________________
२४
द्वितीयोऽध्यायः दर्शनमोहनीयं कर्मोपशमयन् क्वोपशमयति ? चतसृषु गतिषु । तत्र नारकाः प्रथमसम्यक्त्वमुत्पादयन्तः पर्याप्तका उत्पादयन्ति नापर्याप्तकाः। पर्याप्तकाश्चान्तमुहूर्तस्योपरि उत्पादयन्ति नाधस्तात् । एवं सप्तसु पृथिवीषु । तत्रोपरि तिसृषु पृथिवीषु नारकास्त्रिभिः कारणैः सम्यक्त्वमुपजनयन्ति-केचिज्जाति स्मृत्वा केचिद्धर्म श्रुत्वा केचिद्वेदनाभिभूताः । अधस्तात् चतसृषु पृथिवीषु द्वाभ्यां कारणाभ्याम्-केचिज्जाति स्मृत्वा अपरे वेदनाभिभूताः। तिर्यञ्चश्चो- ५ त्पादयन्तः पर्याप्तका उत्पादयन्ति नापर्याप्तकाः । पर्याप्तकाश्च दिवसपृथक्त्वस्योपरि नाधस्तात् । एवं सर्वेषु द्वीपसमुद्रेषु । तिरश्चां त्रिभिः कारणैः सम्यक्त्वस्योत्पत्तिः-केचिज्जाति स्मृत्वा अपरे धर्म श्रुत्वा अन्ये जिनबिम्बं दृष्ट्वा । मनुष्या उत्पादयन्तः पर्याप्तका उत्पादयन्ति नापर्याप्तकाः। पर्याप्तकाश्चाऽष्टवर्षस्थितेरुपर्युत्पादयन्ति नाधस्तात् । एवमर्धतृतीयद्वीपसमुद्रेषु । तेषां त्रिभिः कारणैः सम्यक्त्वस्योत्पत्तिः-केषाञ्चिज्जातिस्मरणाद् अपरेषां धर्म- १० श्रवणाद् अन्येषां जिनबिम्बदर्शनात् । देवाः सम्यक्त्वमुत्पादयन्तः पर्याप्तका उत्पादयन्ति नापर्याप्तकाः । पर्याप्तकाश्चान्तर्मुहूर्तस्योपरि नाधस्तात् । एवमा 'उपरिमप्रैवेयकेभ्यः । देवा भवनवास्यादय आसहस्रारकल्पाच्चतुभिः कारणैः प्रथमसम्यक्त्वं लभन्ते-केचिज्जातिस्मरणेन इतरे धर्मश्रवणेन अपरे जिनमहिमावेक्षणेन अन्ये देवधिनिरीक्षणेन । आनतप्राणतारणाच्युतेषु तैरेव देवधिविरहितः । नवसु ग्रैवेयकेषु द्वाभ्यां कारणाभ्याम्-जातिस्मरणाद्धर्मश्रवणाच्च । १५ उपरि देवा नियमन सम्यग्दष्टयः ।
अष्टाविंशतिमोहविकल्पोपशमादौपशमिकं चारित्रम् ।३। अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाः षोडश कषायाः, हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुनपुसकवेदभेदा नव नोकषाया इति, एवं चारित्रमोहः पञ्चविंशतिविकल्पः । मिथ्यात्वसम्यमिथ्यात्वसम्यक्त्वभेदात् त्रितयो दर्शनमोहः । एषामष्टाविंशतिमोहविकल्पानामुपशमादौपशमिकं चारित्रम्। २०
सम्यक्त्वस्यादौ वचनं तत्पूर्वकत्वाच्चारित्रस्य ।४। पूर्व हि सम्यक्त्वपर्यायेणाविर्भाव आत्मनस्ततः क्रमाच्चारित्रपर्याय आविर्भवतीति सम्यक्त्वस्यादौ ग्रहणं क्रियते । यः क्षायिको भावो नवविध उद्दिष्टः 'तस्य भेदस्वरूपप्रतिपादनार्थमाह
ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ चशब्देन सम्यक्त्वचारित्रे समुच्चीयते ।
ज्ञानदर्शनावरणक्षयात् केवले क्षायिके ॥१॥ ज्ञानावरणस्य कर्मणः दर्शनावरणस्य च कृत्स्नस्य क्षयात् केवले ज्ञानदर्शने क्षायिके भवतः ।
अनन्तप्राणिगणानुग्रहकर सकलदानान्द्रराय संक्षयादभयदानम् ।२। दानान्तरायस्य कर्मणोऽत्यन्तसंक्षयादाविर्भूतं त्रिकालगोचरानन्तप्राणिगणानुग्रहकरं क्षायिकमभयदानम् ।
अशेषलाभान्तरायनिरासात् परमशुभपुद्गलानामादानं लाभः ।३। लाभान्तरायस्याशेष- ३० निरासात् परित्यक्तकवलाहारक्रियाणां केवलिनां यतः शरीरबलाधानहेतवोऽन्यमनुजासाधारणाः परमशुभाः सूक्ष्मा अनन्ताः प्रतिसमयं पुद्गलाः संबन्धमुपयान्ति स क्षायिको लाभः ।
१ पृथ्वीषु ता०, श्र० । २ मुख्यवृत्या भोगभूमिजापेक्षया। ३ सम्यक्त्वोत्पत्तिः श्र० । ४ उपरिप्रे५०, मू०।५-वेदा नव प्रा०, ब०, २०, मु०, ता० । ६ तद्भवस्व-प्रा०, ब०, मु०। ७-स्य च क्षप्रा०, ब०, मु०, २०, ता०। ८ तथा चोक्तम्- केवलदर्शनबोधौ समस्तवस्तुप्रकाशिनौ युगपत् । दिनकृतप्रकाशतापवावरणाभावतो नित्यम् ॥ इति । ९-यक्षया-पा०, ब०, २०, मु०, ता० ।
२५
नावरणस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org