________________
રાર 1
द्वितीयोऽध्यायः
शमिकत्वे रूपोपलब्धिस्वभावस्य नेत्रस्य संक्षीणसकलावरणे केवलिनि मतिज्ञानाभावान्नेत्रात्मकस्य रूपोपलब्धिस्वभावस्य परित्यागेऽपि द्रव्यनेत्रावस्थानान्न नेत्राभावः तथा कर्मनिमित्तानामौदयिकादीनामभावेऽपि क्षायिकभावसन्निधानादात्मनो नाभावो विशेषोपलब्धेरिति ।
अत्राह - तस्यात्मनो ये भावा औपशमिकादयस्ते किं भेदवन्त उताऽभेदा इति ? अत्रोच्यते - भेदवन्तः । यद्येवं ते उच्यतां कति भेदा इति ? अत उत्तरं पठति
द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥
१०३
कोऽयं निर्देश: ?
द्वयादीनां कृतद्वन्द्वानां भेदशब्देन वृत्तिः | १| द्वौ च नव चाष्टादश चैकविंशतिश्च त्रयश्च द्विनवाष्टादशैकविंशतित्रय इति द्वन्द्वे कृते पश्चाद्भेदशब्देन वृत्तिरियं वेदितव्या । ननु चेतरे - तरयोगे द्वन्द्वः । स च तुल्ययोगे भवति । न चात्र तुल्ययोगोऽस्ति । कथम् ? द्वयादयः शब्दाः १० संख्येयप्रधाना एकविंशतिशब्दः संख्यानप्रधान इति । नैष दोषः; संख्याशब्दानाममीषां संख्येयप्रधानत्वेऽपि निमित्तानुविधानात् संख्यानेऽपि वृत्तिर्भवति । प्रधानं हि किञ्चिन्निमित्तमपेक्ष्य 'गुणमनुविधत्ते । यथा प्रधानभूतोऽपि राजा मन्त्रिणं गुणमाश्रयते, तत्प्रयुक्तक्रियाफलार्थित्वात् तस्य प्राधान्यमप्यनुजानातीति । अस्त्ययं तर्काश्रयः समाधिः ` लक्षणशास्त्रेण तु विरुध्यते, एवं तत्रोक्तम् - *" एकादयः प्राविशतेः संख्येयप्रधानाः, विंशत्यादयस्तु कदाचित् संख्यानप्रधानाः १५ कदाचित्संख्येयप्रधानाः" ] इति । यदि च द्वयादयः संख्यानेऽपि वर्तेरन् विंशत्यादिभिस्तुल्याः स्युः । तत्र को दोषः ? संबन्धिनि' व्यतिरेकनिमित्तविभक्तिश्रवणं स्यात्" "स्वतश्च संख्यानस्यैकत्वादेकवचनं श्रूयेत 'विंशतिर्गवाम्' इति यथा । ननु च ' तत्रैव संख्याने वृत्तिरुपलभ्यते * ''द्वयेकयो: " [पा० सू० १/४/२२ ] इति; नासौ संख्याने प्रयोगः, किं तर्हि उपसर्जनावयवे समुदाये" प्रयोगः यथा 'बहुशक्तिकिटकम् " इति । संख्याप्रधानत्वेऽपि तद्विषयत्वमेव 'अन्तरे - २० णापि भावप्रत्ययं गुणप्रधानो भवति निर्देशः ।" [ पात० महा० १।४।२१] इति । एवं तहि द्वयादयः शब्दाः संख्येयप्रधाना एव, एकविंशतिशब्दोऽपि संख्येयवृत्तिः परिगृहयत इति तुल्ययोगोपपत्तेर्युक्तो द्वन्द्वः ।
भेदशब्देन किं स्वपदार्था वृत्तिः, आहोस्विदन्यपदार्था ? स्वपदार्थप्रधाना । कथम् ? *"विशेषणं विशेष्येण " [पा० सू० २।१।५७ ] इति । द्विनवाष्टादशैकविंशतित्रय एव भेदा द्विनवाष्टाद- २५ त्रिभेदा इति । ननु च 'द्वियमुनम्' इत्येवमादिषु पूर्वपदार्थप्रधाना वृत्तिरिति द्वयादीनां विशेष्यत्वमुक्तं तेन भेदशब्दस्य विशेषणत्वे सति पूर्वनिपातः प्राप्नोति ? नैष दोषः; सामान्योपक्रमे विशेषाभिधाने तदुक्तम् । के ? 'द्वे यमुने' इति । 'यमुने' इति हयुक्ते द्विशब्दप्रयोग एवानर्थक इति । इह तु बहुत्वात् सन्देहः - 'भेदाः' इत्युक्ते 'कति' इति । द्विनवाष्टादशैकवि'शतित्रयः' इति चोक्ते 'के ते' इति । अत उभयव्यभिचाराद्विशेषणविशेष्ययोर्यथेष्टत्वात् ३० द्वयादीनां गुणशब्दत्वाच्च विशेषणत्वं विवक्षितम् । अथवा, पुनरस्त्वन्यपदार्था वृत्तिः - द्विन
१ प्रधानम् । २ परिहारः । ३ सम्बन्धिनां व्य- आ०, ब०, द०, मु० । ४ कुतः ? ५ स्वभावतः । ६ संख्येयप्रधानद्वयादिष्वेव । लक्षणशास्त्रे एव - सम्पा० । ७ समुदये श्र०, ता० । ८ किटि वृन्दम्, बहुज्ञक्तयः किटयो वराहा यस्मिन् वने तत्तयोक्तम्, दंष्ट्री: घोणी स्तब्धरोमा कोडो भूदार इत्यपि । बराहः शूकरो वृष्टिः कोलः पोत्री किरिः किटिः ॥ इत्यमरः । - क्तिः कोट - प्रा०, ब०, द० म० । & संख्येय । १० अथ पुन -प्रा०, ब०, द० मु० ।
Jain Education International
५
For Private & Personal Use Only
www.jainelibrary.org