________________
तरवार्थवार्तिके
[२७ अन्यत्वमपि साधारणं सर्वद्रव्याणां परस्परतोऽन्यत्वात् । कर्मोदयाद्यपेक्षाभावात् तदपि पारिणामिकम् ।
कर्तृत्वमपि साधारणं क्रियानिष्पत्तौ सर्वेषां स्वातन्त्र्यात् । ननु च जीवपुद्गलानां क्रियापरिणामयुक्तानां कर्तृत्वं युक्तम्, धर्मादीनां कथम् ? तेषामपि अस्त्यादिक्रिया विषयमस्ति ५ कर्तृत्वम् । कर्मोदयाद्यपेक्षाभावात् तदपि पारिणामिकम् । ननु चात्मप्रदेशपरिस्पन्दस्य योगसंज्ञकस्य यत्कर्तृत्वं न तत्साधारणमिति असाधारणेषुपसंख्येयम्: न; तस्य क्षयोपशमनिमित्तत्वात् । यदस्य पुण्यपापयोः कर्तृत्वं तदन्य द्रव्याणामसाधारणमपि सन्न पारिणामिकम् । कस्मात् ? उदयक्षयोपशमनिमित्तत्वात् । मिथ्यादर्शनं हि दर्शनमोहोदयनिमित्तम्, अविरतिप्रमाद- .
कषायाः चारित्रमोहोदयनिमित्ताः, योगाश्च क्षायोपशमिका इति । अन्यद्रव्यासाधारणानादि१० पारिणामिकचैतन्यसन्निधाने पुण्यपापयोः कर्तृत्वमिति पारिणामिकमिति चेत्, न; सार्व
कालिककर्तृत्वप्रसङ्गात् । मुक्तानामपि चैतन्यमस्तीति पुण्यपापयो: कर्तृत्वं स्यात्, संसारिणांर चाविशिष्ट' स्यात् चैतन्यकारणस्याझेदात् ।
भोक्तृत्वमपि साधारणम् । कुतः ? तल्लक्षणोपपत्तेः। वीर्यप्रकर्षात् परद्रव्यवीर्यादानसामर्थ्य भोक्तृत्वलक्षणम् । यथा आत्मा आहारादेः परद्रव्यस्यापि वीर्यात्मसात्करणाद्भोक्ता, १५ तथा विषस्याचेतनस्य वीर्यप्रकर्षात् कोद्रवद्रव्यादिसारसंग्रहाद्भोक्तृत्वम् । लवणादीनां च
वीर्यप्रकर्षात् काष्ठादिद्रव्यलवणकरणाद्भोक्तृत्वम् । कर्मोदयापेक्षाभावात्तदपि पारिणामिकम् । यत्तु आत्मनः शुभाशुभकर्मफलस्योपभोक्तृत्वं न तत्साधारणं न च पारिणामिकम्; तस्य क्षयोपशमनिमित्तत्वात, वीर्यान्तरायक्षयोपशमाङ्गोपाङ्गनामलाभावष्टम्भाद् आत्मनः शुभा
शुभकर्मफलोपभोगे सामर्थ्यमाविर्भवति । आहारादिवीर्यात्मसात्करणलक्षणोपभोगश्च २० भोगान्तरायक्षयोपशमात्, उपात्तस्य च जरणं वीर्यान्तरायक्षयोपशमात्। कर्म अन्तरेण विषादीनां कथं भोक्तृत्वमिति चेत् ? प्रतिनियतशक्तित्वाद् द्रव्याणां भास्करप्रतापवत् ।
पर्यायवत्त्वमपि साधारणं सर्वद्रव्याणां प्रतिनियतपर्यायोपपत्तेः । कर्मोदयाद्यपेक्षाभावात्तदपि पारिणामिकम् ।।
___असर्वगतत्वमपि साधारणं परमाण्वादीनामविभुत्वात्, धर्मादीनां च परिमितासंख्यात२५ प्रदेशत्वात् । कर्मोदयाद्यपेक्षाभावात्तदपि पारिणामिकम् । यदस्य कर्मोपात्तशरीरप्रमाणानुविधायित्वं तदसाधारणमपि सन्न पारिणामिकम; कर्मनिमित्तत्वात् ।
अनादिसन्ततिबन्धनबद्धत्वमपि साधारणम् । कस्मात् ? सर्वद्रव्याणां स्वात्मीयसन्तानबन्धनबद्धत्वं प्रत्यनादित्वात् । सर्वाणि हि द्रव्याणि जीवधर्माधर्माकाशकालपुद्गलाख्यानि
प्रतिनियतानि पारिणामिकचैतन्योपयोग-गति-स्थित्यवकाशदान-वर्तनापरिणाम-वर्णगन्धरस३० स्पर्शादिपर्यायसन्तानबन्धनबद्धानि। कर्मोदयाद्यपेक्षाभावात्तदपि पारिणामिकम् । यदस्यानादि
कर्मसन्ततिबन्धनबद्धत्वं तदसाधारणमपि सन्न पारिणामिकम्; कर्मोदयनिमित्तत्वात् । वक्ष्यते हि "अनादिसंबन्धे च । सर्वस्य' [त.सू० २।४१,४२] इति ।
१-याविशेषविषयकम-प्रा०, ब०, म०। २ जीवभव्याभव्यत्वेषु । ३ परस्परम् । ४ अयं पुण्यवानयं पाप इति, अथवा यत्पुण्यवान् स तद्वानेव यः पापी स तद्वानेवेति । ५ -नां वी- श्र० । ६ यथा भास्करप्रतापः पाषाणवालुकादीन् तपति न तथा तस्य तापकं द्रव्यमस्ति अपि तु स्वयमेव । ७ कर्मोवयापे-ब०, मू०, ता०, श्र०। ८-बद्धानिकर्मोदयत्वं भा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org