________________
[२२३
१०४
तत्त्वार्थवार्तिके वाष्टादशैकविंशतित्रयो भेदा येषां त इमे द्विनवाष्टादशैकविंशतित्रिभेदाः इति । अत्र हि संख्याशब्दस्य विशेष्यत्वेऽपि *"सर्वनामसंख्ययोरुपसंख्यानम्" [पा० सू० वा० २।२।३५] इति संख्यायाः पूर्वनिपातः । पूर्वस्मिन् अर्थवशाद्विभक्तिपरिणाम इत्यौपशमिकादीनामित्यभिसंबन्धः, उत्तरत्र पठितक्रमणैव ।
भेदशब्दस्य प्रत्येक परिसमाप्ति जिवत् ।२। यथा देवदत्तजिनदत्तगुरुदत्ता भोज्यन्तामिति प्रत्येकं भुजिः परिसमाप्यते, एवं भेदशब्दस्यापि प्रत्येक परिसमाप्तिर्वेदितव्या द्विभेद नवभेद इत्यादि।
यथानिर्दिष्टौपशमिकादिभावाभिसंबन्धार्थ द्वचादिक्रमवचनम् ।३। क्रमः आनुपूर्व्यम्, यो यः क्रमो यथाक्रमम् । यथा औपशमिकादयो भावा निर्दिष्टास्तथैव द्वयादिभिरभिसंबन्धः १० कथं स्यादिति 'यथाक्रमम्' इत्युच्यते ।।
___ तत्रानिर्धारितसंख्येयानां द्वयादीनां संख्याशब्दानां प्रतिविशिष्टाभिधेयनिर्देशे प्राप्तकाले सति यौगपद्यासंभवात् योऽसावादावुपदिष्ट औपशमिको भावस्तद्भेदप्रदर्शनार्थमाह
सम्यक्त्वचारित्रे ॥३॥
१५
व्याख्यातलक्षणे सम्यक्त्वचारित्रे । औपशमिकत्वं कथमिति चेत् ? उच्यते
सप्तप्रकृत्युपशमादौपशमिकं सम्यक्त्वम् ।१। अनन्तानुबन्धिनः कषायाः क्रोधमानमायालोभाश्चत्वारः चारित्रमोहस्य, मिथ्यात्वसम्यङमिथ्यात्वसम्यक्त्वानि त्रीणि दर्शनमोहनीयस्य। आसां सप्तानां प्रकृतीनामुपशमादौपशमिकं सम्यक्त्वमिति ।
अनादिमिथ्यादृष्टे व्यस्य कमों दयापादिते कालुष्ये सति कुतस्तदुपशमः ?
काललब्ध्याद्यपेक्षया तदुपशमः ।२। काललब्ध्यादीन् प्रत्ययानपेक्ष्य तासां प्रकृतीनामुपशमो भवति । तत्र काललब्धिस्तावत्-कर्माविष्ट आत्मा भव्यः कालेऽर्धपुद्गलपरिवर्तनाख्येऽवशिष्ट प्रथमसम्यक्त्वग्रहणस्य योग्यो भवति नाधिक इतीयं काललब्धिरेका । अपरा कर्मस्थितिका काललब्धि:-उत्कृष्टस्थितिकेषु कर्मसु जघन्यस्थितिकेषु च प्रथमसम्यक्त्वलाभो न भवति । क्व तर्हि भवति ? अन्तःकोटिकोटिसागरोपमस्थितिकेषु कर्मसु बन्धमापद्यमानेषु, 'विशुद्धिपरिणामवशात् सत्कर्मसु च ततः संख्येयसागरोपमसहस्रोनायामन्तःकोटिकोटिसाग२५ रोपमस्थितौ स्थापितेषु प्रथमसम्यक्त्वयोग्यो भवति । तथाऽपरा काललब्धिर्भवापेक्षा, सा
वक्ष्यते । आदिशब्देन जातिस्मरणादयः परिगृहयन्ते । स पुनर्भव्यः पञ्चेन्द्रियः संज्ञी मिथ्यादृष्टि: पर्याप्तकः सर्वविशुद्धः 'प्रथमसम्यक्त्वमुत्पादयति । उत्पादयन्नसौ अन्तर्मुहूर्तमप°वर्तयति, अपवर्त्य च मिथ्यात्वकर्म त्रिधा विभजते-सम्यक्त्वं मिथ्यात्वं सम्यङमिथ्यात्वं चेति ।
१-मोहस्य प्रा०, ब०, २०, मु०। २ किञ्चिन्यून। ३ विशुद्ध- मु०। ४ विद्यमानेषु, प्रारबद्धकर्मस्थितिरिति यावत् । ५ भावा-प्रा०, ब०, २०, मु, म०। ६ शिक्षाक्रियालापोपदेशमाही। ७ सम्पूर्णाहारशरीरन्द्रियोच्छ्वासभाषामनःपर्याप्तिः। प्रथमं स -प्रा०, ब०, द०, ६ अत्रोपयोग्यार्योक्ता-मिथ्यावृष्टिर्भव्यो द्विविधः संज्ञी समाप्तपर्याप्तः। लब्धिचतुष्टययुक्तोड्यन्तविशुद्धश्चतुर्गतिजः॥ जाग्रदवस्थावस्थः साकारात्मोपयोगसंयुक्तः । योग्यस्थित्यनुभवभाक् सल्लेश्यावृद्धियुक्तश्च ॥ त्रिकरणशुद्धि कृत्वाप्यन्तरमुत्पाटितत्रिदलमोहः। .."स्पाचं वर्शनमनन्तसंसारबिच्छेवी ॥ १०-मेव वर्तयति प्रा०, ब०, २०, मु०। -मववर्तयति अववर्य च म० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org