________________
१२२०] प्रथमोऽध्यायः
७५ विषयश्च यत्र ख्यापितस्तदग्रायणम् । छमस्थकेवलिनां वीर्य सुरेन्द्रदैत्याधिपानां ऋद्धयो नरेन्द्रचक्रधरबलदेवानां च वीर्यलाभो द्रव्याणां सम्यक्त्वलक्षणं च यत्राभिहितं तद्वीर्यप्रवादम्। पञ्चानामस्तिकायानामर्थो नयानां चानेकपर्यायैः ‘इदमस्तीदं नास्ति' इति च कात्न्येन यत्रावभासितं तदस्तिनास्तिप्रवादम् । अथवा, षण्णामपि द्रव्या भावाभावपर्यायविधिना स्वपरपर्यायाभ्याम् उभयनयवशीकृताभ्याम् अर्पितानर्पितसिद्धाभ्यां यत्र निरूपणं तदस्तिनास्ति- ५ प्रवादम् । पञ्चानामपि ज्ञानानां प्रादुर्भावविषयायतनानां ज्ञानिनाम् अज्ञानिनामिन्द्रियाणां च प्राधान्येन यत्र विभागो विभावितः तज्ज्ञानप्रवादम्।
वाग्गुप्तिसंस्कारकारणप्रयोगो द्वादशधा भाषा वक्तारश्चानेकप्रकारमृषाभिधानं दशप्रकारश्च सत्यसद्भावो यत्र प्ररूपितः तत् सत्यप्रवादम् । वाग्गुप्तिर्वक्ष्यमाणा। वाक्संस्कारकारणानि शिरःकण्ठादीनि अष्टौ स्थानानि। वाक्प्रयोगः शुभेतरलक्षणो वक्ष्यते। १.
अभ्याख्यानकलहपैशुन्यासंबद्धप्रलापरत्यरत्युपधिनिकृत्यप्रणतिमोषसम्यङमिथ्यादर्शनात्मिका भाषा द्वादशधा। हिंसादेः कर्मणः कर्तुविरतस्य विरताविरतस्य वाऽयमस्य कर्तेत्यभिधानम् अभ्याख्यानम् । कलहः प्रतीतः । पृष्ठतो दोषाविष्करणं पैशुन्यम् । धर्मार्थकाममोक्षाऽसंबद्धा वाग् असंबद्धप्रलापः। शब्दादिविषयदेशादिषु रत्युत्पादिका रतिवाक् । तेष्वेवारत्युत्पादिका अरतिवाक् । यां वाचं श्रुत्वा परिग्रहार्जनरक्षणादिष्वासज्यते सोपधिवाक् । वणिग्व्यवहारे १५ यामवधार्य निकृतिप्रवण आत्मा भवति सा निकृतिवाक् । यां श्रुत्वा तपोविज्ञानाधिकेष्वपि न प्रणमति सा अप्रणतिवाक् । यां श्रुत्वा स्तये वर्तते सा मोषवाक् । सम्यङमार्गस्योपदेष्ट्री सा सम्यग्दर्शनवाक् । तद्विपरीता मिथ्यादर्शनवाक् । वक्तारश्च आविष्कृतवक्तृत्वपर्याया द्वीन्द्रियादयः । द्रव्यक्षेत्रकालभावाश्रयमनेकप्रकारमनृतम् ।
दशविवः सत्यसद्भाव:- नाम-रूप-स्थापना-प्रतीत्य-संवृति-संयोजना-जनपद-देश-भाव- २० समयसत्यभेदेन । तत्र सचेतनेतरद्रव्यस्यासत्यप्यर्थे यद्वयवहारार्थ संज्ञाकरणं तन्नामसत्यम्, इन्द्र इत्यादि । यदर्थासन्निधानेऽपि रूपमात्रेणोच्यते तद्रूपसत्यम्, यथा चित्रपुरुषादिषु असत्यपि चैतन्योपयागादावर्थे पुरुष इत्यादि । असत्यप्यर्थे यत्कार्यार्थ स्थापितं द्यूताक्षनिक्षेपादिषु तत् स्थापनासत्यम् । आदिमदनादिमदौपशमिकादीन् भावान् प्रतीत्य यद्वचनं तत् प्रतीत्यसत्यम् । यल्लोके संवृत्या नीतं वचस्तत् संवृतिसत्यं यथा पृथिव्याद्यनेककारणत्वेऽपि सति 'पङके जातं २५ पङकजम्' इत्यादि । धूपचूर्णवासानुलेपनप्रवर्षादिषु पद्म-मकर-हंस-सर्वतोभद्र-क्रौञ्च-व्यूहादिषु वा सचेतनेतरद्रव्याणां यथा भागविधिसन्निवेशाविर्भावकं यद्वचस्तत् संयोजनासत्यम् ।
द्वात्रिंशज्जनपदेष्वार्यानार्यभेदेषु धर्मार्थकाममोक्षाणां प्रापकं यद्वचः तत् जनपदसत्यम् । ग्रामनगरराजगणपाखण्डजातिकुलादिधर्माणामुपदेष्ट्र यद्वचः तद् देशसत्यम् । छद्मस्थज्ञानस्य द्रव्ययाथात्म्यादर्शनेऽपि संयतस्य संयतासंयतस्य वा स्वगुणपरिपालनार्थ प्रासुकमिदमप्रासुकमि- ३० त्यादि यद्वचः तत् भावसत्यम् । प्रतिनियतषट्तयद्रव्यपर्यायाणामागमगम्यानां याथात्म्याविष्करणं यद्वचः तत् समयसत्यम् ।
१ अग्रायणीयपूर्व षण्णवतिलक्ष (६६००००) पदम् । २ सप्ततिलक्ष (७००००००) पदम् । ३ षष्टिलक्ष (६००००००) पदम् । ४ स्थान। ५ एकोनकोटि (REEEEEE) पदम् । ६ षडुत्तर
कोटि (१००००००६) पदम् । ७"अष्टौ स्थानानि वर्णानामरः कण्ठःशिरस्तथा। जिह्वामूलञ्च बताश्च नासिकौष्ठौ च तालु च ॥" -पाणिनिशि० श्लो०१३। ८ -प्याबद्धप्र-ता०, २०, मू०।
वञ्चना। १० द्वात्रिंशत्सहस्रजन- मा०, ब०, २० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org