SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ २५] १०७ इच्युच्यते । तस्यैव सर्वघातिस्पर्धकस्यानुदयप्राप्तस्य सदवस्था उपशम इत्युच्यते अनुद्भूतस्ववीर्यवृत्तित्वात्, आत्मसाद्भावितसर्वघातिस्पर्धकस्योदयक्षये देशघातिस्पर्धकस्य चोदये सति 'सर्वघाताभावादुपलभ्यमानो भावः क्षायोपशमिक इत्युच्यते । किमिदं स्पर्धकं नाम ? उच्यते द्वितीयोऽध्यायः " अविभागपरिच्छिन्नकर्मप्रदेशरस 'भागप्रचय'पङक्तेः क्रमवृद्धिः क्रमहानिः स्पर्धकम् |४| उदयप्राप्तस्य कर्मणः प्रदेशा अभव्यानामनन्तगुणाः सिद्धानामनन्तभागप्रमाणाः । तत्र सर्वजघन्यगुणः प्रदेशः परिगृहीतः, तस्यानुभागः प्रज्ञाछेदेन 'तावद्धा परिच्छिन्नः यावत्पुनर्विभागो न भवति । ते अविभागपरिच्छेदाः सर्वजीवानामनन्तगुणाः, एको राशिः कृतः । एवं तत्प्रमाणाः सर्वे तथैव परिच्छिन्नाः पङ्क्तीकृता वर्गाः वर्गणा । अपर एकाविभागपरिच्छेदाधिकः प्रदेशः परिगृहीतः तथैव तस्याविभागपरिच्छेदाः कृताः । स एको 'राशिर्वर्गः । तथैव समगुणाः पङ्क्तीकृताः १० वर्ग वर्गणा । एवं पक्तयः कृता यावदेकाविभागपरिच्छेदाधिकला भम् । तदलाभे अन्तरं भवति । एवमेतासां पक्तीनां' विशेषहीनानां क्रमवृद्धिक्रमहानियुक्तानां समुदयः स्पर्धकमित्युच्यते । तत उपरि द्वित्रिचतुः संख्ये या संख्येयगुणरसा न लभ्यन्ते अनन्तगुणरसा एव । तत्रैकप्रदेशो जघन्यगुणः परिगृहीतः, तस्य चानुभागाविभागपरिच्छेदाः पूर्ववत्कृताः । एवं समगुणा वर्गाः समुदिता वर्गणा भवति । एकाविभागपरिच्छेदाधिकाः पूर्ववद्विरलीकृता वर्गा वर्गणाश्च १५ भवन्ति यावदन्तरं भवति तावदेकं स्पर्धकं भवति । एवमनेन क्रमेण विभागे क्रियमाणेऽभव्यानामनन्तगुणानि सिद्धानामनन्तभागप्रमाणानि स्पर्धकानि भवन्ति । तदेतत्समुदितमेकमुस्थानं भवति । तत्र ज्ञानं चतुविधं क्षायोपशमिकमाभिनिबोधिकज्ञानं श्रुतज्ञानमवधिज्ञानं मन:पर्ययज्ञानं चेति |५| वीर्यान्तरायमतिश्रुतज्ञानावरणानां सर्वघातिस्पर्धकानामुदयक्षयात् सदुपशमाच्च २० देशघातिस्पर्धकानामुदये" मतिज्ञानं श्रुतज्ञानं च भवति । देशघातिस्पर्धकानां रसस्य प्रकर्षा - प्रकर्षयोगाद् गुणघातस्यातिशयानतिशयवत्त्वात् तज्ज्ञानभेदो भवति । एवमवधिमन:पर्ययज्ञानयोरपि स्वावरणक्षयोपशमभेदात् क्षायोपशमिकत्वं वेदितव्यम् । अज्ञानं त्रिविधं मत्यज्ञानं श्रुताज्ञानं विभङ्गं चेति । ६ । तेषां क्षायोपशमिकत्वं पूर्ववत् । ज्ञानाज्ञान विभागस्तु मिथ्यात्व कर्मोदयानुदयापेक्षः । दर्शनं त्रिविधं क्षायोपशमिकं "चक्षुर्दर्शनमचक्षुर्दर्शन मवधिदर्शनं चेति ॥७॥ एतत्त्रितयमपि पूर्ववत् स्वावरणक्षयोपशमापेक्षं द्रष्टव्यम् । लब्धयः पञ्च क्षायोपशमिक्यः " दानलब्धिर्लाभलब्धिर्भोगलब्धिरुपभोगलब्धिर्वोयलब्धिश्चेति ॥७॥ दानान्तरायादिसर्व घातिस्पर्धकक्षयोपशमे देशघातिस्पर्ध कोदयसद्भावे ताः १ सर्वघात्यभा- श्रा०, ब०, ६०, मु० । २ वीर्य । ३ - पंक्तिक्रम - श्रा०, ब०, ६०, मु०, म०, ता० । ४ वीर्यम् । ५ तावद्वारपरि- प्रा०, ब०, द०, मु० ६ ते किंप्रमाणा इत्याह । ७ - ग्रुप- द० । ८ राशिः त- ता०, श्र० । C वर्गणानाम् - मू० टि०, श्र० टि० । १० अकर्मकर्मनो कर्मजातिभेदेषु वर्गणा । ११ भवन्ति ता० श्र०, मू० । १२ - ये सति मति- मु० । १३ उक्तञ्चाराधनासारे तल्लक्षणम् - चक्षुर्ज्ञानात्पूर्व प्रकाशरूपेण विषयसन्दशि । यच्चैतन्यं प्रसरति तच्चक्षुर्दर्शनं नाम ।। शेषेन्द्रियावबोधात् पूर्वं तद्विषयदश यज्ज्योतिः । निर्गच्छति तदचक्षुर्दर्शनसंज्ञं स्वचैतन्यम् ॥ ज्ञानात्पूर्व रूपपदार्थावभासि यज्ज्योतिः । प्रविनिर्याति स्वस्मान्नामावधिदर्शनं तत्स्यात् ॥ १४ - शमिकाः दा - आ०, ब०, ६०, मु० । श्रवधिइति । Jain Education International For Private & Personal Use Only ५ २५ www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy