________________
२१] द्वितीयोऽध्यायः
१०१ शमिको भावस्ततः क्षायोपशमिकस्ततः क्षायिक इति, अत औपशमिकस्यादौ ग्रहणं क्रियते ।
अल्पत्वाच्च ।९। अल्पश्चौपशमिको भावः क्षायिकात् क्षायोपशमिकाच्च। कुतोऽल्पत्वम् ? संचयकालस्याल्पत्वात् । तद्यथा-उपशमसम्यग्दर्शनस्य कालोऽन्तर्मुहूर्तः, सोऽन्तर्मुहूर्तोऽसंख्येयाः समयाः। तत्र समये समये नैरन्तर्येण संचीयमाना उपशमसम्यग्दृष्टय आ अन्तर्मुहूर्तसमाप्तः पल्योपमाऽसंख्येयभागप्रमाणा इति सर्वेभ्योऽल्पे ।
ततो विशुद्धिप्रकर्षयुक्तत्वात् क्षायिकः।१०। औपशमिकाद्धि क्षायिकः प्रकृष्टशुद्धयुपतो मिथ्यात्वसम्यङमिथ्यात्वसम्यक्त्वानां साकल्येन संक्षयात, तत औपशमिकात परं क्षायिकवचनम् ।
बहुत्वाच्च ।११। बहवो हि क्षायिकसम्यग्दृष्टय औपशमिकसम्यक्त्वेभ्यः' । कुतः ? गुणकारविशेषात् । को गुणकारः ? आवलिकाया असंख्येयभागः, सोऽसंख्येयाः समयाः । १० कुतः ? असंख्येयस्य राशेरसंख्येया एव भेदा इति । तत आवलिकाया असंख्येयभागेन गुणिता उपशमसम्यग्दृष्टयः क्षायिकसम्यग्दृष्टीन् प्राप्नुवन्ति । कुतः ? संचयकालस्य महत्त्वात् । इह क्षायिकसम्यग्दृष्टेस्त्रयस्त्रिशत्सागरोपमाणि सातिरेकाणि कालः, तस्य प्राथमिकसमयादारभ्य समये समये संचीयमाना आ तत्कालपरिसमाप्तेर्बहवो भवन्ति ।
तवसंख्येयगुणत्वात्तदनन्तरं मिश्रवचनम् ॥१२॥ क्षायिकादसंख्येयगुणः क्षायोपशमिकः, १५ द्रव्यतो न भावतः । क्षायोपशमिकाद्धि क्षायिको भावतोऽनन्तगुणः, विशुद्धिप्रकर्षयोगान्, तस्माद् द्रव्यतोऽसंख्येयगुणः क्षायिकात् क्षायोपशमिकः । कुतः ? गुणकारविशेषात् । को गुणकार: ? आवलिकाया असंख्येयभागः । कुतः ? संचयकालस्य महत्त्वात् । इह क्षायोपशमिक सम्यग्दृष्टः षट्क्षष्टिसागरोपमाणि पूर्णानि कालः, तस्य प्रथमसमयादारभ्य समये समये संचीयमानाः क्षायोपशमिकसम्यग्दृष्टय आ तत्कालपरिसमाप्तभू यांसो भवन्ति ।
२० तदनन्तगुणत्वादन्ते द्वयवचनम् ।१३। तेषां सर्वेषामेवानन्तगुणा औदयिकाः पारिणामिकाश्च, ततोऽन्ते तेषां वचनं क्रियते ।।
तैरेव चात्मनः समधिगमात् ।१४। अतीन्द्रियत्वादात्मनो मनुष्यतैर्यग्योनादिभिरौदयिकैः पारिणामिकैश्च चैतन्यजीवत्वादिभिः समधिगमो भवति ।।
सर्वजीवतुल्यत्वाच्च ।१५। सर्वेषां हि जीवानां तुल्या औदयिकाः पारिणामिकाश्च २५ ततस्तेषामन्ते वचनं न्याय्यम् ।।
तत्त्वमिति बहुवचनप्रसङग इति चेत्, न; भावस्यकत्वात् ।१६। स्यादेतत्-औपशमिकादिपञ्चतयभावसामानाधिकरण्यात्तत्त्वस्य बहुवचनं प्राप्नोतीति; तन्न; किं कारणम् ? भावस्यैकत्वात्, 'तत्त्वम्' इत्येष एको भावः । . १ बसः । बहुब्रीहिसमासः । २ तथाहि-पूर्वकोट्यायुमनुष्यो गर्भाधष्टवर्षादुपरि प्रथमोपशमसम्ाग्दृष्टिभूत्वा अन्तमहूतं स्थित्वा पश्चात् वेदकसम्यादृष्टिः सन् मनुष्यायुष्यमनुभूय लान्तवकल्पे उपरिममनुष्यायुष्यपूर्वकोटिहोनत्रयोदशसागराण्यनूभूय पूर्वकोटचायुमनुष्यो भूत्वा गर्भाद्यष्टमवर्षादुपरि संयम स्वीकृत्य पूर्वकोटयन्ते अच्युतकल्पे उपरिमपूर्वकोटघायुष्यहीनद्वाविंशतिसागरोपमाण्यनुभूय पूर्वकोटचायुर्मनुष्यो भूत्वा अष्टव दुपरि संयम गृहीत्वा मनुष्यायुष्यमनुभूरा उपरिमवेयके उपरिमपूर्वकोटचायुहीन-एकत्रिशत्सागरोपमाण्यनभय पूर्वकोटचायुमंतुष्यो भत्वा अष्टवर्षादुपरि दर्शनमोहनीयक्षपणे चरमसमये । एतदुक्तं सर्व षट्षष्टिसागरोपमाणि स्यः। उक्तञ्च-लांतवकप्पे तेरस अच्चु दकप्पे य होंति बाबीसा। उपरिमएक्कतीसं एवं सव्वाणि छावट्ठी ॥ इति -श्र० टि० । ३ प्राप्नोति तन्न श्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org