________________
११४ तत्त्वार्थवार्तिके
[२७ सान्निपातिकभावोपसंख्यानमिति चेत्, न; अभावात् ।२१। स्यादेतत्-'आर्षे सान्निपातिकभाव उक्तः, स इहोपसंख्यातव्य इति; तन्न; किं कारणम् ? अभावात् । नहि षष्ठो भावोऽस्ति।
मिश्रशब्देनाक्षिप्तत्वाच्च ।२२। यद्यप्यसौ विद्यते मिश्रशब्देनासावाक्षिप्तः । ननु च ५ मिश्रशब्दः क्षायोपशमिकसंग्रहार्थो न सान्निपातिकग्रहणार्थ इति ? उच्यते-चशब्दवचनात् । 'औपशमिकक्षायिको भावौ मिश्रो जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च' इति सिद्धे यन्मिश्रशब्दसमीपे चशब्दकरणं तेन ज्ञायते मिश्रशब्देनोभयमुच्यते इति । मिश्रश्च कः ? क्षायोपशमिको भावः सान्निपातिकश्चेति । इदमयुक्तं वर्तते। किमत्रायुक्तम् ? यद्यस्ति सान्निपातिको
भावः 'अभावात्' इति विरुध्यते । अथ नास्ति; कथमा सान्निपातिको भाव उवतः ? कस्य १० वा मिश्रशब्देनाक्षेपः ? नैष दोषः, सान्निपातिक एको भावो नास्तीति ‘अभावात्' इत्युच्यते,
संयोगभङ्गापेक्षया अस्तीत्यार्ष वचनम् । तत्राभावपक्षे आदिसूत्रे पूर्वोक्तानुकर्षणार्थश्चशब्द उक्तः, भावपक्षे सान्निपातिकप्रतिपादनार्थश्चशब्दः । पूर्वोक्तानुकर्षस्तुर अपेक्षया वेदितव्यः ।
___ अथाषों क्तः सान्निपातिकभावः कतिविध इति ? अत्रोच्यते-षड्विंशतिविधः षड्विशद्विध एकचत्वारिंशद्विध इत्येवमादिरागमे उक्तः। तत्र
*"दुग तिग चदु पंचेव य संयोगा हो ति सन्निवादेसु । दस दस पंच य एक्क य भावा छव्वीस पिंडेण ॥" [ ]
द्विभावसंयोगेन दश-औदयिकं परिगृह्यौपशमिकादिचतुष्टयस्य चैकैकत्यागेन प्रथमे 'द्विभेदभावसंयोगे चत्वारो भङ्गाः। तत्रैक औदयिकौपशमिकसान्निपातिकजीवभावो नाम
मनुष्य उपशान्तक्रोधः। द्वितीय औदयिकक्षायिकसान्निपातिकजीवभावो नाम मनुष्यः क्षीण२० कषायः । तृतीय औदयिकक्षायोपशमिकसान्निपातिकजीवभावो नाम मनुष्यः पञ्चेन्द्रियः । चतुर्थ
औदयिकपारिणामिकसान्निपातिकजीवभावो नाम लोभी जीवः । द्वितीयद्विभावसंयोगे औदयिकं परित्यज्यौपशमिकपरिग्रहात् क्षायिकादिभावत्रयस्यैकैकत्यागेन त्रयो भङ्गाः । तत्रैक औपशमिकक्षायिकसान्निपातिकजीवभावो नाम उपशान्तलोभः क्षीणदर्शनमोहत्वात् क्षायिकसम्यग्दृष्टिः । द्वितीय औपशमिकक्षायोपशमिकसान्निपातिकजीवभावो नाम उपशान्तमान आभिनिबोधिकज्ञानी। तृतीय औपशमिकपारिणामिकसान्निपातिकजीवभावो नाम उपशान्तमायो भव्यः । तृतीयद्विभावसंयोगे औपशमिकं परित्यज्य क्षायिकंपरिग्रहात् क्षायोपशमिकपारिणामिकयोरेकैकत्यागाद् द्वौ भङ्गो । तत्रैक: क्षायिकक्षायोपशमिकसान्निपातिकजीवभावो नाम क्षायिकसम्यग्दृष्टिः श्रुतज्ञानी । द्वितीयः क्षायिकपारिणामिकसान्निपातिकजीवभावो नाम क्षीणकषायो भव्यः । चतुर्थद्विभावसंयोगे क्षायिकपरित्यागादेकः क्षायोपशमिकपारिणामिकसान्निपातिकजीवभावो नाम अवधिज्ञानी जीवः । त एते द्विभावसंयोगभङ्गा समुदिताः दश।
प्रथमत्रिभावसंयोगे औदयिकौपशमिको परिगृह्य क्षायिकादिभावत्रयस्यैकैकभावपरिग्रहात् त्रयो भङ्गाः । तत्रैक औदयिकौपशमिकक्षायिकसान्निपातिकजीवभावो नाम मनुष्य उप
"प्रधबा सण्णिवादियं पडच्च छत्तीसभंगा। सण्णिवादिएत्ति का सण्णा ? एक्कम्हि गुणट्ठाणे जीवसमासे वा बहवो भावा जम्हि सण्णिवदंति तेसि भावाणं सण्णिवादएत्ति सण्णा।"-ध० टी० भावा० प० १९३। २ चशब्देन। ३-र्षणापेक्ष-प्र०, ब०, ८०, मु०। ४ द्वित्रिचतुःपञ्चैव च संयोगा भवन्ति सन्निपातेषु । दश दश पञ्च च एकश्च भावाः षत्रिंशत् पिण्डेन ॥ ५ द्विभेवसं-पा०, ब०, २०, मु०, मू०। ६ -म मनुष्यो जीवः पा०, ब०, २०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org