________________
१०६
तत्त्वार्थवार्तिके
[ २५
तस्मात् *“औदारिकशरीरस्य किञ्चिन्न्यूनपूर्वकोटिवर्षस्थितिः कवलाहारमन्तरेण कथं संभवति " ] इति यद्वचनं तदशिक्षितकृतं विज्ञायते ।
[
कृत्स्नभोगान्तरायतिरोभावात् परमप्रकृष्टो भोगः ॥ ४ ॥ कृत्स्नस्य भोगान्तरायस्य तिरोभावादाविर्भूतोऽतिशयवाननन्तो भोगः क्षायिकः । यत्कृताः पञ्चवर्णसुरभिकुसुमवृष्टि-विविध५ दिव्यगन्ध-चरणनिक्षेपस्थानसप्तपद्मपङक्ति-सुगन्धिधूप- सुखशीतमारुतादयो भावाः ।
निरवशषोपभोगान्तरायप्रलयादनन्तोपभोगः क्षायिकः | ५ | निरवशेषस्योपभोगान्तरायकर्मणः प्रलयात् प्रादुर्भूतोऽनन्त उपभोगः क्षायिकः । यत्कृताः सिंहासन वालव्यजनाशोकपादपछत्रत्रय-प्रभामण्डल-गम्भीरस्निग्धस्वरपरिणाम- देवदुन्दुभिप्रभृतयो भावाः ।
वीर्यान्तरायात्यन्तसंक्षयादनन्तवीर्यम् | ६| आत्मनः सामर्थ्यस्य प्रतिबन्धिनो वीयान्तराय१० कर्मणोऽत्यन्तसंक्षयादुद्भूतवृत्ति क्षायिकमनन्तवीर्यम् ।
१५
पूर्वोक्तमोहप्रकृतिनिरवशेषक्षयात् सम्यक्त्वचारित्रे |७| पूर्वोक्तस्य दर्शनमोहत्रिकस्य चारित्रमोहस्य च पञ्चविंशतिविकल्पस्य निरवशेषक्षयात् क्षायिके सम्यक्त्वचारित्रे भवतः ।
यद्यनन्तदानलब्ध्यादय उक्ता अभयदानादिहेतवो दानान्तरायादिसंक्षयाद्भवन्ति' सिद्धेष्वपि तत्प्रसङ्गः; नैष दोषः; शरीर नामतीर्थकरनामकर्मोदयाद्यपेक्षत्वात्तेषां तदभावे तदप्रसङ्गः, 'परमानन्दाव्याबाधरूपेणैव तेषां तत्र वृत्तिः, केवलज्ञानरूपेण अनन्तवीर्य वृत्तिवत् ।
सिद्धत्वमपि क्षायिकमागमोपदिष्टमस्ति तस्योपसंख्यानमिह कर्तव्यम् ? न कर्तव्यम्; विशेषेषु निर्दिष्टेषु तद्विषयं सामान्यमनुक्तसिद्धमेव पर्वादिनिर्देशे अङ्गुलिसिद्धिवत् । सिद्धत्वं हि सर्वेषां क्षायिकाणां भावानां साधारणमिति ।
य उक्तः क्षायोपशमिको भावोऽष्टादशविकल्पस्तद्भेदनिरूपणार्थमाह
२० ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च | ५ | चतुरादीनां कृतद्वन्द्वानां भेदशब्देन वृत्तिः ॥ १॥ चत्वारश्च त्रयश्च त्रयश्च पञ्च च चतुस्त्रित्रिपञ्च ते भेदाः यासां ताश्चतुस्त्रित्रिपञ्चभेदा इति द्वन्द्वगर्भा वृत्तिः । त्रिशब्दस्य द्वन्द्वापवाद एकशेषः कस्मान्न भवति ? "संख्यया अर्थासंप्रत्ययाद् अन्यपदार्थत्वाच्चानेकशेषः, पृथगभिधाने प्रयोजनसद्भावाच्च ।
२५
यथाक्रमवचनं ज्ञानादिभिरानुपूर्व्यसंबन्धार्थम् |२| इह यथाक्रममिति वक्तव्यम् । प्रयोजनम् ? चतुर्भेदं ज्ञानमित्येवमाद्यभिसंबन्धार्थं तत्तर्हि वक्तव्यम्; न वक्तव्यम्; यथाक्रममित्यनुवर्तते । क्व प्रकृतम् ? * द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम्" [त० सू० २ २] इति । कस्य क्षयात् कस्य चोपशमात् क्षायोपशमिको भावो भवतीति ? उच्यते-सर्वघातिस्पर्धकानामुदयक्षयात्तेषामेव 'सदुपशमाद्देशघाति स्पर्धकानामुदये क्षायोपशमिको ३० भावः ॥३॥ द्विविधं स्पर्धकम् - देशवातिस्पर्धकं सर्वधातिस्पर्धकं चेति । तत्र यदा सर्ववातिस्पकस्योदय भवति तदेषदप्यात्मगुणस्याभिव्यक्तिर्नास्ति तस्मात्तदुदयस्याभावः
१ तहि । २ शरीरनामकर्मो - श्रा०, ब०, मु० । ३ परमानन्ताव्या- आ०, ब०, ब०, म०, मू० । ४ तेषां च तत्र आ०, ब०, द०, मु० । प्रभयदानादीनाम् । ५ संख्याया श्रर्थासंप्रत्ययावस्थाप- ता०, श्र०, मू०, ज० । ६ संश्चासौ उपशमश्च तस्मात् । ७ घातिकर्माणि सर्वघातीनि देशघातीनीति द्विविधानि भवन्ति, तत्र सर्वघातीनि केवलणाणावरणं दंसणछक्कं कसायवा रसयं । मिच्छं च सव्वघादी सम्मामिच्छ प्रबंधुदये ॥ णाणावरणच उनके तिवंसणं सम्मगं च संजलणं । णव णोकसायविग्धं छब्बीसा बेसधादीओ ॥
Jain Education International
क्षय
For Private & Personal Use Only
www.jainelibrary.org