________________
श६]
द्वितीयोऽध्यायः वेदोदयापादितोऽभिलाषविशेषो लिङगम् ।३। लिङ्गं द्विविधम्-द्रव्यलिङ्ग भावलिङ्गं च । तत्र यद् द्रव्यलिङ्ग नामकर्मोदयापादितं तदिह नाधिकृतम् आत्मपरिणामप्रकरणात् । भावलिङ्गमात्मपरिणामः स्त्रीपुनपुसकान्योन्याभिलाषलक्षणः । स पुनश्चारित्रमोहविकल्पस्य नोकषायस्य स्त्रीवेदपुवेदनपुंसकवेदस्योदयाद्भवतीत्यौदयिकः ।
दर्शनमोहोदयात्तत्त्वार्थाश्रद्धानपरिणामो मिथ्यादर्शनम् ।४। तत्त्वार्थरुचिस्वभावस्यात्मनः ५ तत्प्रतिबन्धकारणस्य दर्शनमोहस्योदयात तत्त्वार्थेषु निरूप्यमाणेष्वपिन श्रद्धानमुत्पद्यते तन्मिथ्यादर्शनमौदयिकमित्याख्यायते ।
ज्ञानावरणोदयादज्ञानम् ।५। ज्ञस्वभावस्यात्मनः तदावरणकर्मोदये सति नावबोधो भवति तदज्ञानमौदयिकम्, घनसमूहस्थगितदिनकरतेजोऽनभिव्यक्तिवत् । तद्यथा-एकेन्द्रियस्य रसनवाणश्रोत्रचक्षुषामिन्द्रियाणां प्रतिनियताभि निबोधिकज्ञानावरणस्य सर्वघातिस्पर्धकस्यो- १० दयात् रसगन्धशब्दरूपाज्ञानं यत्तदौदयिकम् । एवं द्वित्रिचतुरिन्द्रियेषु शेषेन्द्रियविषयाज्ञानं वाच्यम् । पञ्चेन्द्रियतिर्यक्षु शुकसारिकादिवजितेषु मनुष्येषु च स्केषुचिद् अक्षरश्रुतावरणस्य सर्वघातिस्पर्धकस्योदयाद् अक्षरश्रुतनिर्वृत्त्यभावादक्षरश्रुताज्ञानमौदयिकम् । नोइन्द्रियावरणस्य सर्वधातिस्पर्धकस्योदयाद्धिताहितपरीक्षां प्रत्यसामर्थ्यम् असंज्ञित्वमौदयिकम्, तदप्यत्रैवान्तर्भवति । एवमवधिमनःपर्ययकेवलज्ञानावरणोदयात् प्रत्येकमज्ञानमौदयिकं वाच्यमिति । १५
चारित्रमोहोदयादनिवृत्तिपरिणामोऽसंयतः ।। चारित्रमोहस्य सर्वघातिस्पर्धकस्योदयात् प्राण्युपधातेन्द्रियविषये द्वेषाभिलाषनिवृत्तिपरिणामरहितोऽसंयत औदयिकः।।
कर्मोदयसामान्यापेक्षोऽसिद्धः ।७। अनादि कर्मबन्धसन्तानपरतन्त्रस्यात्मनः कर्मोदयसामान्ये सति असिद्धत्वपर्यायो भवतीत्यौदयिकः । स पुनमिथ्यादृष्ट्यादिषु सूक्ष्मसाम्परायिकान्तेषु कष्टिकोदयापेक्षः, 'शान्तक्षीणकषाययोः सप्तकर्मोदयापेक्षः, सयोगिकेवल्ययोगिकेव- २० लिनोरघातिकर्मोदयापेक्षः।
___कषायोदयरञ्जिता योगप्रवृत्तिर्लेश्या।८। द्विविधा लेश्या-द्रव्यलेश्या भावलेश्या चेति । तत्र द्रव्यलेश्या पुद्गलविपाकिकर्मोदयापादितेति सा नेह परिगृहयत आत्मनो भावप्रकरणात् । भावलेश्या कषायोदयरञ्जिता योगप्रवृत्तिरिति कृत्वा औदयिकीत्युच्यते । ननु च योगप्रवृत्तिरात्मप्रदेशपरिस्पन्द क्रिया, सा वीर्यलब्धिरिति क्षायोपशमिकी व्याख्याता, कषायश्चौदायिको २५ व्याख्यातः, ततो लेश्याऽनन्तरभूतेति ; नैष दोषः, कषायोदयतीवमन्दावस्थापेक्षाभेदाद् अर्थान्तरत्वम् । सा षड्विधा-कृष्णलेश्या नीललेश्या कपोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या चेति । तस्यात्मपरिणामस्याऽशुद्धिप्रकर्षाप्रकर्षापेक्षया कृष्णादिशब्दोपचारः क्रियते ।
ननु च 'उपशान्तकषाये क्षीणकषाये सयोगकेवलिनि च शुक्ला लेश्यास्ति' इत्यागमः', तत्र कषायानुरञ्जनाभावादौदयिकीत्वं नोपपद्यतेः नेष दोषः; पूर्वभावप्रज्ञापननयापेक्षया ३० यासौ योगप्रवृत्तिः कषायानुरञ्जिता 'संवेयम्' इत्युपचारादौदयिकीत्युच्यते। तदभावादयोगिकेवल्यलेश्य इति च निश्चीयते ।
अत्र 'चोद्यते-यथा अज्ञानमौदयिकम् एवमदर्शनमपि दर्शनावरणोदयाद्भवतीत्यौदयिकम, निद्रानिद्रादयश्चौदयिकाः, वेदनीयोदयात् सुखदुःखमौदयिकम्, नोकषायाश्च हास्यरत्यादयः
१ मूके । २ प्रज्ञाने। ३-कर्मसंबन्धस-पा०, ब०, मु०। ४ मोहनीयकर्माभावात् । ५"सुक्कलेस्सिया सणिमिच्छाइटिप्पहुडि जाव सजोगिकेवलित्ति" -षट्खं० सं० सू० १३९।६-दयिकत्वं प्रा०, ब०, 4०, मु०। ७ योगवत्तिः ता०, श्र०, मू०, द०। ८ योगाभावात् । चोयं प्रश्ने च विस्मये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org