________________
१॥३३]
प्रथमोऽध्यायः पर्याय एवास्ति इति मतिरस्य जन्मादिभावविकारमात्रमेव भवनं न ततोऽन्यद् द्रव्यमस्ति तद्वयतिरेकेणानुपलब्धेरिति पर्यायास्तिकः । अथवा, द्रव्यमेवार्थोऽस्य न गुणकर्मणी तदवस्थारूपत्वादिति' द्रव्याथिकः । पर्याय एवार्थोऽस्य रूपाद्युत्क्षेपणादिलक्षणो न ततोऽन्यद् द्रव्यमिति पर्यायाथिकः । अथवा अर्यते गम्यते निष्पाद्यत इत्यर्थः कार्यम् । द्रवति गच्छतीति द्रव्यं कारणम् । द्रव्यमेवार्थोऽस्य कारणमेव कार्य नार्थान्तरम्, न च कार्यकारणयोः कश्चिद्रूपभेदः तदुभयमेकाकारमेव पर्वाङगुलिद्रव्यवदिति द्रव्यार्थिकः । परि समन्तादायःपर्यायः । पर्याय एवार्थः कार्यमस्य न द्रव्यम् अतीतानागतयोविनष्टानुत्पन्नत्वेन व्यवहाराभावात्, स एवैकः कार्यकारणव्यपदेशभागिति पर्यायाथिकः । अथवा, अर्थनमर्थः प्रयोजनम्, द्रव्यमेवार्थोऽस्य प्रत्ययाभिधानानुप्रवृत्तिलिङ्गदर्शनस्य निह्नोतुमशक्यत्वादिति द्रव्याथिकः । पर्यायोऽर्थः प्रयोजनमस्य 'वाग्विज्ञातव्यावृत्तिनिबन्धनव्यवहारप्रसिद्धेरिति पर्यायाथिकः । तद्भेदा नैगमादयः ।
एषां विशेषलक्षणमुच्यते
अर्थसंकल्पमात्रग्राही नैगमः ।२। निगच्छन्ति तस्मिन्निति निगमनमात्र वा निगमः, निगमे कुशलो भवो वा नैगमः । तस्य लोके व्यापारः अर्थसंकल्पमात्रग्रहणं प्रस्थेन्द्रगृहगम्यादिषु । तद्यथा-कश्चित् प्रगृह्य परशु पुरुषं गच्छन्तमभिसमीक्ष्याह 'किमर्थ गच्छति भवान्' इति ? स तस्मै 'आचष्टे प्रस्थार्थमिति । एवमिन्द्रगृहादावपि। तथा "कतरोऽत्र गमी' इत्युक्ते आचष्टे'अहं गमी' इति, संप्रत्यगच्छत्यपि गमीति व्यवहारः । एवं प्रकारोऽन्योऽपि नैगमनयस्य विषयः ।
भाविसंज्ञाव्यवहार इति चेत्, न; भूतद्रव्यासन्निधानात् ।३। स्यादेतत्-नायं नैगमनयविषयः भाविसंज्ञाव्यवहार इति; तन्न; किं कारणम् ? भूतद्रव्यासन्निधानात् । भूतं हिं कुमार- • तण्डुलादिद्रव्यमाश्रित्य राजौदनादिका भाविनी संज्ञा प्रवर्तते, न च तथा नैगमनयविषये 'किञ्चिद् भूतं द्रव्यमस्ति यदाश्रया भाविनी संज्ञा विज्ञायेत ।
"उपकारानुपलम्भात् संव्यवहारानुपपत्तिरिति चेत् न, अप्रतिज्ञानात् ।४। स्यादेतत्नैगमनयवक्तव्ये उपकारो नोपलभ्यते, भाविसंज्ञाविषये तु राजादावुपलभ्यते, ततो नायं युक्त इति; तत्न; किं कारणम् ? अप्रतिज्ञानात् । नैतदस्माभिः प्रतिज्ञातम्-'उपकारे सति भवितव्यम्' इति । किं तर्हि ? अस्य नयस्य विषयः प्रदर्श्यते । अपि च, उपकारं प्रत्यभिमुखत्वादुपकारवानेव ।
स्वजात्यविरोधेनैकत्वोपनयात् समस्तग्रहणं संग्रहः ।५। बुद्ध यभिधानानुप्रवृत्ति लिङ्गं सादृश्यं स्वरूपानुगमो वा जातिः, सा चेतनाचेतनाद्यात्मिका शब्दप्रवृत्तिनिमित्तत्वेन प्रतिनियमात् स्वार्थव्यपदेशभाक् । स्वा जातिः स्वजाति:, अप्रच्यवनमविरोधः, स्वजातेरविरोधः स्वजात्यविरोधस्तेन स्वजात्यविरोधेन एकत्वोपनयात् । केषाम् ? भेदानाम् । समस्तग्रहणं संग्रहो यथा सद् द्रव्यं घट इत्यादि । 'सत्' इत्युक्ते सत्तासंबन्धार्हाणां द्रव्यपर्यायतद्भदप्रभेदानां तदव्यतिरेकात् तेनैकत्वेन संग्रहः । 'द्रव्यम्' इति चोक्ते जीवाजीवतद्भेदप्रभेदानां द्रव्यत्वाविरोधात्तेनैकत्वेन संग्रहः । 'घटः' इति चोक्ते नामादिभदात् मृत्सुवर्णादिकारणविशेषाद् वर्णसंस्थानादिवि
१ प्राविशम्देन अस्तिविकारवतिहानिक्षयाः गृह्यन्ते । २-रूपादिति प्रा०, ब०, द०, म, प०, ता०। २० प्रती रूपात् इत्यस्य टिप्पणे रूपत्वात्' इति लिखितमस्ति.। ३ -त्वे व्य-ता०, श्र०, द०, मू०, ज०, भा० १,२। ४ शब्दबुद्धि। ५ निगच्छन्त्यस्मि-पा०, ब०, २०, म०। ६ संकल्पमात्र वा। ७ व्याचष्ट मु०। ८ 'गमेरिन्' इत्ययं त्यो भवंति गमिष्यति यास्यतीति गमिन्यर्थ एवं । ६ किञ्चित्तद्भूतं मु०, प्रा०, २०। १० उपकारानुपपत्ति- भा० २।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org