________________
११० तत्त्वार्थवार्तिके
[२२७ षडौदयिकाः, आयुरुदयाद्भवधारणं भवत्यौदयिकम्, उच्चैर्नीचर्गोत्रकर्मोदयादुच्चनीचगोत्रपरिणामो भवतीत्यौदयिकः, नामकर्मणि च जात्यादय औदयिकाः, एतेषामपरिग्रहान्न्यून लक्षणमिति । अथ मतम्-आत्मपरिणामस्याधिकृतत्वाच्छरीरादीनामौदयिकत्वेऽपि पुद्गलविपाकित्वात्
तेषामसंग्रह इति; एवमपि ये जीवविपाकिनस्तेषां ग्रहणं कर्तव्यं जात्यादीनाम् ? अत ५ उत्तरं पठति
मिथ्यादर्शनेऽदर्शनावरोधः।९। मिथ्यादर्शने अदर्शनस्यावरोधो भवति । निद्रानिद्रादीनामपि दर्शनसामान्यावरणत्वात्तत्रैवान्तर्भावः । ननु च तत्त्वार्थाश्रद्धानं मिथ्यादर्शनमित्युक्तम् सत्यमुक्तम् ; सामान्यनिर्देशे विशेषान्तर्भावात्, सोऽप्येको विशेषः । अयमपरो विशेष:-अदर्शनमप्रतिपत्तिमिथ्यादर्शनमिति ।
लिङगग्रहणे हास्यरत्याद्यन्तर्भावः सहचारित्वात् ।१०। लिङ्गग्रहणे हास्यरत्यादीनामन्तर्भावो भवति । कुतः ? सहचारित्वात्, पर्वतग्रहणेन नारदग्रहणवत् ।
गतिग्रहणमघात्युपलक्षणम् ॥११॥ अघातिकर्मोदयापादिता ये भावाः तेषां गतिग्रहणमुपलक्षणं यथा 'काकेभ्यो रक्षतां सर्पिः' इति काकग्रहणमुपघातकोपलक्षणम् । तेन जात्यादयो
भावा नामकर्मविशेषोदयापादिता वेदनीयायुर्गोत्रोदयकृताश्च गृहयन्ते । १५ इह यथाक्रममिति वक्तव्यं गतिश्चतुर्विधेत्येवमाद्यानुपूर्व्यसंप्रत्ययार्थम्, न वक्तव्यम्, 'यथाक्रमम्' इत्यनुवर्तते ।। यः पारिणामिको भावस्त्रिभेद उक्तः, तद्विकल्पस्वरूपप्रतिपानादर्थमाह
जीवभव्याऽभव्यत्वानि च ॥७॥ अन्यद्रव्यासाधारणास्त्रयः पारिणामिकाः ।। जीवत्वं भव्यत्वमभव्यत्वमित्येते पारिणा२० मिका आत्मनस्त्रयो भावा अन्यद्रव्यासाधारणा वेदितव्याः । कुतः पुनरेषां पारिणामिकत्वम् ?
कर्मोदय'क्षयोपशमक्षयोपशमानपेक्षत्वात् ।। न हयेवंविधं कर्मास्ति यस्योदयात् क्षयात् उपशमात् क्षयोपशमाद्वा जीवो भव्योऽभव्य' इति चोच्येत । तदभावादनादिद्रव्यभवनसंबन्धपरिणामनिमित्तत्वात् पारिणामिका इति व्यपदिश्यन्ते।।
आयुर्द्रव्यापेक्षं जीवत्वं न पारिणामिकमिति चेत्, न; पुद्गलद्रव्यसंबन्धे सत्यन्यद्रव्य२५ सामर्थ्याभावात् ।। स्यादेतत्-आयुर्द्रव्योदयाज्जीवतीति जीवो नानादिपारिणामिकत्वादिति;
'तन्नः किं कारणम् ? पुद्गलद्रव्यसंबन्धे सत्यन्यद्रव्यसामर्थ्याभावात् । आयहि पौद्गलिकं द्रव्यम् । यदि च तत्संबन्धाज्जीवस्य जीवत्वं स्यात्, नन्वेवमन्यद्रव्यस्यापि धर्मादेरायुःसंबन्धाज्जीवत्वं स्यात् । किञ्च,
सिद्धस्याजीवत्वप्रसङगात् ।४। यद्यायुःसंबन्धापेक्षं जीवत्वं ननु सिद्धस्यायुरभावाद३० जीवत्वं प्रसज्येत । ततस्तदनपेक्षत्वाज्जीवत्वं पारिणामिकमेव ।
जीवे त्रिकालविषयविग्रहदर्शनादिति चेत् न रूढिशब्दस्य निष्पत्यर्थत्वात् ।। स्यान्मतम्-'जीवति अजीवीत् जीविष्यति' इति त्रिकालविषयो विग्रहो दृश्यते ततः प्राणधारणार्थ
१परिणामः स्वभावःप्रयोजनमस्य । २-यक्षयक्षयो- श्र०, ता०, मू०, ०। ३ क्षयात् क्षयोमा०, ब०, २०, श्र०, ता०, मू०। ४ -व्यो वेति चोच्यते प्रा०, ब०, मु०। ५ चोच्यते द०। ६ चेन्न मु०। ७-धाज्जीवत्वं प्रा०, ब०, २०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org