________________
तत्त्वार्थवार्तिके
[ १२१३३
काराच्च भिन्नानां घटशब्दवाच्यानां तदव्यतिरेकादेकत्वेन संग्रहः । एवमितरेष्वपीति 1 तत्राभिधानप्रत्ययो सामान्यं निराकृतविशेषभावात् ।
'आह- सत्ताद्यर्थान्तरभूतमस्ति, तदभिसंबन्धात् सदादिव्यपदेश' इति; तन्न; उभयथाऽनुपपत्तेः । इदमिह संप्रधार्यम् - सत्तासंबन्धात्प्राग् द्रव्यादिषु सदित्यभिधानं प्रत्ययश्च स्याद्वा ५ न वेति ? यदि स्यात्; सत्तासंबन्धवैयर्थ्यं प्रकाशित प्रकाशनवैयर्थ्यवत्, सत्ताद्वयप्रसङ्गश्च - एका आभ्यन्तरी अपरा बाहयेति । अतश्च समयविरोधः - # "सल्लिङ्गाविशेषाद्विशेषलिङगाभावाच्चैको भावः " [वै० सू० १।२।१७] इति । अथ नास्ति; खरविषाणादिष्वतिप्रसङ्गः ।
वाकृतोऽयं विशेष इति चेत्; न; तस्य प्रतिषिद्धत्वात् ।
किञ्च, सत्तायाः सदिति व्यपदेशस्य सत्तान्त रहेतुकत्वाहे तुकत्वयोः अनवस्थाप्रतिज्ञाहानि१० दोषप्रसङ्गः । अथ पदार्थशक्तिप्रतिनियमाद् द्रव्यादिषु सदिति व्यपदेशो "निमित्तान्तरहेतुकः, सत्तायां स्वत एवेति चेत्; संसर्गवादत्यागः, इच्छामात्र कल्पनाप्रसङ्गश्च ।
किञ्च, सत्तादेः पदार्थान्तरस्य द्रव्यादिषु वृत्तिः सोऽस्येति वा स्यात्, सोऽयमिति वा ? यदि सोऽस्येति वृत्तिः;' मत्त्वर्थीयेन भवितव्यम् 'सत्तावद्द्रव्यम्' इति, यथा गोमान् यवमानिति, अतो मत्त्वर्थस्य ( वतोर्मत्त्वर्थस्य) भावार्थस्य च निवृत्तिर्वक्तव्या' । अथ सोऽयमित्यभिसंबन्धेन १५ वृत्तिः; 'सत्ता द्रव्यम्' इति प्राप्नोति यथा ' यष्टिः पुरुषः' इति, न ' सद्द्रव्यम्' इति, तत्र
भावार्थस्य निवृत्तिर्वक्तव्या ।
२०
९६
अतो विधिपूर्वकमवहरणं व्यवहारः । ६ । एतस्माद् अतः । कुतः । संग्रहात् संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वकमवहरणं व्यवहारः । को विधि: ? संग्रहगृहीतोऽर्थस्तदानुपूर्व्येणैव व्यवहारः " प्रवर्तते इत्ययं विधिः । तद्यथा - सर्वसंग्रहेण सत् संगृहीतम्, तच्चानपेक्षितविशेषं संव्यवहारायेति व्यवहारनय आश्रीयते - यत्सत्तद् 'द्रव्यं गुणो वा' इति । द्रव्येणापि च संग्रहाक्षिप्तेन जीवाजीवा विशेषानपेक्षेण न शक्यः संव्यवहार इति 'जीवद्रव्यमजीवद्रव्यम्' इति वा २५ व्यवहार आश्रीयते । जीवाजीवावपि च संग्रहाक्षिप्तौ नालं संव्यवहारायेति प्रत्येकं देवनारकादिर्घटादिश्च व्यवहारेणाश्रीयते । 'कषायो भैषज्यम्' इत्युक्ते च सामान्यस्य विशेषात्मकत्वात् मैयग्रोधादिविशेषसामर्थ्यम् ( विशेषस्य सामर्थ्येन ग्रहणम् ) । नहि शक्यः प्रभुणापि चक्रभृता सर्वः कषायसमाहारः कर्तुम् । नामस्थापनाद्रव्याणि च संग्रहोपात्तानि नालं व्यवहारायेति भाव एव गृह्यते । एवमयं नयस्तावद्वर्तते यावत्पुनर्नास्ति विभागः ।
३०
किञ्च दृष्टान्ताभावात् । न हयेकं किञ्चिदनेकसंबन्धि दृष्टं यदभिसमीक्ष्य सत्का अनेकसंबन्धिनी गम्येत । नीलीद्रव्यवदिति चेत्; न; न तस्यानेकत्वात् । नीलीत्ववदिति चेत्; न; तस्यासिद्धत्वात् ।
" सूत्रपातवदृजुत्वात् ऋजुसूत्रः ॥७॥ यथा ऋजुःसूत्रपातस्तथा ऋजु प्रगुणं सूत्रयति तन्त्रयति ऋजुसूत्रः । " पूर्वा स्त्रिकाल " विषयानतिशय्य वर्तमानकालविषयमादत्ते । अतीतानागतयोर्विनष्टानुत्पन्नत्वेन व्यवहाराभावात् । "समयमात्रमस्य निर्दिधिक्षितम् ।
१ सत्तायाम्, संग्रह इत्यर्थः । २ नैयायिकः - सम्पा० । ३ वस्तुनः । ४ देवरक्ता हि किंशुकाः केन रज्यन्ते नाम 1 ५ सत्तासम्बन्ध इति । ६ परार्थाभिधानम् । ७ तलः । तत्प्रत्ययस्येत्यर्थः । ८ सद्द्रव्यमित्याद्युदाहरणे । ६ नीलित्व- आ०, ब०, द०, मु० | १० भेदकल्पना । ११ नियमः । १२ नैयग्रोधादिविशेषस्य सामर्थ्येन ग्रहणमित्यर्थः - सम्पा० । १३ सूत्रपातववृजुसूत्रः श्रा०, ब०, द०, मु० । १४ सर्वा - श्र०, ब०, ६०, मु० । १५ नयान् । १६ समवायमा आ०, ब०, व०, मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org