________________
९९
१।३३ ]
प्रथमोऽध्यायः
समभिरोहणात् समभिरूढः - इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात्पुरन्दर इति । एवं सर्वत्र । अथवा, यो 'यत्राधिरूढः स तत्र समेत्याभिमुख्येनारोहणात् समभिरूढः । यथा क्व भवानास्ते ? स्वात्मनीति । कुतः ? वस्त्वन्तरे वृत्त्यभावात् । यद्यन्यस्यान्यत्र वृत्तिः स्यात्; ज्ञानादीनां रूपादीनां चाकाशे वृत्तिः स्यात् ।
येनात्मना भूतस्तेनैवाऽध्यवसाययतीत्येवंभूतः | ११ | येनात्मना येनाभिधेयेन भूतः शब्द - ५ स्तेनैवाऽध्यवसाययति । यथा इन्द्रशब्दः परमेश्वरत्वाभिधेयः, स परिणामो यत्र यदा वर्तते तत्र तदैव युक्तो न नामस्थापनाद्रव्येषु तत्परिणामाभावात् इति । एवमितरेष्वपि शब्देषु स्वाभिपरिणतिक्षण व युक्तिनन्यिदेति । अथवा, येनात्मना येन स्वरूपेण भूतोऽर्थस्तेनैवाध्यवसाययति, यथा गच्छतीति गौरिति यदैव गच्छति तदैव गौरिति न स्थितो न शयित इति, पूर्वोत्तरकालयोस्तदर्थाभावाद्दण्डवत् । एवमितरेष्वपि । अथवा, येनात्मना येन ज्ञानेन भूतः १० परिणतस्तेनैवाध्यवसाययति यथा इन्द्राग्निज्ञानपरिणत आत्मैवेन्द्रोऽग्निश्चेति एवंभूतार्थप्रत्यायनाच्छब्द एवंभूतः तत्कार्यात्ताच्छब्ध सिद्धेः ।
दाहकत्वाद्यतिप्रसङ्ग इति चेत्, तदव्यतिरेकादप्रसङ्ग इति । १२ ॥ स्यादेतत्-अग्न्यादिव्यपदेशो यद्यात्मनि क्रियते दाहकत्वाद्यतिप्रसज्यते इति उच्यते - तदव्यतिरेकादप्रसङ्गः । तानि नामादीनि येन रूपेण व्यपदिश्यन्ते ततस्तेषामव्यतिरेकः प्रतिनियतार्थं वृत्तित्वाद्धर्माणाम् । ततो १५ आगमभावाग्नौ वर्तमानं दाहकत्वं कथमागमभावाग्नौ वर्तेत ? उक्ता नैगमादयो नयाः ।
उत्तरोत्तरसूक्ष्मविषयत्वादेषां क्रमः पूर्वपूर्वहेतुकत्वाच्च । एवमेते नयाः पूर्वपूर्वविरुदमहाविषया उत्तरोत्तरानुकूलाल्पविषया द्रव्यस्यानन्तशक्तेः प्रतिशक्ति भिद्यमाना बहुविकल्पा जायन्ते' । त एते गुणप्रधानतया परस्परतन्त्राः सम्यग्दर्शनहेतवः पुरुषार्थक्रियासाधनसामर्थ्यात्, तत्वादय इव यथोपायं विनिवेश्यमानाः पटादिसंज्ञाः स्वतन्त्राश्चाऽसमर्थाः । तन्त्वादिवदेव विषम २० उपन्यासः, तन्त्वादयो निरपेक्षा अपि काञ्चिदर्थमात्रां जनयन्ति । भवति हि कश्चित् प्रत्येकं तन्तुस्त्वक्त्राणे समर्थ एकश्च वल्कलो' बन्धने समर्थः । इमे पुनर्नया निरपेक्षाः सन्तः न काञ्चिदपि सम्यग्दर्शनमात्रां प्रादुर्भावयन्तीति । नैष दोषः अभि हितानवबोधात् । अभिहितमर्थमनवबुध्य परेणेदमुपालभ्यते । एतदुक्तं 'निरपेक्षेषु तन्त्वादिषु पटादिकार्य नास्तीति । यत्तु तेनोपदर्शितं न तत् पटादिकार्यम् । किं तर्हि ? तन्त्वादिकार्यम् । तन्त्वादिकार्यमपि तन्त्वाद्यवयवंषु २५ निरपेक्षेषु नास्त्येवेत्यस्मत्पक्षसिद्धिरेव । अथ 'तन्त्वादिषु पटादिकार्य' शक्त्यपेक्षया अस्तीत्युच्यते नयेष्वपि निरपेक्षेषु बुद्धयभिधानरूपेषु कारणवशात् सम्यग्दर्शनहेतुत्वविपरिणतिसद्भावात् शक्त्यात्मनाऽस्तित्वमिति साम्यमेवोपन्यासस्य ।
ज्ञानदर्शनयोस्तत्त्वं नयानां चैव लक्षणम् ।
ज्ञानस्य च प्रमाणत्वमध्यायेऽस्मिन्निरूपितम् ॥ इति । इति तत्त्वार्थवार्तिकव्याख्यानालङकारे प्रथमोऽध्यायः ॥ १ ॥
Jain Education International
जीयाच्चिरमकलङ्कब्रह्मा लघुहव्व नृपतिवरतनयः । अनवरतनिखिल विद्वज्जननुतविद्यः प्रशस्तजनहृद्यः " ॥
१ यत्राभिरू- मु० । २ ते ए-आ०, ब०, ६०, मु० । ३ वल्कजो मु०, श्र०, ता०, मू० । वल्कं वल्कलमस्त्रियाम् श्र० टि० । ४ निरपेक्षषु प्रा०, ब०, ६०, मु० । ५ तन्त्वादिकार्यं श्रा०, ब०, ब०, सु० । ६ - केव्या - श्रा०, ब०, द०, मु०, ता०, श्र० । ७-हब्ब- ता० ८ श्लोकोऽयं नास्ति म० भ० ।
For Private & Personal Use Only
३०
www.jainelibrary.org