________________
तत्त्वार्थवार्तिके
[१॥३३ निरवशेषदाहासंभवादिति चेत्; न; वचनविरोधात् तदवस्थत्वाच्च । वचनविरोधस्तावत्यदि निरवशेषस्य पलालस्य दाहस्यासंभव इत्येकदेशदाहात् पलालदाहो नादाहः; ननु भवद्वचनस्य निरवशेषपरपक्षदूषकत्वाभावात् परपक्षकदेशस्य दूषकत्वम्, अतः एकदेशदूषकत्वात्
कृत्स्नमपीदं दूषकमेवेत्यस्य साधकत्वसामर्थ्याभाव इति । तदवस्थत्वमपि 'एकसमये दाहाभावः' ५ इत्युक्तत्वात् । अवयवानेकत्वे यद्यवयवदाहात् सर्वत्र दाहोऽवयवान्तराऽदाहात् ननु सर्वदाहाभावः । अथ दाहः सर्वत्र ; कस्मानाऽदाहः ? अतो न दाहः। एवं पानभोजनादिव्यवहाराभावः ।
___न शुक्लः कृष्णीभवति; उभयोभिन्नकालावस्थत्वात्, प्रत्युत्पन्नविषये 'निवृत्तपर्यायानभिसंबन्धात् । सर्वसंव्यवहारलोप इति चेत् न; विषयमात्रप्रदर्शनात्, पूर्वनयवक्तव्यात् संव्यवहारसिद्धिर्भवति।
शपत्यर्थमाह वयति प्रत्याययतीति शब्दः ।८। उच्चरितः शब्दः कृतसंगीतेः पुरुष स्य स्वाभिधेये 'प्रत्ययमादधाति इति शब्द इत्युच्यते ।
स च लिङगसंख्यासाधनादिव्यभिचारनिवृत्तिपरः ।९। लिङ्ग स्त्रीत्वपुंस्त्वनपुसकत्वानि । संख्या एकत्व द्वित्वबहुत्वानि । साधनमस्मदादि । एवमादीनां व्यभिचारो न न्याय्य इति तन्निवृत्तिपरोऽयं नयः । तद्यथा, लिङ्गव्यभिचारस्तावत्-स्त्रीलिङ्गे पुल्लिङ्गाभिधानं तारका स्वातिरिति । पुल्लिङ्गे स्त्र्यभिधानम् अवगमो विद्येति । स्त्रीत्वे नपु सकाभिधानम् वीणा आतोद्यमिति । नपुसके स्त्र्यभिधानम् आयुधं शक्तिरिति । पुल्लिङ्गे नपुंसकाभिधानं पटो वस्त्रमिति । नसके पुल्लिङ्गाभिधानं द्रव्यं परशुरिति । संख्याव्यभिचार:-एकत्वे द्वित्वम्, नक्षत्रं पुनर्वसू इति । एकत्वे बहुत्वम्-नक्षत्रं शतभिषज इति । द्वित्वे एकत्वम्-गोदौ ग्राम इति । द्वित्वे
बहुत्वम्-पुनर्वसू पञ्चतारका इति । बहुत्वे एकत्वम्-आमाः वनमिति । बहुत्वे द्वित्वम्-देव२. मनुष्या उभौ राशी इति । साधनव्यभिचारः-एहि, “मन्ये रथेन यास्यसि, नहि यास्यसि यातस्ते
पितेति । आदिशब्देन कालादिव्यभिचारोगहयते । विश्वदश्वाऽस्य पुत्रो जनिता, भावि कृत्यमासीदिति कालव्यभिचारः । संतिष्ठते प्रतिष्ठते विरमत्युपरमतीति °उपग्र हव्यभिचारः । एवमादयो व्यभिचारा अयुक्ताः । कुतः ? अन्यार्थस्याऽन्यार्थेन संबन्धाभावात् । यदि स्यात्;
घटः पटो भवतु पटो वा प्रासाद इति । तस्माद्यथालिङ्गं यथासंख्यं यथासाधनादि च न्याय्य२५ मभिधानम् । लोकसमयविरोध इति चेत्, विरुध्यताम्, तत्त्वं मीमांस्यते, सुहृत्सूपचारः ।
नानार्थसमभिरोहणात् समभिरूढः ।१०। यतो नानार्थान् समतीत्यैकमर्थमाभिमुख्येन रूढस्ततः समभिरूढः । कुतः ? वस्त्वन्तरासंक्रमण तन्निष्ठत्वात् । कथम् ? अवितर्कध्यानवत् । यथा तृतीयं शुक्लं सूक्ष्मक्रियमवितर्कमवीचारं१३ ध्यानम् "अर्थव्यञ्जनयोगसङक्रान्त्यभावात्
सूक्ष्मकाययोगनिष्ठत्वात्, तथा गौरित्ययं शब्दो वागादिषु वर्तमानो गव्यधिरूढः। एवं शेषे३० ष्वपि रूढिशब्दोऽस्य विषयः । अथवा, 'अर्थगत्यर्थः शब्दप्रयोगः' इति तत्रैकस्यार्थस्यैकेन गतस्वात् पर्यायशब्दप्रयोगोऽनर्थकः । शब्दभेदश्चेदस्ति अर्थभेदेनाप्यवश्यं भवितव्यमिति नानार्थ
१ पत्र वचनविरोधस्तु निरवशेषेत्यादिवचनस्यैवेति न मन्तव्यम्, किन्तु भवदुक्ननीति भवदुक्तवचनान्तरे योजयितु' शक्यत्वेन प्रकृतवचनस्य विरोध इति मन्तव्यम्। २ वचनम् । ३ वचनस्य । ४ वर्तमाने। ५ कृतसंगतः प्रा०, ब०, द०, मु०। ६ ज्ञानम् । ७ उत्तरवेशे गोद इति कश्चिद् ग्रामविशेषः तस्य द्विवचनमिति। ८ रथेन यास्यसीति गमनाभिधानात् प्रहासगतिः, अनेकस्मिन्नपि प्रत्येकमेव परिहास इत्यभिधानवशात् मन्ये इत्येकवचनमेव । -रमत्यपग्रह -मा०,०, द०, मु०, ता०। १० उपसर्ग -ता० टि०। ११ बिचार्यते। १२ उपचारः सहृत्त भवतीत्यर्थः- सम्पा०। १३ वितर्कः श्रतम् । १४ शब्दमनोवाक्काय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org