________________
द्वितीयोऽध्यायः अत्राह-मोक्षमार्गव्याख्याप्रसङ्गेन सम्यग्दर्शनादीन्युपदिश्यन्ते । तेषां च लक्षणोत्पत्तिविषयनिबन्धादीनि व्याख्यातानि । तत्र तत्त्वार्थश्रद्धानं सम्यग्दर्शन'मुपदिष्टम् । तत्त्वार्थाश्च जीवादयः । तत्रादावु'पदिष्टस्य जीवस्य किं श्रद्धातव्यं यदवधारणप्रतिपत्त्युपासनादिभ्यस्तन्नि
ष्पद्यत इति ? उच्यते-तत्त्वमात्मनः स्वभावः श्रद्धेयः । ५ यद्येवमुच्यतां तदीयं किं तत्त्वमिति ? अत उत्तरं पठतिऔपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥१॥
___ अथवा, प्रमाणनया अनन्तरं विनिर्दिष्टाः । ते च प्रमेयाधिगमरूपाः। प्रमेयाश्च जीवादयः पदार्था इदानीं निर्देष्टव्याः। यद्येवमस्यैव तावदादावुपदिष्टजीवस्य किं तत्त्वमिति ? अत आह-औपशमिकादीति ।
कर्मणोऽनुद्भ तस्वदीर्यवृत्तितोपशमोऽधःप्रापितपडकवत् ॥१॥ यथा सकलुषस्याम्भसः कतकादिद्रव्यसंपर्काद् अधःप्रापितमलद्रव्यस्य तत्कृतकालुष्याभावात् प्रसाद उपलभ्यते, तथा कर्मणः कारणवशादनुद्भ तस्ववीर्यवृत्तिता आत्मनो विशुद्धिरुपशमः ।
क्षयो निवृत्तिरात्यन्तिको ।२। यथा तस्यैवाम्भसोऽधःप्रापितपङकस्य शुचिभाजनान्तरसंक्रान्तस्य प्रसाद आत्यन्तिकः, तथा आत्मनोऽपि कर्मणोऽत्यन्तविनिवृत्तौ विशुद्धिरात्यन्तिकी १५ क्षय इत्युच्यते।
__उभयात्मको मिश्रः क्षोणाक्षीणमदशक्तिकोद्रववत् ॥३॥ यथा प्रक्षालनविशेषात् क्षीणाक्षीणमदशक्तिकस्य कोद्रवस्य द्विधा वृत्तिः, तथा यथोक्तक्षयहेतुसन्निधाने सति कर्मण एकदेशस्य क्षयादेकदेशस्य च वीर्योपशमादात्मनो भाव उभयात्मको मिश्र इति व्यपदिश्यते ।
द्रव्यादिनिमित्तवशात् कर्मणः फलप्राप्तिस्वयः ।।। द्रव्यादिनिमित्तं प्रतीत्य कर्मणो २० विपच्यमानस्य फलोपनिपात उदय इतीमामाख्यां लभते।
द्रव्यात्मलाभमानहेतुकः परिणामः ॥५॥ यस्य भावस्य द्रव्यात्मलाभमात्रमेव हेतुर्भवति नान्यन्निमित्तमस्ति स परिणाम इति परिभाष्यते ।
तत्प्रयोजनत्वादत्तिवचनम् ।६। ते उपशमादयः प्रयोजनमस्येति वृत्तिः क्रियते । स उपशमः प्रयोजनमस्येत्यौपशमिकः, क्षयःप्रयोजनमस्येति क्षायिकः, उदयः प्रयोजनमस्येत्यौदयिक:, २५ परिणामः प्रयोजनमस्येति पारिणामिकः । ते भावा जीवस्य स्वतत्त्वम्-स्वं तत्त्वं स्वतत्त्वम्, स्वो भावोऽसाधारणो धर्मः।
व्याप्तेरौदयिकपारिणामिकग्रहणमादाविति चेत्; न; भव्यजीवधर्मविशेषल्यापनार्थत्वात् आदावोपशमिकादिभाववचनम् ।७। स्यादेतत्-सर्वजीवसाधारणत्वाद् व्याप्तेः औदयिकपारिणा
मिकग्रहणमादौ न्याय्यमिति; तन्नः किं कारणम् ? भव्यजीवधर्मविशेषख्यापनार्थत्वात् । भव्यस्य ३० मोक्षप्रतिपादनार्थो हययं प्रयासः । अतोऽस्य धर्मविशेष औपशमिकादिभाव आदावुच्यते ।
'अत्र चादावीपशमिकवचनं तदादित्वात् सम्यग्दर्शनस्य ।८। सम्यग्दर्शनस्य हि आदिरोप
१-नमुदिष्ट -पा०, 'ब०, २०, मु०। २-बुद दिष्ट -प्रा०, ब०, २०, मु०। ३गताधिकारे। ४-दीनि प्रा०, ब०, मु०, द०। ५ बसः। ६-धः शमित -प्रा०, ब०, मु० । ७-द्रवद्रव्यस्य प्रा०, ब०, ८०, मु०, ता०, मू०। ८ न तु पूर्वोत्तराकारहानोपादानरूपः - सम्पा० । ९ तत्र प्रा० ब०, २०, म०, मू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org