________________
१११
२७]
द्वितीयोऽध्यायः त्वात् कर्मापेक्षत्वे न पारिणामिकत्वमिति; तच्च न; कस्मात् ? रूढिशब्दस्य निष्पत्त्यर्थत्वात् । रूढिशब्देषु हि क्रियोपात्तकाला व्युत्पत्त्यर्थंव न तन्त्रम्,' यथा गच्छतीति गौरिति ।
चैतन्यमेव वा जीवशब्दार्थः।। अथवा, चैतन्यं जीवशब्देनाभिधीयते, तच्चानादिद्रव्यभवननिमित्तत्वात् पारिणामिकम्।
सम्यग्दर्शनज्ञानचारित्रपरिणामेन भविष्यतीति भव्यः।७। भव्यादीनां प्रायेण भविष्यत्काल- ५ विषयत्वात् 'सम्यग्दर्शनादिपर्यायेण य आत्मा भविष्यति स भव्यः' इतीमं व्यपदेशमास्कन्दति ।
तद्विपरीतोऽभव्यः ।८। यो न तथा भविष्यत्यसावभव्य इत्युच्यते । किं कृतोऽयं विशेषः ? द्रव्यस्वभावकृतः, अतः पारिणामिकत्वमनयोः ।
योऽनन्तेनापि कालेन न सेत्स्यत्यसावभव्य एवेति चेत् न; भव्यराश्यन्तर्भावात् ।९। स्यादेतत्-अनन्तकालेनापि योन सेत्स्यत्यसौ अभव्यतुल्यत्वादभव्य एव । अथ सेत्स्यति सर्वो. भव्यः; तत उत्तरकालं भव्यशून्यं जगत् स्यादिति ? तन्न; किं कारणम् ? भव्यराश्यन्तर्भावात् । यथा 'योऽनन्तकालेनापि कनकपाषाणो न कनकीभविष्यति न तस्यान्धपाषाणत्वं कनकपाषाणशक्तियोगात्, यथा वा आगामिकालो योऽनन्तेनापि कालेन नागमिष्यति न तस्यागामित्वं हीयते, तथा भव्यस्यापि स्वशक्तियोगाद् असत्यामपि व्यक्तौ न भव्यत्वहानिः ।
भावस्यैकत्वनिर्देशो युक्त इति चेत्, न; द्रव्यभेदाद्भावभेदसिद्धः।१०। स्यादेतत्-'जीवश्च १५ भव्यश्चाऽभव्यश्च जीवभव्याभव्याः' इति द्वन्द्वे कृते तेषां भावे विवक्षिते एकत्वनिर्देशो युक्तो जीवभव्याभव्यानां भावो जीवभव्याभव्यत्वमिति ? तन्न; किं कारणम्? द्रव्यभेदाद्भावभेदसिद्धेः । नहि 'भाव एकत्वेन वक्तव्यः' इति नियमोऽस्ति, ततो द्रव्यभेदाइँदे सति बहुत्वनिर्देशो युक्तो जीवभव्याभव्यानां भावा जीवभव्याभव्यत्वानीति । पुनः प्रत्येकमभिसंबन्धो भवति-जीवत्वं भव्यत्वमभव्यत्वमिति ।
द्वितीयगुणग्रहणमा!क्तत्वादिति चेत्, न; तस्य नयापेक्षत्वात् ।११॥ अथ मतम्-द्वितीयगुणग्रहणमिह कर्तव्यम् । कोऽसौ "द्वितीयो गुणः ? सासादनसम्यग्दृष्टि: । सोऽपि जीवस्यासाधारणः पारिणामिकः । एवं हयार्षे उक्तम्-*"सासादनसम्यग्दृष्टिरिति को भावः ? पारिणामिको भावः" [षटखं०] इति। न कर्तव्यम , कतः ? तस्य नयापेक्षत्वात । मिथ्यात्वकर्मण उदयं क्षयमुपशम" क्षयोपशमं वा नापेक्षत इत्याचे पारिणामिकः, इह पुनरसावौदयिक इत्येवं २५ गृहयते अनन्तानुबन्धिकषायोदयात्तस्य निवृत्तेः ।
चशब्दः किमर्थः ?
अस्तित्वान्यत्व-कर्तृत्व-भोक्तृत्व-पर्यायवत्त्वाऽसर्वगतत्वाऽनादिसन्ततिबन्धनबद्धत्व-प्रदेश वत्त्वारूपत्व-नित्यत्वादिसमुच्चयार्थश्चशब्दः ।१२। अस्तित्वादयोऽपि पारिणामिका भावाः सन्ति तेषां समुच्चयार्थश्चशब्दः । यदि तेऽपि पारिणामिकाः सूत्रे तेषां ग्रहणं कस्मान्न कृतम् ?
अन्यद्रव्यसाधारणत्वादसूत्रिताः।१३। अस्तित्वादयो हि धर्मा अन्येषामपि द्रव्याणां साधारणास्ततस्ते न सूत्रिताः । तद्यथा-अस्तित्वं तावत्साधारणं षड्द्रव्यविषयत्वात् । तत् 'कर्मोदयक्षयक्षयोपशमानपेक्षत्वात् पारिणामिकम् ।
१ प्रधानम् । २-शवस्यार्थः मा०, ब०, ८०, मु०, ता० । ३ भव्यः। ४ योऽनन्तेनापि कालेन क-प्रा०, ब०, म०। ५ द्वितीयगुणः प्रा०, ब०, २०, मु०। ६ "सासणसम्मादिठित्ति को भावो पारिणामिनो भावो।" -षट्खं० भा० ३ । ७-मं वा ना-मा०, २०, द०, म०, मः। ८ कर्मोदयक्षयोप- श्र०, ता०, मू० ।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org