________________
७४
तत्त्वार्थवार्तिके
[११२० प्रश्नानां व्याकरणं प्रश्नव्याकरणम्, तस्मिल्लौकिकवैदिकानामर्थानां निर्णयः। विपाकसूत्रे सुकृतदुःकृतानां विपाकश्चिन्त्यते।
द्वादशमङगं दृष्टिवाद इति । कौत्कलकाणे विद्धि-कौशिक-हरिस्मश्रु-मांछपिक रोमश-हारीत-मुण्डाश्वलायनादीनां क्रियावाददृष्टीनामशीतिशतम्, मरीचिकुमार-कपिलोलूक५ गार्ग्य-व्याघ्रभूति-वाद्वलि-माठर-मौद्गल्यायनादीनामक्रियावाददृष्टीनां चतुरशीतिः, साकल्य
वल्कल-कुथुमि-सात्यमुनि-नारायण-कठ-माध्यन्दिन-मौद-पैप्पलाद - बादराय गाम्बष्ठि - कृदौविकायन-वसु-जैमिन्यादीनामज्ञानिकुदृष्टीनां सप्तषष्टिः, वशिष्ठ-पाराशर-जनुकणि-वाल्मीकि 'रोमहर्षिणिसत्यदत्त-न्यासैलापुत्रौपमन्यवैन्द्रदत्तायस्थूणादीनां वैनयिकदृष्टीनां द्वात्रिंशत् ।
एषां दृष्टिशतानां त्रयाणां त्रिषष्टयुत्तराणां प्ररूपणं निग्रहश्च दृष्टिवादे क्रियते । १० "स पञ्चविधः-परिकर्म सूत्रं प्रथमानुयोगः 'पूर्वगतं चूलिका चेति ।
तत्र पूर्वगतं चतुर्दशप्रकारम्-उत्पादपूर्वम् अग्रायणं वीर्यप्रवादम् अस्तिनास्तिप्रवादं ज्ञानप्रवादं सत्यप्रवादम् आत्मप्रवादं कर्मप्रवादं प्रत्याख्यातनामधेयं विद्यानुवादं कल्याणनामधेयं प्राणावायं क्रियाविशालं लोकबिन्दुसारमिति । कालपुद्गलजीवादीनां यदा यत्र यथा च पर्यायेणोत्पादो वर्ण्यते तदुत्पादपूर्वम् । क्रियावादादीनां प्रक्रिया अगाणीव अङगादीनां स्वसमय
१ प्रश्नव्याकरणे त्रिनवतिलक्षषोडशसहस (६३१६०००) पदैः। दूतप्रश्नमुद्दिश्य नष्टमुष्टिचिन्तादिकं शिष्यप्रश्नमुद्दिश्य प्राक्षेपणी-विक्षेपिणी संवेजनी-निजनी चेति चतुर्णा कथानाम् । २ विपाकसूत्र एककोटि-चतुरशीतिलक्ष (१८४०००००) पदैः। एतेषां विशेषस्वरूपपरिज्ञानाय द्रष्टव्यम-ध० टी० सं० १० १०८-१२२। जयध० प्र० पु० ६३-६४, १२२-१३२। ३ दृष्टिवादस्वरूनिर्धारणाय द्रष्टव्यम्-१० टी० सं० पृ० १०८-१२२ । जयध० पृ० ६४-६६, १३२-१४८ । ४ -काण्ठेवि- प्रा०, ब०, म०। काण्वेवि-द०। ५ -गाम्बरीशस्विष्टिकृतिकायन- श्र० ।-णाम्बष्ठिकृदैलिकायन ता० ।--णास्विष्टिक्यवंतिकायन-द०। ६-रोमषिस- प्रा०, ब० द० म०। ७ दृष्टिवादः। ८ तत्र परिकर्म पञ्चविषम्-चन्द्रप्रज्ञप्तिः, सूर्यप्रज्ञप्तिः जम्बूद्वीपप्रज्ञप्तिः, द्वीपसागरप्रज्ञप्तिः, ज्याख्याप्रज्ञप्तिश्चेति । तत्र चन्द्र प्रज्ञप्तिःषत्रिशल्लक्षपञ्चसहस्र (३६०५०००) पदैः चन्द्रस्य विमानायुःपरिवारद्धिगमनवृद्धिहानिसाकारग्रहणादीनि वर्णयति । सूर्यप्रज्ञप्तिः पञ्चलक्षत्रिसहस्र (५०३०००) पदैः सूर्यस्यायुमण्डलपरिवारद्धिगमनप्रमाणग्रहणादीनि वर्णयति । जम्बूद्वीपप्रज्ञप्तिः त्रिलक्षपञ्चविंशतिसहस्र (३२५०००) पदैः जम्बूद्वीपगतमेरुकुलशलहूदवर्षवेदिकावनषण्डव्यन्तरावासादोन वर्णयति । द्वीपसागरप्रज्ञप्तिः द्विपञ्चाषल्लक्षषटत्रिंशत्सहस्त्र (५२३६०००) पदैः असंख्यातद्वीपसागरस्वरूपं वर्णयति । व्याख्याप्रज्ञप्तिश्चतुरशीतिलक्षषत्रिंशत्सहस्र (८४३६००००) पदैः रूप्यरूपिजीवादिद्रव्यस्वरूपं कथयति । सूत्रम् अष्टाशीतिलक्षपदैः जीवः प्रबन्धकः अकर्ता निर्गुणः प्रभोक्ता स्वप्रकाशकः....."रुत्पादव्ययधौव्यलक्षणवस्वादोनि वर्णयति । ......."चुलिका पञ्चविधा- तत्रजलगता द्विकोटिनवलक्षनवाशीतिसहस्रतिशत (२००६८९२००) पदैः जलस्तम्भनजलगमनाग्निस्तम्भनभक्षणाशनप्रवेशनादिकारणमन्त्रतन्त्रतपश्चरणादीनि वर्णयति । स्थलगता तावद्धिः (२००६८९२००) पदैः मेरुकुलशलभूम्यादिषु प्रवेशनशीधगमनादिकारणमन्त्रतन्त्रतपश्चरणादीनि वर्णयति । मायागता तावद्धिः पदैः मायारूपेन्द्रजलविक्रिया कारणमन्त्रतपश्चरणादीनि वर्णयति । आकाशगता तावद्धिः पर्वः आकाशगमनकारणमत्रतन्त्रतपश्चरणादीनि वर्णयति । रूपगता तावद्धिः पवैः सिंहगजतुरगतरनरहंसादिरूपपरावर्तनकारणमन्त्रतन्त्रतपश्चरणादीनि चित्रकाष्ठलेप्योत्खातनाविलक्षणधातवादरसवादखान्यवादादीनि च वर्णयति इति शास्त्रान्तरे (धवलादिषु)कथितम् । ६ पूर्वकृतम् ता०, २० । १०-वं च प्र-ब०, मु०, मू०, ता०, श्र०, द० । ११ एककोटि (१००००००) पदम् । १२ अग्रायणीचाङ्गादीनां स्वसमवाय-पा०, ब०, द०, मु०। “अग्रस्य द्वादशाङ्गषु प्रधानमूलस्य वस्तुनः अयनं ज्ञानमप्रायणं तत्प्रयोजनमग्रायणीयम् ।" -गो० जीव० जी० गा० ३६५ । जयध० १० १४० टि। -सम्पा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org