________________
१॥३३]
प्रथमोऽध्यायः 'कषायो भैषज्यम्' इत्यत्र च संजातरसः कषायो भैषज्यं न प्राथमिककषायोऽल्पोऽनभिव्यक्तरसत्वादस्य विषयः ।
पच्यमानः पक्वः । पक्वस्तु स्यात्पच्यमानः स्यादुपरतपाक इति । असदेतत् विरोधात् । 'पच्यमानः' इति वर्तमानः 'पक्वः' इत्यतीतः तयोरेकस्मिन्नवरोधो विरोधीति; नैष दोषः; पचनस्यादावविभागसमये कश्चिदंशो निर्वत्तो वा, न वा ? यदि न निवृत्तः; तद्वितीयादि- ५ ष्वप्यनिर्वृत्तेः पाकाभावः स्यात् । ततोऽभिनिर्वृत्तः तदपेक्षया 'पच्यमानः पक्वः,' इतरथा हि समयस्य त्रैविध्यप्रसङ्गः। स एवौदनः पच्यमानः पक्वः, स्यात्पच्यमान इत्युच्यते पक्तुरभिप्रायस्यानिवृत्तेः, पक्तुर्हि सुविशदसुस्विन्नौदने पक्वाभिप्रायः, स्यादुपरतपाक इति चोच्यते "कस्यचित् पक्तुस्तावतैव कृतार्थत्वात् ।
एवं क्रियमाणकृत-भुज्यमानभुक्त-बध्यमानबद्ध-सिध्यत्सिद्धादयो योज्याः । तथा प्रतिष्ठन्तेऽस्मिन्निति प्रस्थः, यदैव' मिमीते, अतीतानागतधान्यमानासंभवात् ।
कुम्भकाराभावः शिविकादिपर्यायकरणे तदभिधानाभावात । कुम्भपर्यायसमये च स्वावयवेभ्य एव निर्वृत्तेः ।
स्थितप्रश्ने च 'कुतोऽद्यागच्छसि' इति ? न 'कुतश्चित्' इत्ययं मन्यते, तत्कालक्रियापरिणामाभावात् ।
यमेवाकाशदेशमवगाढु समर्थ आत्मपरिणामं वा तत्रैवास्य वसतिः ।
न कृष्णः काकः, उभयोरपि स्वात्मकत्वात्-कृष्णः कृष्णात्मको न काकात्मकः । यदि काकात्मकः स्यात्, भ्रमरादीनामपि काकत्वप्रसङ्गः । काकश्च काकात्मको न कृष्णात्मकः । यदि कृष्णात्मकः; शुक्लकाकाभावः स्यात् । पञ्चवर्णत्वाच्च, पित्तास्थिरुधिरादीनां पीतशुक्लरक्तादिवर्णत्वात्, तद्व्यतिरेकेण काकाभावाच्च । न सामानाधिकरण्यम्-एकस्य पर्यायेभ्यो- २० ऽनन्यत्वात्पर्याया एव विविक्तशक्तयो द्रव्यं नाम न किञ्चिदस्तीति । कृष्णगुणप्राधान्यादिति चेत्, न; "आस्तरकादिष्वतिप्रसङ्गात्, कषायमधुरे च मधुनि विरोधात् । अप्रत्यक्षे चाख्यायमाने संशयदर्शनात् । कृष्णकाकविशेषज्ञेन केनचिद् द्वीपान्तरनिवासिन्यनुपलब्धकृष्णकाकविशेषे पुरुषे प्रतिपाद्यमाने संशयो जायते 'किमयं काकस्य काष्र्ण्य गुणप्राधान्यादाचष्टे, द्रव्यस्यैव वा तथा परिणामात्' इति ?
अतः पलालादिदाहाभावः प्रतिविशिष्टकालपरिग्रहात् । अस्य हि नयस्याविभागो वर्तमानसमयो विषयः । अग्निसंबन्धनदीपनज्वलन दहनानि असंख्येयसमयान्तरालानि यतोऽस्य दहनाभावः । किञ्च, यस्मिन् समये दाहः न तस्मिन् पलालम्, भस्मताभिनिवृत्तेः, यस्मिश्च पलालं न तस्मिन् दाह इति । यत्पलालं तद्दहतीति चेत्, न; सावशेषात्" । समुदायाभिधायिनां शब्दानामवयवेषु वृत्तिदर्शनाददोष इति चेत्ः नः तदवस्थत्वात्,' एकदेशदाहाभावस्योक्तत्वात्। ३०
१पक्षस्तु प्रा०, ब०, द०, म०। २ प्रथमसमये इत्यर्थः। ३-भिनिवत्तेस्त -प्रा०, ब०, ८०, मु०। ४ प्रादावेवं पच्यमान इत्यत्र पक्वताबुद्धः सुस्विन्नेऽन्ने पक्वताबुद्धया कि फलमित्याशङकायाम् यस्य कस्यचिदत्यन्तपक्वतायामेव बद्धिर्भवेदित्याह कस्यचिदिति । ५ ऋजुसत्रः। ६ काकस्य । ७ कम्बलादिषु-ता० टि० । कम्बलादौ -श्र० टि० । -न्नास्थिरक्तादि- प्रा०, ब०, मु० ।-नास्ति रक्ताद०। ८ कृष्णकाके । अङ्गार। १० भस्म । ११ ततः । १२ भस्मीभावः। १३ पलालस्तृणसञ्चयः। पलालोऽस्त्री निष्फलबीह्यादितणः। १४ अवशेषसद्धावात । १५ अवयवेऽपि सावशेषसद्भावात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org