________________
११३
२७]
द्वितीयोऽध्यायः प्रदेशवत्त्वमपि साधारणं संख्येयाऽसंख्येयानन्तप्रदेशोपेतत्वात् सर्वद्रव्याणाम् । तदपि कर्मोदयाद्यपेक्षाभावात् पारिणामिकम् ।
अरूपत्वमपि साधारणं जीवधर्माधर्मकालाकाशानां रूपयोगाभावात् । तदपि कर्मोदयाद्यपेक्षाभावात् पारिणामिकम् ।
नित्यत्वमपि साधारणं द्रव्यार्थादेशात् सर्वद्रयाणां व्ययोदययोगाभावात् । तच्च कर्मो- ५ दयाद्यपेक्षाभावात् पारिणामिकम् ।
ऊर्ध्वगतित्वमपि साधारणम् अग्न्यादीनामूर्ध्वगतिपारिणामिकत्वात् । तच्च कर्मोदयाद्यपेक्षाभावात् पारिणामिकम् । एवमन्ये चात्मनः साधारणाः पारिणामिका योज्याः।
अनन्तरसूत्रनिर्दिष्टोपसंग्रहार्थश्चशब्द इति चेत्, न; अनिष्टत्वात् ।१४। स्यान्मतम्अनन्तरसूत्रे निर्दिष्टानां गत्यादीनामुपसंग्रहार्थश्चशब्दो न अस्तित्वादिसमुच्चयार्थ इति; तन्न; १० किं कारणम् ? अनिष्टत्वात् । नहि गत्यादीनां पारिणामिकत्वमिष्यते तल्लक्षणाभावात् ।
त्रिभेदपारिणामिकभावप्रतिज्ञानाच्च ।१५। यतश्चौपशमिकादिभावसंख्याविधायिनि सूत्रे त्रिभेदः पारिणामिक इति प्रतिज्ञातम्, अतो न गत्यादिसमुच्चयार्थश्चशब्दः ।
- गत्यादीनामुभयवत्त्वं क्षायोपशमिकभाववदिति चेत्, न; अन्वर्थसंज्ञाकरणात् ।१६। अथ मतमेतत्-यथा क्षायोपशमिकभावस्य क्षयोपशमात्मकत्वा'दुभयवत्त्वं तथा गत्यादीनामुभयवत्त्वा- ५ दौदयिकपारिणामिकत्वमिति 'औदयिक एकविंशतिभेदः, पारिणामिकश्च त्रिभेदः' इति सिद्धमिति; तन्न; किं कारणम् ? अन्वर्थसंज्ञाकरणात् । 'परिणामः स्वभावः प्रयोजनमस्येति पारिणामिकः' इत्यन्वर्थसंज्ञा । न चासौ स्वभावो गत्यादिषु विद्यते कर्मोदयनिमित्तत्वात् । किञ्च,
तथानभिधानात् ।१७। यथा उभयवत्त्वाज्ज्ञानादयः 'क्षायोपशमिकाः' इत्यभिधीयन्ते तथा गत्यादयः 'औदयिकपारिणामिकाः इत्यभिधीयेरन्, न चाभिधीयन्ते । तथानभिधानात् २० क्षायोपशमिकवद् गत्यादयो नोभयवन्तः। किञ्च,
अनिर्मोक्षप्रसङगात १८ गत्यादीनामभयवत्त्वात् पारिणामिकत्वे सत्यनिर्मोक्षप्रसङ्गः सातत्यावस्थानात् । तस्मात्स्थितमेतत्-'अस्तित्वादिसमुच्चयार्थ एव चशब्दः' इति ।
आदिग्रहणमत्र न्याय्यमिति चेत्, न; त्रिविधपारिणामिकभावप्रतिज्ञाहानेः ।१९। स्यादेतत्-'जीवभव्याभव्यत्वानि' इत्यत्र आदिग्रहणं न्याय्यम्, अस्तित्वादीनामपीष्टत्वादितिः तन्नः ..
, २५ कि कारणम् ? त्रिविधपारिणामिकभावप्रतिज्ञाहानेः । आदिग्रहणे हि क्रियमाणे जीवभव्याभव्यत्वास्तित्वादीनां पारिणामिकभावत्वात् 'त्रिविधः' इति यत्पुरस्तात् प्रतिज्ञातं तस्य हानिः स्यात् । ___समुच्चयार्थेऽपि चशब्दे तुल्यमिति चेत् न प्रधानापेक्षत्वात् ।२०। स्यान्मतम्-समुच्चयार्थेऽपि चशब्दे अस्तित्वादीनां पारिणामिकत्वेन समुच्चयात्रिभेदप्रतिज्ञाहानिस्तुल्येति; तन्नः किं कारणम् ? प्रधानापेक्षत्वात् । कण्ठोक्तानि त्रीणि प्रधानानि, तदपेक्षा विभेदप्रतिज्ञेति नास्ति विरोधः। अस्तित्वादीनि तु साधारणत्वात् चशब्देन द्योतितानीति तेषां गुणभावः । आदिशब्दे हि क्रियमाणे अस्तित्वादीनां प्राधान्यं स्यात्, जीवत्वादीनाम् उपलक्षणार्थत्वाद् अप्राधान्यम् । तद्गुणसंविज्ञाने चोभयेषां प्राधान्यं प्रसज्येत ।
१ -त्वात्तदुभ- ता०, श्र० । २ जीवभव्यत्वाभव्यत्वास्तित्वादीनामुपलक्षणार्थस्ततस्तेषां प्राधान्य स्यादित्यर्थः। ३ बहुव्रीहेरन्यपदार्थत्वादस्तित्वादीनां प्राधान्यं स्यादित्यर्थः । तद्गुणसंविज्ञानबहवीह्यङ्गीकारे जीवत्वावोनामप्राधान्यं न स्यादिति वदन्तं प्रत्याह । सर्वादीनि सर्वनामानीत्यादिकं तद्गुणसंविज्ञानस्योदाहरणम्, पर्वतादीनि क्षेत्रादीनीत्यादिकमतदगुणसंविज्ञानस्योदाहरणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org