________________
तत्त्वार्थवार्तिके
[२१ - फलभेदान्नानात्वमिति चेत्, न; स्वात्मभावभेदस्याऽविवक्षितत्वात् 'गावो धनम्' इति यथा ।१७। स्यादेतत्-औपशमिकादिपञ्चरतयतत्त्वफलभेदाद्भावनानात्वमिति; तन्न; किं कारणम् ? स्वात्मभावभेदस्याऽविवक्षितत्वात्, यथा गावो धनमिति । धिनोतेर्धनम्, तच्चकत्वेन विवक्षितं तथा तत्त्वमिति ।
प्रत्येकमभिसंबन्धाच्च ।१८। एकत्वमुपपद्यते । औपशमिको भावः स्वतत्त्वमित्यादि।
द्वन्द्वनिर्देशो युक्त इति चेत् नः उभयधर्मव्यतिरेकेणाऽन्यभावप्रसङगात् ।१९। स्यान्मतम्द्वन्द्वनिर्देशोऽत्र युक्तः-'औपशमिकक्षायिकमिश्रौदयिकपारिणामिकाः' इति । तत्रायमप्यर्थो द्विश्चशब्दो न कर्तव्यो भवतीति; तन्न; किं कारणम् ? उभयधर्मव्यतिरेकेणान्यभावप्रसङ्गात् ।
'उभाभ्यां व्यतिरेकेणान्यो भावः प्राप्नोति, चशब्दे पुनः सति पूर्वोक्तानुकर्षणार्थो (र्थे) युक्तो १० भवति ।
क्षायोपशमिकग्रहणमिति चेत्; न; गौरवात् ।२०। यद्येवं क्षायोपशमिकग्रहणमेव कर्तव्यमन्यभावनिवृत्त्यर्थम्; तन्न; किं कोरणम् ? गौरवात् । तथा सति सूत्रस्य गौरवं स्यादिति ।
__ मध्ये मिश्रवचनं पूर्वोत्तरापेक्षार्थम् ।२१३ मध्ये मिश्रवचनं क्रियते पूर्वोत्तरापेक्षार्थम् । किमपेक्षायां प्रयोजनम् ? भव्यानामौपशमिकक्षायिकौ भावौ सम्यक्त्वचारित्राख्यौ क्षायोपश१५ मिकाश्च ज्ञानदर्शनचारित्रभावाः । औदयिकपारिणामिका अभव्यानामपि क्षायोपशमिका
श्चेति । तत्र चाभव्यानां भव्यानां च मिथ्यादृष्टीनां चारित्रादृते क्षायोपशमिका ज्ञानदर्शनविकल्पाः ।
'जोवस्य' इति वचनम् अन्यद्रव्यनिवृत्त्यर्थम् ॥२२॥ जीवस्येदं स्वतत्त्वं नान्यस्येति ।
स्वभावपरित्यागापरित्यागयोः शून्यताऽनिर्मोक्षप्रसङग इति चेत्, न; आदेशवचनात् ।२३। २० इदमिह संप्रधार्यम्-आत्मा औपशमिकादिभावपरित्यागी वा स्यात्, अपरित्यागी वा?
किञ्च, अतो यदि तावत् परित्यजति; शून्यता प्राप्नोति आत्मनः, स्वभावाभावाद् अग्नेरोष्ण्यस्वभावपरित्यागेऽभाववत् । अथाऽपरित्यागी; क्रोधादिस्वभावापरित्यागादात्मनोऽनिर्मोक्षः प्राप्नोतीति । तन्नः किं कारणम् ? आदेशवचनात् । अनादिपारिणामिकचैतन्यद्रव्यार्थादेशात्
स्यात् स्वभावाऽपरित्यागी, आदिमदौदयिकादिपर्यायार्थादेशात् स्यात् स्वभावपरित्यागी २५ इत्यादि सप्तभङ्गी पूर्ववत् । यस्यैकान्तेन स्वभावपरित्यागः स्यादपरित्यागो वा; तस्य यथोक्तदोषः स्यात्, नानेकान्तवादिनः ।
अप्रतिज्ञानात् ।२४। नैतत्प्रतिजानीमहे-'स्वभावपरित्यागादपरित्यागाद्वा मोक्षः' इति । किं तहि ? अष्टतयकर्मपरिणामवशीकृतस्यात्मनः द्रव्यादिबाह्यनिमित्तसन्निधाने सत्याभ्यन्तर
सम्यग्दर्शनादिमोक्षमार्गप्रकर्षावाप्ती कृत्स्नकर्मसंक्षयात् मोक्षो विवक्षितस्ततो न दोषः । न ३० चाग्नेरुष्णस्वभावपरित्यागऽप्यभावः । कस्मात् ? द्रव्यार्थावस्थानात् । पुद्गलद्रव्यस्य हि पर्याय उष्णभावः, तस्याभावेऽपि सदचेतनत्वादिभिरवस्थानम् । किञ्च,
कर्मसन्निधाने तदभावे चोभयभावविशेषोपलब्धेर्नेत्रवत् ।२५। यथा नेत्रं रूपोपलब्धिस्वभावकं यदा रूपं नोपलभते तदा रूपोपलब्धिस्वभावपरित्यागात् न नास्ति, यथा वा क्षायोप
१-तयत्वफ-पा०, ब०, २०, मु० । २ औपशमिकक्षायिकाभ्याम् -सम्पा०। ३ -त् गौ-पा०, ब०, ८०, मु०। ४ -नं क्रियते पू-ग्रा०, ब०, ८०, मु०। ५-स्वभावं य -प्रा०, ब०, ८०, मु०। ६-गान्नास्त्यभावो यथा प्रा०, ब० म०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org