________________
[श६
१०८
तत्त्वार्थवार्तिके पञ्च लब्धयो भवन्ति । सम्यक्त्वग्रहणेन वेदकसम्यक्त्वमिह परिगृहयते । अनन्तानुबन्धिकषायचतुष्टयस्य मिथ्यात्वसम्यङमिथ्यात्वयोश्चोदयक्षयात् सदुपशमाच्च सम्यक्त्वस्य देशघातिस्पर्धकस्योदये सति तत्त्वार्थश्रद्धानं क्षायोपशमिकं सम्यक्त्वम् । अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानद्वादशकषायोदयक्षयात् सदुपशमाच्च संज्वलनकषायचतुष्टयान्यतमदेशघातिस्पर्धकोदये सति नोकषायनवकस्य यथासंभवोदये च निवृत्तिपरिणाम आत्मनः क्षायोपशमिकं चारित्रम् । अनन्तानुबन्ध्यप्रत्याख्यानकषायाष्टकोदयक्षयात् सदुपशमाच्च प्रत्याख्यानकषायोदये 'संज्वलनकषायस्य देशघातिस्पर्धकोदये नोकषायनवकस्य यथासंभवोदये च विरताविरतपरिणामः क्षायोपशमिकः संयमासंयमः।
संज्ञित्वसम्यङमिथ्यात्वयोगोपसंख्यानमिति चेत्, न; ज्ञानसम्यक्त्वलब्धिग्रहणेन गृही१० तत्वात् ।९। स्यादेतत्-संज्ञित्वसम्यङमिथ्यात्वयोगोपसंख्यानं कर्तव्यम्, तेऽपि हि क्षायोपशमिका
इति; तन्न; किं कारणम् ? ज्ञानसम्यक्त्वलब्धिग्रहणेन गृहीतत्वात् । संज्ञित्वं हि मतिज्ञानेन गृहीतं सम्यङमिथ्यात्वं सम्यक्त्वग्रहणेन, नोइन्द्रियावरणक्षयोपशमापेक्षत्वात्, उभयात्मकस्य एकात्मपरिग्रहाच्च उदकव्यति'मिश्रक्षीरव्यपदेशवत् । योगश्च वीर्यलब्धिग्रहणेन गृहीत इति ।
अथवा, चशब्देन समुच्चयो वेदितव्यः । अथ पञ्चेन्द्रियत्वे समाने नोइन्द्रियावरणक्षयोपशम: १५ 'कस्यचिद्भवति कस्यचिन्नेति कुतोऽयं विकल्पः ? उच्यते-संज्ञिजातिनामकर्मविशेषोदयबललाभे
सति नोइन्द्रियावरणक्षयोपशमो भवति, तदभावे न भवतीत्ययं विशेषः, एकेन्द्रियजातिनामा"धुदयविशेषापेक्षया "एकेन्द्रियादिक्षयोपशमभेदवत् ।
य एकविंशतिविकल्प औदयिको भाव उद्दिष्ट: तस्य भेदसंज्ञाकीर्तनार्थमिदमारभ्यतेगतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतु
स्येकैकैकैकषड्भेदाः ॥६॥ गत्यादीनामितरेतरयोगे द्वन्द्वः, चतुरादीनां च द्वन्द्वगर्भा अन्यपदार्थप्रधाना वृत्तिः । पूर्ववदेकशेषाभावः।
__ गतिनामकर्मोदयादात्मनस्तद्धावपरिणामाद् गतिरौदयिको।१। येन कर्मणा आत्मनो नारकादिभावावाप्तिर्भवति तद् गतिनाम चतुर्विधम्-नरकगतिनाम तिर्यग्गतिनाम मनुष्यगतिनाम २५ देवगतिनाम चेति । तत्र नरकगतिनामकर्मोदयानारको भावो भवतीति औदयिकः। एवं
तिर्यग्गतिनामकर्मोदयात्तिर्यग्भाव औदयिकः । मनुष्यगतिनामकर्मोदयात् मनुष्यभाव औदायकः । देवगतिनामकर्मोदयाद् देवभाव औदयिकः ।
'चारित्रमोहविशेषोदयात् कलुषभावः कषाय औदयिकः ।२। चारित्रमोहस्य कषायवेदनीयस्योदयादात्मनः कालुष्यं क्रोधादिरूपमुत्पद्यमानं 'कषत्यात्मानं हिनस्ति' इति कषाय इत्यु३० च्यते । स औदयिकश्चतुर्विधः-क्रोधो मानो माया लोभश्चेति । तद्भेदा अनन्तानुबन्ध्यप्रत्या
ख्यानप्रत्याख्यानसंज्वलनविकल्पाः ।
१ समुदायरूपस्यास्य अवयवरूपं स्पर्द्धकम् । २-ध्यामि-- प्रा०, ब०, ८०, मु०। ३ कस्यचिद्भवे भ- प्रा०, २०, ८०, मु०। ४ प्रादिशब्देन द्वीन्द्रियजातिनामादिकं गृह्यते। ५ स्पर्शनेन्द्रियावरणादि। ६ चारित्रमोहोदयात् आ०, ब०, द०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org