चोक्तमार्षे- गतिस्थितिमतावतो गतिस्यित्योरुपग्रहे । धर्माधमौ प्रवर्तेते न स्वयं प्रेरको मतौ। यथा मत्स्यस्य गमनं विना नैवाम्भसा भवेत् । न चाम्भः प्रेरयत्येनं तया धर्मोस्त्यनुग्रहः॥ ३ ननु प्रा०, ब०, २० । ४ "संसारकारणविनिवृत्ति प्रत्यागूर्णस्य ज्ञानवतः कर्मावाननिमित्तक्रियोपरमः चारित्रम" -स०, सि० १११॥ ५ तदुच्यते मा०, ब०, १०, म०। ६ सर्वे शब्दाः संख्येया इति वचनात् । कथम्? त्रयस्त्रिंशत् व्यञ्जनानि सप्तविंशतिः स्वराः चतुर्योगवाहाः इति चतुःषष्टिः। (तानि पृथक् पृथक् स्थाप) यित्वा द्विकं दत्वा परस्परं संगुण्य तस्मिन् स्पोन कुते रूपोनएकटाठिमात्र वस्तु (१)अपुनरुक्ताक्षराणि भवन्ति-१९४४६७४४०७३७०९५५१६१५ तत्स्वरूप द्वादशाङ्ग श्रुतम् । ७ मध्यतया प्रा०, ब०, द०, म०। मध्यमया म०।८ -देश इ-मा०, ब,०, म०, ता०। ४-नित्यत्वाद्यान्तात्मनां प्रा०,०, २०, मु०। १० पर्यय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org